आरण्यकपर्व
अध्यायः ६
वैशंपायन उवाच।
गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति।
धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत दुर्मनाः ।।
[विदुरस्य प्रभावं च सन्धिविग्रहकारितम्।
विवृद्धिं च परां मत्वा पाण्डवानां भविष्यति ।।]
स सभाद्वारमागम्य विदुरस्मारमोहितः।
समक्षं पार्थिवेनद्राणां विसंज्ञः प्रापतद्भुवि ।।
स तु लब्ध्वा चिरात्संज्ञां समुत्थाय महीतलात्।
समीपोपस्थितं राजा संजयं वाक्यमब्रवीत् ।।
भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः।
तस्य स्मृत्याऽद्य सुभृशं हृदयं दीर्यतीवमे ।।
तमानय स्वधर्मज्ञं मम भ्रातरमाशु वै।
इति ब्रुवन्स नृपतिः कृपणं पर्यदेवयत् ।।
पश्चात्तापाभिसंतप्तो विदुरस्मारमोहितः।
भ्रातृश्नेहादिदं राजा संजयं वाक्यमब्रवीत् ।।
गच्छ संजय जानीहि भ्रातरं विदुरं मम।
यदि जीवति रोषेण मया पापेन निर्धुतः ।।
न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किंचन।
व्यलीकं कृतपूर्वं वै प्राज्ञेनामितबुद्धिना ।।
स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान्।
न जह्माज्जीवितं प्राज्ञ तं गच्छानय संजय ।।
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च।
संजयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं प्रति
सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः।
रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम् ।।
विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः।
भ्रातृभिश्चाभिसंगुप्तं देवैरिव पुरंदरम् ।।
युधिष्ठिरमुपागम्य पूजयामास संजयः।
भीमार्जुनयमाश्चापि तद्युक्तं प्रतिपेदिरे ।।
राज्ञा पृष्टः स कुशलं सुखासीनश्च संजयः।
शशंसागमने हेतुमिदं चैवाब्रवीद्वचः ।।
संजय उवाच।
राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः।
तं पश्य गत्वा त्वं क्षिप्रं संजीवय च पार्थिवम् ।।
सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान्।
नियोगाद्राजसिंहस्य गन्तुमर्हसि सत्तम् ।।
एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः।
युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम् ।।
तमब्रवीन्महातेजा धृतराष्ट्रोऽम्बिकासुतः।
दिष्ट्या प्राप्तोसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ ।।
अद्य चाहं दिवारात्रौ त्वत्कृते भरतर्षभ।
प्रजागरे प्रपश्यामि विचित्रं देहमात्मनः ।।
वैशंपायन उवाच।
सोङ्कमानीय विदुरं मूर्धन्याघ्राय चैव ह।
क्षम्यतामिति चोवाचयदुक्तोसि मयाऽनघ ।।
विदुर उवाच।
क्षान्तमेव मया राजन्गुरुर्मे परमो भवान्।
तथाऽहमागतः शीघ्रं त्वद्दर्शनपरायणः ।।
भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतनाः।
दीनानुकम्पिनो राजन्नात्र कार्या विचारणा ।।
पाण्डोः पुत्रा यादृशास्ते तादृशा मे सुतास्तव।
दीना इतीव मे बुद्धिरभिपन्नाऽद्य तान्प्रति ।।
वैशंपायन उवाच।
अन्योन्यमनुनीयैवं भ्रातरौ द्वौ महाद्युती।
विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम् ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
किर्मीरवधपर्वणि षष्ठोऽध्यायः ।। 6 ।।