आरण्यकपर्व

अध्यायः ७९

Aranyaka Parva (Sanskrit) · Adhyaya 79
अक्षर का आकार

वैशंपायन उवाच।

`धनञ्जयोत्सुकास्ते तु वने तस्मिन्महारथाः।
न्यवसन्त महाभागा द्रौपद्या सह कृष्णया' ।।

धनं जयोत्सुकानां तु भ्रातॄणां कृष्णया सह।
श्रुत्वा वाक्यानि विमना धर्मराजोप्यजायत ।।

अथापश्यन्महात्मानं देवर्षिं तत्र नारदम्।
दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् ।।

तमागतमभिप्रेक्ष्य भ्रातृभिः सह धर्मराट्।
प्रत्युत्थाय यथान्यायं पूजां चक्रे महात्मने ।।

स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुसत्तमः।
विबभावतिदीप्तौजा देवैरिव शतक्रतुः ।।

यथा च वेदान्सावित्री याज्ञसेनी तथा पतीन्।
न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा ।।

`अर्ध्यं पाद्यमथानीय त्वभ्यवायदच्युतः।
नारदस्तु महातेजाः स्वस्त्यस्त्वित्यभ्यभाषत ।।

ततो युधिष्ठिरो राजा दृष्ट्वा देवर्षिसत्तमम्।
यथार्हं पूजयामास विधिवत्कुरुनन्दनः' ।।

प्रतिगृह्य च तां पूजां नारदो भगवानृषिः।
आश्वासयद्धर्मसुतं युक्तरूपमिवानघ ।।

उवाच च महात्मानं धर्मराजं युधिष्ठिरम्।
ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददानि ते ।।

अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह।
उवाच प्राञ्जलिर्भूत्वा नारदं देवसंमितम् ।।

न्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते।
कृतमित्येव मन्येऽहं प्रसादात्तव सुव्रत ।।

यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ।
संदेहं मे सुनिश्रेष्ठ तत्वतश्छेत्तुमर्हसि ।।

प्रदक्षिणां यः कुरुते पृथिवीं तीर्थतत्परः।
किं फलं तस्य कार्त्स्न्येन तद्भवान्वक्तुमर्हति ।।

नारद उवाच।

शृणु राजन्नवहितो यथा भीष्मेण धीमता।
पुलस्त्यस्य सकाशाद्वै सर्वमेतदुपश्रुतम् ।।

पुरा भागीरथीतीरे भीष्मो धर्मभृतांवरः।
पित्र्यं व्रतं समास्थाय न्यवसन्मुनिभिः सह ।।

शुभे देशे तथा राजन्पुण्ये देवर्षिसेविते।
गङ्गाद्वारे महाभाग देवगन्धर्वसेविते ।।

स पितॄंस्तर्पयामास देवांश्च परमद्युतिः।
ऋषींश्च तर्पयामास विधिदृष्टेन कर्मणा ।।

कस्य चित्त्वथ कालस्य जपन्नेव महायशाः।
ददर्शाद्भुतसंकाशं पुलस्त्यमृषिसत्तमम् ।।

स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया।
प्रहर्षमतुलं लेभे विस्मयं परमं ययौ ।।

उपस्थितं महाभागं पूजयामास भारत।
भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा ।।

शिरसा चाघमादाय शुचिः प्रयतमानसः।
नाम संकीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे ।।

भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत।
तव संदर्शनादेव मुक्तोऽहं सर्वकिल्वपैः ।।

रएवमुक्त्वा महाराज भीष्मो धर्मभृतांवरः।
वाग्यतः प्राञ्जलिर्भूत्वातूष्णीमासीद्युधिष्ठिर ।।

तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम्।
भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाऽभवत् ।।

`ततः स मधुरेणाथ स्वरेण सुमहातपाः।
उवाच वाक्यं धर्मज्ञः पुलस्त्यः प्रीतमानसः' ।।

।। इति श्रीमन्माहाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि एकोनाशीतितमोऽध्यायः ।। 79 ।।