आरण्यकपर्व
अध्यायः ६२
बृहृदश्व उवाच।
सा तच्छ्रुत्वाऽनवद्याङ्गी सार्थवाहवचस्तदा।
जगाम सह तेनैव सार्थेन पतिलालसा ।।
अथ काले बहुतिथे वने महति दारुणे।
तटाकं सर्वतोभद्रं पद्मसौगन्धिकायुतम् ।।
ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम्।
बहुमूलफलोपेतं नानापक्षिनिषेवितम् ।।
तं दृष्ट्वा मृष्टसलिलं मनोहारि सुशीतलम्।
सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः ।।
संमते सार्थवाहस्य विविशुर्वनमुत्तमम्।
उवास सार्थः सुमहान्निशामासाद्य पद्मिनीम् ।।
अथार्धरात्रसमये निःशब्दे तिमिरे तदा।
सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत्।
पानीयार्थं गिरितटान्मदप्रस्रवणाविलम् ।।
[अथापश्यत सार्थं तं सार्थजान्सुबहून्गजान् ।।
ते तान्ग्राम्यगजान्दृष्ट्वा सर्वे वनगजास्तदा।
समाद्रवन्त वेगेन जिघांसन्तो मदोत्कटाः ।।
तेषामापततां वेगः करिणां दुःसहोऽभवत्।
नगाग्रादिव शीर्णानां शृङ्गाणां पततां क्षितौ।
स्पन्दतामपि नागानां मार्गा नष्टा वनोद्भवाः ।।]
मार्गं संरुद्ध्य संसुप्तं पद्मिन्याः सार्थमुत्तमम्।
ते तं ममर्दुः सहसा वेष्टमानं महीतले ।।
महारवं प्रमुञ्चतो वद्ध्यन्ते शरणार्थिनः।
वनगुल्मांश्च धावन्तो निद्रया महतो भयात् ।।
केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता गजैः ।।
निहतोष्ट्राश्वबहुलाः पदातिजसंकुलाः।
भयादाधावमानाश् परस्परहतास्तदा ।।
घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले।
वृक्षेष्वासज्यसंभग्नाः पतिता विषमेषु च ।।
एवंप्रकारैर्बहुभिर्दैवेनाक्रम्य हस्तिभिः।
राजन्विनिहतं सर्वं समृद्धं सार्थमण्डलम् ।।
आरावः सुमहांश्चासीत्रैलोक्यभयकारकः।
एषोऽग्निरुत्थितः कष्टस्त्रायध्वं धावताऽधुना ।।
रत्नराशिर्विशीर्णोऽयं गृह्णीध्वं किं प्रधावत।
सामान्यमेतद्द्रविणं न मिथ्या वचनं मम ।।
पुनरेवाभिधास्यामि चिन्तयध्वं सुकातराः।
एवमेवाभिभाषन्तो विद्रवन्ति भयात्तदा ।।
तस्मिंस्तथा वर्तमाने दारुणे जनसंक्षये।
दमयन्ती च बुबुधे भयसंत्रस्तमानसा।
अपश्यद्वैशसं तत्र सर्वलोकभयंकरम् ।।
अदृष्टपूर्वं तद्दृष्ट्वा बाला पद्मनिभेक्षणा।
संसक्तवदनाश्वासा उत्तस्थौ भयविह्वला ।।
ये तु तत्र विनिर्मुक्ताः सार्थात्केचिदविक्षताः।
तेऽब्रुवन्सहिताः सर्वे कस्येदं कर्मणः फलम् ।।
नूनं न पूजितोऽस्माभिर्मणिभद्रो महायशाः।
तथा यक्षाधिपः श्रीमान्न वै वैश्रवणः प्रभुः ।।
न पूजा विघ्रकर्तॄणामथवा प्रथमं कृता ।।
शकुनानां फलं वाऽथ विपरीतिमिदं ध्रुवम्।
ग्रहा न विपरीतास्तु किमन्यदिदमागतम् ।।
अपरे त्वब्रुवन्दीना ज्ञातिद्रव्यविनाकृता।
याऽसावद्य महासार्थे नारी ह्युन्मत्तदर्शना ।।
प्रविष्टा विकृताकारा कृत्वा रूपममानुषम्।
तयैवं विहिता पूर्वं माया परमदारुणा ।।
राक्षसी वा ध्रुवं यक्षी पिशाची वा भयंकरी।
तस्याः सर्वमिदं पापं नात्र कार्या विचारणा ।।
यदि पश्याम तां पापां सार्थघ्नीं नैकदुःखदाम्।
लोष्टभिः पांसुभिश्चैव तृणैः काष्ठैश्च मुष्टिभिः।
अवश्यमेव हन्यामः सार्थस्य किल कृत्यकाम् ।।
दमयन्ती तु तच्छ्रुत्वा वाक्यं तेषां सुदारुणम्।
ह्रीता भीता च संविग्रा प्राद्रवद्यत्र काननम् ।।
आशङ्कमाना तत्पापमात्मानं पर्यदेवयत् ।।
अहो ममोपरि विधेः संरम्भो दारुणो महान्।
नानुबध्नाति कुशलं कस्येदं कर्मणः फलम् ।।
न स्मराम्यशुभं किंचित्कृतं कस्यचिदण्वपि।
कर्मणा मनसा वाचा कस्येदं कर्मणः फलम् ।।
नूनं जन्मान्तरकृतं पापां माऽऽपतितं महत्।
अपश्चिमामिमां कष्टामापदं प्राप्तवत्यहम् ।।
भर्तृराज्यापहरणं स्वजनाच्च रपराजयः।
भर्त्रा सह वियोगश्च तनयाभ्यां च विच्युतिः।
निर्नाथता वने वासो बहुव्यालनिषेविते ।।
अथापरेद्युः संप्राप्ते हतशिष्टा जनास्तदा।
वनगुल्माद्विनिष्क्रम्य शोचन्ते वैशसं कृतम्।
भ्रातरं पितरं पुत्रं सखायं च नराधिप ।।
`हन्यमाने तदा सार्थे दमयन्ती शुचिस्मिता।
ब्राह्मणैः सहिता तत्रवने तु न विनाशिता ।।'
अशोचत्तत्र वैदर्भी किंनु मे दुष्कतं कृतम्।
योपि मे निर्जनेऽरण्ये संप्राप्तोऽयं जनार्णवः ।।
स हतो हस्तियूथेन मन्दभाग्यान्ममैव तत्।
प्राप्तव्यं सुचिरं दुःखं नूनमद्यापि वै मया ।।
नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम्।
या नाहमद्य मृदिता हस्तियूथेन दुःखिता ।।
न ह्यदैवकृतंकिंचिन्नराणामिह विद्यते।
न च मे बालभावेऽपि किंचित्पापकृतं कृतम् ।।
कर्मणा मनसा वाचा यदिदं दुःखमागतम्।
मन्ये स्वयंवरकृतेलोकपाला समागताः ।।
प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः।
नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम् ।।
एवमादीनि दुःखार्ता सा विलप्य वराङ्गना।
प्रलापानि तदा तानि दमयन्ती पतिव्रता ।।
हतशेषैः सह तदा ब्राह्मणैर्वेदपारगैः।
अगच्छद्राजशार्दूल दुःखशोकपरायणा ।।
गच्छन्ती सा चिराद्बाला पुरमासादयन्महत्।
सायाह्नि चेदिराजस् सुबाहोः सत्यवादिनः ।।
`सा तु तच्चारुसर्वाङ्गी सुबाहोस्तुङ्गगोपुरम्।'
वस्त्रार्धेन च संवीता प्रविवेश पुरोत्तमम् ।।
तां विह्वलां कृशां दीनां मुक्तकेशीममार्जिताम्।
उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः ।।
प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा।
अनुजग्मुस्तत्र बाला ग्रामिपुत्राः कुतूहलात् ।।
सा तैः परिवृताऽगच्छत्समीपं राजवेश्मनः।
तां प्रासादगताऽपश्यद्राजमाता जनैर्वृताम् ।।
धात्रीमुवाच च्छैनामानयेह ममान्तिकम्।
जनेन क्लिश्यते बाला दुःखिता शरणार्थिनी ।।
तादृग्रूपं च पश्यामि विद्योतयति मे गृहम्।
उन्मत्तवेषा कल्याणी श्रीरिवायतलोचना ।।
सा जनं वारयित्वा तं प्रासादतलमुत्तमम्।
आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत ।।
एवमप्यसुखाविष्टा बिभर्षि परमं वपुः।
भासि विद्युदिवाभ्रेषु शंस मे काऽसिकस्य वा ।।
न हि ते मानुषं रूपं भूषणैरपि वर्जितम्।
असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे ।।
तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत्।
मानुषीं मां विजानीहि भर्तारं समनुव्रताम् ।।
सैरन्ध्रीं जातिसंपन्नां भुजिष्यां कामवासिनीम्।
फलमूलाशनामेकां यत्रसायंप्रतिश्रयाम् ।।
असङ्ख्येयगुणो भर्ता मां च नित्यमनुव्रतः।
भक्ताऽहमपि तं वीरं छायेवानुगता पथि ।।
तस्य दैवात्प्रसङ्गोऽभूदतिमात्रं सुदेवने।
द्यूते स निर्जितश्चैव वनमेक उपेयिवान् ।।
तमेकवसनच्छन्नमुन्म्तमिव विह्वलम्।
आश्वासयन्ती भर्तारमहमप्यगमं वनम् ।।
स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे।
क्षुत्परीतस्तु विमना वासश्चैकं व्यसर्जयत् ।।
तमेकवसना नग्नमुन्मत्तवदचेतसम्।
अनुव्रजन्ती बहुला न स्वपामि निशाः सदा ।।
ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित्।
वाससोऽर्धं परिच्छिद्य त्यक्तवान्मामनागसम् ।।
तं मार्गमाणा भर्तारं दह्यमाना दिवानिशम्।
न विन्दाम्यमरप्रख्यं प्रियं प्राणेश्वरं प्रभुम् ।।
`इत्युक्त्वा साऽनवद्याङ्गी राजमातरमप्युत।
स्थिताऽश्रुपरिपूर्णाक्षी वेपमाना सुदुःखिता' ।।
तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु।
राजमाताऽब्रवीदार्ता भैमीमार्तस्वरां स्वयम् ।।
वस त्वमिह कल्याणि प्रीतिर्मे परमा त्वयि।
मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम ।।
अपि वा स्वयमागच्छेत्परिधावन्नितस्ततः।
इहैव वसती भद्रे भर्तारमुपलप्स्यसे ।।
राजमातुर्वचः श्रुत्वा दमयन्ती वचोऽब्रवीत्।
समयेनोत्सहे वस्तुं त्वि वीरप्रजायिनि ।।
उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम्।
न चाहं पुरुषानन्यान्प्रभाषेयं कथंचन ।।
प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत्।
वध्यश्च ते सकृन्मन्द इतिमे व्रतमाहितम् ।।
भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम्।
यद्येवमिह वत्स्यामि त्वत्सकाशे न संशयः।
अतोऽन्यथा न मे वासो वर्तते हृदये क्वचित् ।।
इत्युक्ता दमयन्त्या तु राजमातेदमब्रवीत्।
सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम् ।।
एवमुक्त्वा ततो भैमीं राजमाता विशांपते।
उवाचेदं दुहितरं सुनन्दां नाम भारत ।।
सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम्।
वयसा तुल्यतां प्राप्ता सखी तव भवत्वियम्।
एतया सह मोदस्व निरुद्विग्रमना सदा ।।
ततः परमसंहृष्टा सुनन्दा गृहणागमत्।
दमयन्तीमुपादाय सखीभिः परिवारिता ।।
सहसा न्यवसद्राजन्राजपुत्र्या सुनन्दया।
चिन्तयन्ती नलं वीरमनिशं वामलोचना ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
नलोपाख्यानपर्वणि द्विषष्टितमोऽध्यायः ।। 62 ।।