आरण्यकपर्व

अध्यायः ७०

Aranyaka Parva (Sanskrit) · Adhyaya 70
अक्षर का आकार

बृहदश्व उवाच।

स नदीः पर्वतांश्चैव वनानि च सरांसि च।
अचिरेणातिचक्राम स्वेचरः खे चरन्निव ।।

तथा प्रयाते तु रथे तदा भागस्वरिर्नृपः।
उत्तरीयमधोपश्यद्धष्टं परपुरंजयः ।।

ततः स त्वरमाणस्तु पटे निपतिते तदा।
ग्रहीष्यामीति तं राजा नलमाह महामनाः ।।

निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान्।
वार्ष्णेयो यावदेनं मे पटमानयतामिह ।।

नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव।
योजनं समतिक्रान्तो नाहर्तुं शक्यते पुनः ।।

एवमुक्ते नलेनाथ नातिप्रीतमना नृपः।
आससाद वने राजन्फलवन्तं बिभीतकम् ।।

तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभापत।
ममापि सूत पश्य त्वं संख्याने परमं बलम् ।।

सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन।
नैकत्र परिनिष्ठाऽस्ति ज्ञानस्य पुरुषे क्वचित् ।।

वृक्षेऽस्मिन्यानि पर्णानि फलामेकं च बाहुक।
पतितान्यपि यान्यत्रतत्रैकमधिकं कृतम् ।।

एवपत्राधिकं चात्र फलमेकं च बाहुक।
फलकोट्यपि पत्राणां द्वयोरपि च शाखयोः।
`प्रवक्ष्यामि फलान्यत्र यानि संख्यास्यते भवान् ।।'

प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः।
आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च ।।

ततो रथादवप्लुत्य राजानं बाहुकोऽब्रवीत्।
परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन ।।

प्रत्यक्षमेतत्कर्ताऽस्मि शातयित्वा विभीतकम्।
अथ ते गणिते राजन्द्विजामाम्यपरोक्षताम् ।।

प्रत्यक्षं ते महाराज् गणयिष्ये विभीतकम्।
अहं हि नाभिजानामि भवेदेव नवेति वा ।।

संख्यास्यामि फलान्यस्य पशय्तस्ते जनाधिप।
मुहूर्तमपि वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम् ।।

तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम्।
बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः ।।

प्रतीक्षस्व मुहूर्तं त्वमथवा त्वरते भवान्।
एष याति शिवः पन्था याहि वार्ष्णेयसारथिः ।।

अब्रवीदृतुपर्णस्तं सान्त्वयन्कुरुनन्दन।
त्वभेव यन्ता नान्योस्ति पृथिव्यामपि बाहुक ।।

त्वत्कृतेयातुमिच्छामि विदर्भान्हयकोविद।
शरणं त्वांप्रपन्नोस्मि न विघ्नं कर्तुमर्हसि ।।

कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक।
विदर्भान्यदि यात्वाऽद्य सूर्यं दर्शयितासि मे।

अथाब्रवीद्बाहुकस्तं संख्यायच बिभीतकम्।
ततो विदर्भान्यास्यामि कुरुष्वैवं वचो मम ।।

अकाम इव तं राजा गणयस्वेत्युवाच ह।
एकदेशं च शाखायाः समादिष्टं मयाऽनघ ।।

गणयस्वाश्वतत्वज्ञ ततस्त्वंप्रीतिमावह।
सोऽवतीर्य रथात्तूर्णं शातयामास तं द्रुमम् ।।

ततः स विस्मयाविष्टो राजानमिदमब्रवीत्।
गणयित्वायथोक्तानि तावन्त्येव फलानि तु ।।

अत्युद्भुतमिदं राजन्दृष्टवानस्मि ते बलम्।
श्रोतुमिच्छामि तां विद्यां ययैतज्ज्ञायते नृप ।।

तमुवाच ततो राजा त्वरितो गमने नृप।
विद्ध्यक्षहृदयज्ञं मां संख्याने च विशारदम् ।।

बाहुकस्तमुवाचाथ देहि विद्याद्वयं च मे।
मत्तोऽपि चाश्वहृदयं गृहाण पुरुपर्पभ ।।

ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात्।
हयज्ञानस्य लोभाच् तं तथेत्यब्रवीद्वचः ।।

यथोक्तं त्वं गृहाणेदमक्षाणां हृदयं परम्।
निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक।
एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै ।।

तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः।
कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन्।
कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः ।।

सातेन कर्शितो राजादीर्घकालमनात्मवान् ।।

`तं भ्राम्तरूपं निःशोभं संक्लिष्टमकरोत्कलिः'।
ततो विषविमुक्तात्मा स्वंरूपमकरोत्कलिः।
तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः ।।

ततो विषविमुक्तात्मा स्वंरूपमकरोत्कलिः।
तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः ।।

तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः।
कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम् ।।

इन्द्रसेनस्य जननी कुपिता माऽशपत्पुरा।
यदा त्वया परित्यक्ता ततोऽहं भृशपीडितः ।।

अवसं त्वयि राजेन्द्र सुदुःखभपराजित।
विषेण नागराजस्य दह्यमानो दिवानिशम् ।।

शरणं त्वां प्रपन्नोस्मि शृणु चेदं वचो मम।
ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः।
मत्प्रत्सूतं भयं तेषां न कदाचिद्भविष्यति ।।

`न तेषां मानसं किंचिच्छारीरं वाचिकं तथा।
भविष्यति महाराज कीर्तयिष्यन्ति ये नलम्'।
भयार्तं शरणं यातं यदि मां त्वं न शप्स्यसे ।।

एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः।
ततो बीतः कलिः क्षिप्रं प्रविवेश विभीतकम्।
कलिस्त्वन्येन नो दृष्टः कथयन्नैषधेन वै ।।

ततो गतत्वरो राजा नैषधः परवीरहा।
संप्रनष्टे कलौ राजा संख्यायास्य फलान्युत ।।

मुदा परमया युक्तस्तेजसाऽथ परेण वै।
रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः ।।

बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात्।
`ततः प्रभृतिराजेन्द्र लोकेऽस्मिन्पाण्डुनन्दन'।।

हयोत्तभानुत्पततो द्विजानिव पुनः पुनः।
नलः संचोदयामास प्रहृष्टेनान्तरात्मना ।।

विदर्भाभिमुखो राजा प्रययौ स महायशाः।
नले तु समतिक्रान्ते कलिरप्यगमद्गृहम् ।।

ततो गतज्वरो राजा नलोऽभूत्पृथिवीपतिः।
विमुक्तः कलिना राजन्रूपमात्रवियोजितः ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
नलोपाख्यानपर्वणि सप्ततितमोऽध्यायः ।। 70 ।।