आरण्यकपर्व
अध्यायः ६०
बृहदश्व उवाच।
अपक्रान्ते नले राजन्दमयन्ती गतक्लमा।
अबुध्यत वरारोहा संत्रस्ता विजने वने ।।
अपश्यमाना भर्तारं शोकदुःखसमन्विता।
प्राक्रोशदुच्चैः संत्रस्ता महाराजेति नैषधम् ।।
हा नाथ हा महाराज हा स्वामिन्किं जहासि माम्।
हा हताऽस्मि विनष्टाऽस्मि भीताऽस्मि विजने वने ।।
ननु नाम महारज धर्मज्ञः सत्यवागसि।
कथंविधस्त्वंहि तथा सुप्तामुत्सृज्य मां गतः ।।
कथमुत्सृज्यगन्ताऽसि वश्यां भार्यामनुव्रताम्।
विशेषतो नापकृतः परेणापकृतो ह्यसि ।।
शक्यसे न गिरः सत्याः कर्तुं मयि नरेश्वर।
यास्त्वया लोकपालानां सन्निधौ कथिताः पुरा ।।
नाकाले विहितो मृत्युर्मर्त्यानां पुरुषर्षभ।
यत्र कान्ता त्वयोत्सृष्टा मुहूर्तमपि जीवति ।।
पर्याप्तः परिहासोऽयमेतावान्पुरुषर्षभ।
भृशं भीतास्मि दुर्धर्ष दर्शयात्मानमीश्वर ।।
दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध।
आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे ।।
नृशंसां वत राजेन्द्र यन्मामेवंगतामिह।
विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव ।।
न शोचाम्यहमात्मानं न चान्यदपि किंचन।
कथं नु भवितास्येक इति त्वां नृप शोचये ।।
कथं नु राजंस्तृषितः क्षुक्षितः श्रमकर्शितः।
सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि ।।
ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना।
इतश्चेतश्च रुदती पर्यधावत दुःखिता ।।
मुहुरुत्पतते बाला मुहुः पतति विह्वला।
मुहुरालीयते भीता मुहुः क्रोशति रोदिति ।।
अतीव शोकसंतप्ता मुहुर्निःश्वस् विह्वला।
उवाच भैमी निःश्वस् रोदमाना पतिव्रता ।।
यस्याभिशापाद्दुःखार्तो नैष नन्दति नैषधः।
तस्य भूतस्य तद्दुःखाद्दुःखमभ्यधिकं भवेत् ।।
अपापचेतसं पापो य एवं कृतवान्नलम्।
तस्माद्दुःखतरं प्राप्य जीवत्वमसुखजीविकाम् ।।
एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः।
अन्वेषति स्म भर्तारं वने श्वापदसेविते ।।
उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः।
हाहा राजन्निति मुहुरितश्चेतश्च धावति ।।
तां शुष्यमाणामत्यर्थं कुररीमिव वाशतीम्।
करुणं बहुशोचन्तीं विलपन्तीं सुमध्यमाम्।
सहसाऽभ्यागतां भैमीमभ्याशपरिवर्तिनीम्।
जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः ।।
सा ग्रस्यमाना ग्रहेण शोकेन च पराजिता।
नात्मानं शोचति तथा यथा शोचति नैषधम् ।।
द्वा नाथ मामिह वने ग्रस्यमानामनागसम्।
ग्राहेणानेन विजने किमर्थं नानुधावसि ।।
कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध।
[कथं भवाञ्जगामाद्य मामुत्सृज्य वने प्रभो।]
पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चोतो धनानि च ।।
श्रान्तस्य ते क्षुधार्तस् परिग्लानस्य नैषध।
कः श्रमं राजशार्दूल नाशयिष्यति तेऽनघ ।।
बृहदश्च उवाच।
तां तु दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम्।
आक्रन्दमानां संश्रुत्य जवेनाभिससार ह ।।
तां तु दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम्।
त्वरमाणो मृगव्याधः संचरन्गहने वने।
समभिक्रम्य वेगेन सत्वरः स वनेचरः ।।
मुखे तं पाटयामास शस्त्रेण निशितेन च।
निर्विचेष्टं भुजङ्गं तं विशस् मृगजीवनः ।।
मोक्षयित्वा स तांव्याधः प्रक्षाल्य सलिलेन ह।
समाश्वास्य कृताहारामथ पप्रच्छ भारत ।।
कस्य त्वं मृगशावाक्षि कथं चास्यागता वनम्।
कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि ।।
दमयन्ती तथा तेन पृच्छ्यमाना विशांपते।
सर्वमेतद्यथावृत्तमाचचक्षेऽस्य भारत ।।
तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम्।
सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम् ।।
अरालपक्ष्मनयनां तथा मधुरभाषिणीम्।
लक्षयित्वा मृगव्याधः कामस्य वशमीयिवान् ।।
तामथ श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया।
सान्त्वयामास कामार्तस्तदबुध्यत भामिनी ।।
दमयन्त्यपि तं दुष्टमुपलभ्य पतिव्रता।
तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना ।।
स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः।
दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव ।।
दमयन्ती तु दुःखार्था पतिराज्यविनाकृता।
अतीतवाक्यथे काले शशापैनं रुषा किल ।।
यथाऽहं नैषधादन्यं मनसाऽपि न चिन्तये।
तथाऽयं पततां क्षुद्रः परासुर्मृगजीवनः ।।
उक्तमात्रे तु वचने तया स मृगजीवनः।
व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
नलोपाख्यानपर्वणि षष्टितमोऽध्यायः ।। 60 ।।