आरण्यकपर्व
अध्यायः ९५
लोमश उवाच।
यदात्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामिति।
तदाऽभिगम्य प्रोवाच वैदर्भं पृथिवीपतिम् ।।
राजन्निवेशे बुद्धिर्मे वर्तते पुत्रकारणात्।
वरयेत्वां महीपाल लोपामुद्रां प्रयच्छ मे ।।
एवमुक्तः स मिनिना महीपालो विचेतनः।
प्रत्याख्यानाय चाशक्तः प्रदातुं चैव नैच्छत ।।
ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः।
महर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत् ।।
तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम्।
लोपामुद्राऽभिगम्येदं काले वचनमब्रवीत् ।।
न मत्कृते महीपाल पीडामभ्येतुमर्हसि।
प्रयच्छ मामगस्त्याय त्राह्यात्मानं मया पितः ।।
दुहितुर्वचनाद्राजा सोऽगस्त्याय महात्मने।
लोपामुद्रां ततः प्रादाद्विधिपूर्वं विशांपते ।।
प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषत।
महार्हाण्युत्सृजैतानि वासांस्याभरणानि च ।।
ततः सा दर्शनीयानि महार्हाणि तनूनि च।
समुत्ससर्ज रम्भोरूर्वसनान्यायतेक्षणा ।।
ततश्चीराणि जग्राह वल्कलान्यजिनानि च।
समानव्रतचर्या च बभूवायतलोचना ।।
गङ्गाद्वारमथागम्य भगवानृषिसत्तमः।
उग्रमातिष्ठत तपः सह पत्न्याऽनुकूलया ।।
सा प्रीत्या बहुमानाच्च पतिं पर्यचरत्तदा।
अगस्त्यश्च परां प्रीतिं भार्यायामगमत्प्रभुः ।।
ततो बहुतिथे काले लोपामुद्रां विशांपते।
तपसा द्योतितां स्नातां ददर्श भगवानृषिः ।।
स तस्याः परिचारेण शौचेन च दमेन च।
श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम् ।।
ततः सा प्राञ्जलिर्भूत्वा लज्जमानेव भामिनी।
तदा सप्रणयं वाक्यं भगवन्तमथाब्रवीत् ।।
असंशयं प्रजाहेतोर्भार्यां पतिरविन्दत।
पा तु त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि ।।
यथा पितुर्गृहे विप्र प्रासादे शयनं मम।
तथाविधे त्वं शयने मामुपैतुमिहार्हसि ।।
इच्छामि त्वां स्रग्विणं च भूषणैश्च विभूषितम्।
उपसर्तुं यथाकामं दिव्याभरणभूषिता ।।
अन्यथा नोपतिष्ठेयं चीरकाषायवासिनी।
नैवापवित्रो विप्रर्षे भूषणोयं कथंचन ।।
अगस्त्य उवाच।
न ते धनानि विद्यन्ते लोपामुद्रे तथा मम।
यथाविधानि कल्याणि पितुस्तव सुमध्यमे ।।
लोपामुद्रोवाच।
ईशोसि तपसा सर्वं समाहर्तुं तपोधन।
क्षणेन जीवलोके यद्वसु किंचन विद्यते ।।
अगस्त्य उवाच।
एवमेतद्यथाऽऽत्थ त्वं तपोव्ययकरं तु तत्।
यथा तु मे न नश्येत तपस्तन्मां प्रयोदय ।।
लोपामुद्रोवाच।
अल्पावशिष्टः कालोऽयमृतोर्मम तपोधन।
न चान्यथाऽहमिच्छामि त्वामुपैतुं कथंचन ।।
न चापि धर्ममिच्छामि विलोप्तुं ते कथंचन।
एवं तु मे यथाकामं संपादयितुमर्हसि ।।
अगस्तय उवाच।
यद्येष काम सुभगे तव बुद्ध्या विनिश्चितः।
हर्तुं गच्छाम्यहं भद्रे चर काममिह स्थिता ।।
आरस्ते तेजस्विनी कन्या रोहिणीव दिविप्रभा ।।