आरण्यकपर्व
अध्यायः ७३
बृहदश्व उवाच।
केशिन्यास्तद्वचः श्रुत्वा दमयन्ती विशांपते।
शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत् ।।
गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके।
अब्रुवाणा समीपस्था चरितान्यस्य लक्षय ।।
यदा च किंचित्कुर्यात्स कारणं तत्र भामिनि।
तत्रसंचेष्टमानस्य संलक्षेथा विचेष्टितम् ।।
न चास्य प्रतिबन्धेन देयोऽग्निरपि केशिनि।
याचते न जलं देयं सकृच्चात्वरमाणया।
एतत्सर्वं समीक्ष्यत्वं चरितं मे निवेदय ।।
निमित्तं यत्त्वया दृष्टं बाहुके दैवमानुषम्।
यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम ।।
दमयन्त्यैवमुक्ता सा जगामाथ च केशिनी।
निशाम्याथ हयज्ञस्य लिङ्गानि पुनरागमत् ।।
सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत्।
निमित्तं यत्तया दृष्टं बाहुके दिव्यमानुषम् ।।
केशिन्युवाच।
दृढं शुच्यपदानोसौ न मया मानुषः क्वचित्।
दृष्टपूर्वः श्रुतो वाऽपि दमयन्ति तथाविधः ।।
ह्रस्वमासाद्य तु द्वारं नासौ विनमते क्वचित्।
तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम्।
संकटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम् ।।
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः।
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः।
प्रेषितं तत्रराज्ञा तु मांसं बहु च पाशवम् ।।
तस्य प्रक्षालनार्थाय कुम्भास्तत्रोपकल्पिताः।
ते तेनावेक्षिताः कुम्भाः पूर्णा एवाभवंस्ततः ।।
ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः।
तृणमुष्टिं समादाय सवितुस्तं समादधत् ।।
अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः।
तदद्भुततमं दृष्ट्वा विस्मिताऽमिहागता ।।
अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया।
यदग्निमपि संस्पृश्य नैवासौ दह्यते शुभे ।।
छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम्।
अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम् ।।
यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः।
मृद्यमानानि पाणिभ्यां तेन पुष्पाणि नान्यथा।
भूय एव सुगन्धीनि हृपितानि भवन्ति हि ।।
एतान्यद्भुतकल्पानि दृष्ट्वाऽहं भृशविस्मिता।
चेष्टितानि विशालाक्षि बाहुकस्य समीपतः ।।
बृहदश्व उवाच।
दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम्।
अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् ।।
सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम्।
केशिनीं श्लक्ष्णया वाचा रुदन्ती पुनरब्रवीत् ।।
पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम्।
महानसाच्छ्रितं मांसमानयस्वेह भामिनि ।।
सा दृष्ट्वाबाहुके व्यग्रे तन्मांसमपकृष्य च।
अत्युष्णमेव त्वरिता तत्क्षणात्प्रियकारिणी।
दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन ।।
साऽशिता नलसिद्धस् मांसस्य बहुशः पुरा।
प्राश्य मत्वा नलं सूतं प्राक्रोशद्भृशदुःखिता ।।
वैक्लव्यं परमं गत्वाप्रक्षाल्य च मुखं ततः।
मिथुनं प्रेषयामास केशिन्या सह भारत् ।।
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः।
अभिद्रुत्य तदा राजा परिष्वज्याङ्कमानयत् ।।
बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ।
भृशं दुःखपरीतात्मा सुस्वरं प्ररुरोद ह ।।
नैषधो दर्शयित्वा तु विकारमसकृत्तदा।
उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत् ।।
इदं च मदृशं भद्रे मिथुनं मम पुत्रयोः।
अतो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम् ।।
बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतः।
वयंच देशातिथयो गच्छ भद्रे यथासुखम् ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
नलोपाख्यानपर्वणि त्रिसप्ततितमोऽध्यायः ।। 73 ।।