आरण्यकपर्व
अध्यायः ५५
बृहदश्व उवाच।
वृते तु नैषधे भैम्या लोकपाला महौजसः।
यान्तो ददृशुरायान्तं द्वापरं कलिना सह ।।
अथाब्रवीत्कलिं शक्रः संप्रेक्ष्य बलवृत्रहा।
द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि ।।
ततोऽब्रवीत्कलिः शक्रं दमयन्त्याः स्वयंवरम्।
गत्वा हि वरयिष्ये तां मनो हि मम तां गतम् ।।
तमब्रवीत्प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः।
वृतस्तया नलो राजा पतिरस्मत्समीपतः ।।
एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः।
देवानामन्त्र्य तान्सर्वानुवाचेदं वचस्तदा ।।
देवानां मानुषं मध्ये यत्सा पतिमविन्दत।
ननु तस्या भवेन्न्याय्यं विपुलं दण्डधारणम् ।।
एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः।
अस्माभिः सभनुज्ञाते दमयन्त्या नलो वृतः ।।
का हि सर्वगुणोपेतं नाश्रयेत नलं नृपम्।
यो वेद धर्मानखिलान्यथावच्चरितव्रतः ।।
योऽधीते चतुरो वेदान्सर्वानाख्यानपञ्चमान्।
अहिंसानिरतो यश्च सत्यवादी दृढव्रतः ।।
यस्मिन्दाक्ष्यं धृतिर्ज्ञानं तपः शौचं दमः शमः।
ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे ।।
एवंरूपं नलं यो वै कामयेच्छपितुं कले।
आत्मानं स शपेन्मूढो हन्यादात्मानमात्मना ।।
एवंगुणं नलं यो वै कामयेच्छपितुं कले।
कृच्छ्रे स नरके मञ्जेदगाधे विपुले ह्रदे ।।
एवमुक्त्वा कलिं देवा द्वापरं च दिवं ययुः।
ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत् ।।
संयन्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर।
भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते ।।
त्वमप्यक्षान्समाविश्य साहाय्यं कर्तुमर्हसि।
`मम प्रियकृते ह्यस्मन्कृतवांश्च भविष्यसि' ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
नलोपाख्यानपर्वणि पञ्चपञ्चाशोऽध्यायः ।। 55 ।।