आरण्यकपर्व

अध्यायः ८

Aranyaka Parva (Sanskrit) · Adhyaya 8
अक्षर का आकार

व्यास उवाच।

धतराष्ट्र महाप्राज्ञ निबोध वचनं मम।
वक्ष्यामि त्वां कौरवाणां सर्वेषां हितमुत्तमम् ।।

न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम्।
निकृत्त्या निकृताश्चैव दुर्योधनपुरोगमैः ।।

ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशे।
विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत ।।

तदयं किंनु पापात्मा तव पुत्रः सुमन्दधीः।
पाण्डवान्नित्यसंक्रुद्धो राज्यहेतोर्जिघांसति ।।

वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः।
वनस्थांस्तानयं हन्तुमिच्छन्प्राणान्विमोक्ष्यति ।।

यथाऽऽह विदुरः प्राज्ञो यथा भीष्मो यथा वयम्।
यथा कृपश्च द्रोणश्च तथा साधु विधीयताम् ।।

विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः।
अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यथाः ।।

समीक्षा यादृशी ह्मस्य पाण्डवान्प्रति भारत।
उपेक्ष्यमाणा सा राजन्महान्तमनयं व्रजेत् ।।

अथवाऽयं सुमन्दात्मा वनं गच्छतु ते सुतः।
पाण्डवैः सहितो राजन्नेक एवासहायवान् ।।

ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः।
यदि स्यात्कृतकृत्यस्त्वं भवेथाः पुरषर्षभ ।।

अथवा जायमानस्य यच्छीलमनुजायते।
श्रूयते तन्महाराज नामृतस्यापसर्पति ।।

कथं वा मन्यते भीष्मो द्रोणोऽथ विदुरोपिवा।
भवान्वाऽत्र परं कार्यं पुरा चार्थो निवर्तते ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
किर्मीरवधपर्वणि अष्टमोऽध्यायः ।। 8 ।।