आरण्यकपर्व
अध्यायः ७५
बृहदश्व उवाच।
अथ तां व्युषितो रात्रिं नलो राजा स्वलंकृतः।
वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम् ।।
ततोऽभिवादयामास प्रयतः श्वशुरं नलः।
ततो नु दमयन्ती च ववन्दे पितरं शुभा ।।
तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा।
यथार्हं पूजयित्वा च समाश्वासयत प्रभुः ।।
नलेन सहितां तत्रदमयन्तीं पतिव्रताम्।
`अनुजग्राह महता सत्कारेण क्षितीश्वरः' ।।
तामर्हणां नलो राजा प्रतिगृह्य यथाविधि।
परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत् ।।
ततो बभूव नमरे सुमहान्हर्षजः स्वनः।
जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथाऽऽगतम् ।।
अशोभयच्च नगरीं पताकाध्वजमालिनीम्।
सिक्ताः सुमृष्टपुष्पाढ्या राजमार्गाः स्वलंकृताः ।।
द्वारिद्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः।
अर्चितानि च सर्वाणि देवतायतनानि च ।।
ऋतुपर्णोऽपिशुश्राव बाहुकच्छद्मिनं नलम्।
दमयन्त्या समायुक्तं जहृषे च नराधिपः ।।
तमानाय्य नलं राजा क्षमयामास पार्थिवः।
स च तं क्षमयामास हेतुभिर्बुद्धिसंमितः ।।
स सत्कृतोमहीपालो नैषधं विस्मिताननः।
दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत ।।
कच्चित्तु नापराधं ते कृतवानस्मि नैषध।
अज्ञातवासे वसतो मद्गृहेवसुधाधिप ।।
यदि वाऽबुद्धिपूर्वाणि यदि बुद्ध्याऽपि कानिचित्।
मया कृतान्यकार्याणि तानि त्वं क्षन्तुमर्हसि ।।
नल उवाच।
न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव।
कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव ।।
पूर्वं ह्यापि सखा मेऽसि संबन्धी च जनाधिप।
अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि ।।
सर्वकामैः सुविहितैः सुखमस्म्युषितस्त्वयि।
न तथा स्वगृहेराजन्यथा तव गृहे सदा ।।
इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति।
तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव ।।
एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः।
स च तां प्रतिजग्राह विधिदृष्टेन क्रमणा ।।
गृहीत्वा चाश्वहृदयं प्रीतो भागस्वरिर्नृप।
निषधाधिपतेश्चापि दत्ताऽक्षहृदयं नृपः।
सूतमन्यमुपादाय ययौ स्वपुरमेव ह ।।
ऋतुपर्णे गते राजन्नलो राजा विशांपते।
नगरे कुण्डिने कालं नातिदीर्गमिवावसत् ।।
।। इति श्रीमन्महाभारते अरण्यपर्वयणि
नलोपाख्यानपर्वणि पञ्चसप्ततितमोऽध्यायः ।। 75 ।।