आरण्यकपर्व

अध्यायः ४९

Aranyaka Parva (Sanskrit) · Adhyaya 49
अक्षर का आकार

जनमेजय उवाच।

अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि।
युधिष्ठिरप्रभृतयः किमकुर्वत पाण्डवाः ।।

वैशंपायन उवाच।

अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि।
न्यवसन्कृष्णया सार्धं काम्यके भरतर्षभाः ।।

ततः कदाचिदेकान्ते विविक्ते मृदुशाद्वले।
दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया ।।

धनंजयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः।
तद्वियोगार्दितान्सर्वाञ्शोकः समभिपुप्लुवे ।।

धनंजयवियोगाच्च राज्यभ्रंशाच्च दुःखिताः।
अथ भीमो महाबाहुर्युधिष्ठिरमभाषत ।।

निदेशात्ते महाराज गतोऽसौ भरतर्षभः।
अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः ।।

यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम्।
सात्यकिर्वासुदेवश्च विनश्येयुर्न संशयाः ।।

योसौ गच्छति धर्मात्मा बहून्क्लेशान्विचिन्तयन्।
भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम् ।।

यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः।
मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् ।।

यस्य प्रभावाद्धि वयं सभामध्ये धनुष्मतः।
`जितान्मन्यामहे सर्वान्धार्तराष्ट्रात्ससौबलान् ।।

यस्य प्रभावान्न मया सभामध्ये महाबलाः'।
नीता लोकममुं सर्वे धार्तराष्ट्राः ससौबलाः ।।

तेवयं बाहुबलिनः क्रोधमुत्थितमात्मनः।
सहामहे भवन्मूलं वासुदेवेन पालिताः ।।

मया हि सह कृष्णेन हत्वा कर्णमुखान्परान्।
स्वबाहुविजितां कृत्स्नां प्रशाधीनां वसुंधराम् ।।

भतो द्यूतदोषेण सर्वेवयमुपप्लुताः।
अहीनपौरुषा राजन्बलिभिर्बलवत्तराः ।।

क्षात्रं धर्मं महाराज त्वमवेक्षितुमर्हसि।
ग हिधर्मो महाराज त्रियस्य वनाश्रयः ।।

राज्यमेव परंधर्मं क्षत्रियस्य विदुर्बुधाः।
स क्षत्रधर्मविद्राजन्माधर्म्यान्नीनशः पथः ।।

प्राग्द्वादश समा राजन्धार्तराष्ट्रान्निहन्महि।
निवर्त्य च वनात्पार्थमानाय्य च जनार्दनम् ।।

व्यूढानीकान्महाराज जवेनैव महाहवे।
धार्तराष्ट्रानमुं लोकं गमयाम विशांपते ।।

सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौबलान्।
दुर्योधनं च कर्णं च यो वाऽन्यः प्रतियोत्स्यते ।।

मया प्रशमिते पश्चात्त्वमेष्यसि वनं पुनः।
एवं कृते न ते दोषो भविष्यति विशांपते ।।

यज्ञैश्च विविधैस्तात कृतंपापमरिंदम।
अवधूय महाराजगच्छेम स्वर्गमुत्तमम् ।।

एवमेतद्भवेद्राजन्यदि राजा न बालिशः।
अस्माकं दीर्घसूत्रः स्याद्भवान्धर्मपरायणः ।।

निकृत्या निकृतिप्रत्रा हन्तव्या इति निश्चयः।
न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते।
तथा भारत धर्मेषु धर्मज्ञैरिह दृश्यते ।।

अहोरात्रं महाराज तुल्यं संवत्सरेण ह।
तथैव वेदवचनं श्रूयते नित्यदा विभो।
संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः ।।

यदि वेदाः प्रमाणं ते दिवसादूर्ध्वमच्युत।
तयोदशादितः कालो ज्ञायतां परिनिष्ठितः ।।

कालो दुर्योधनं हन्तुं सानुबन्धमरिंदम।
एकाग्रां पृथिवीं सर्वां पुरा राजन्करोति सः ।।

द्यूतप्रियेण राजेन्द्र तथा तद्भवता कृतम्।
प्रायेणाज्ञातच्रयायां वयं सर्वेनिपातिताः ।।

न तं देशं प्रपश्यामि यत्र सोऽस्मान्सुदुर्जनः।
न विज्ञास्यति दुष्टात्मा चारैरिति सुयोधनः ।।

अधिगम्य च सर्वान्नो वनवासमिमं ततः।
प्रव्राजयिष्यतिपुनर्निकृत्याऽधमपूरुषः।
यद्यस्मानभिगच्छेत पापः स हि कथंचन ।।

अज्ञातचर्यामुत्तीर्णान्दृष्ट्वा च पुनराह्वयेत्।
द्यूतेन ते महाराज पुनर्युद्धं प्रवर्तते ।।

भवांश्च पुनराहूतो द्यूतेनैवापनेष्यति।
स तथाऽक्षेषु कुशलो निश्चितो गतचेतनः ।।

चरिष्यसि महाराज वनेषु वसतीः पुनः ।।

यद्यस्मान्सुमहाराज कृपणान्कर्तुमर्हसि।
यावज्जीवमवेक्षस्व वेदधर्मांश्च कृत्स्नशः।
निकृत्या निकृतिप्रज्ञो हन्तव्य इति निश्चयः ।।

अनुज्ञातस्त्वया गत्वायावच्छक्ति सुयोधनम्।
यथैव कक्षमुत्सृष्टो दहेदनिलसारथिः।
हनिष्यामि तथा मन्दमनुजानातु मे भवान् ।।

वैशंपायन उवाच।

एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः।
उवाच सान्त्वयन्राजा मूर्न्ध्युपाघ्राय पाण्डवम् ।।

असशयं महाबाहो हनिष्यसि सुयोधनम्।
वर्षात्रयोदशादूर्ध्वं सह गाण्डीवधन्वना ।।

यत्त्वमाभाषसे पार्थ प्राप्तः काल इति प्रभो।
अनृतं नत्सहे वक्तुं न ह्येतन्मयि विद्यते ।।

अन्तरेणापि कौन्तेय निकृतिंपापनिश्चयम्।
हन्ता त्वमसि दुर्धर्ष सानुबन्धं सुयोधनम् ।।

एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे।
आजगाम महाभागो बृहदश्वो महानृषिः ।।

तमभिप्रेक्ष्यधर्मात्मा संप्राप्तं धर्मचारिणम्।
शास्त्रवन्मधुपर्केण पूजयामास धर्मराट् ।।

आश्वस्तं चैनमासीनमुपासनो युधिष्ठिरः।
अभिप्रेक्ष्य महाबाहुः कृपणं बह्वभाषत ।।

अक्षद्यूते च भगवन्धनं राज्यं च मे हृतम्।
आहूय निकृतिप्रज्ञैः कितवैरक्षकोविदैः ।।

अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चयैः।
भार्या च मे सभां नीता प्राणेभ्योपि गरीयसी ।।

पुनर्द्यूतेन मां जित्वा वनवासां सुदारुणम्।
प्राव्राजयन्मंहारण्यमजिनैः परिवारितम् ।।

अहं वने दुर्वसतीर्वसन्परमदुःखितः।
अक्षद्यूताभिषङ्गेण गिरः शृण्वन्सुदारुणाः ।।

आर्तानां सुहृदां वाचो द्यूतप्रभृति शंसताम्।
अहं हृदि श्रिताः स्मृत्वा सर्वरात्रीर्विचिन्तयन् ।।

यस्मिंश्च वयमायत्ताः सदा गाण्डीवधन्वनि।
`स चेन्द्रलोकं गतवानस्त्रहेतोर्महाबलः ।।'

विना महात्मना तेन गतसत्व इवास्महे।
कदा द्रक्ष्यामि बीभत्सुं कृतास्त्रं पुनरागतम् ।।

`इति सर्वे महेष्वासं चिन्तयाना धनंजयम्।
अनेन तु विषण्णोऽहं कारणेन सहानुजः ।।

वनवासान्निवृत्तं मां पुनस्ते पापबुद्धयः।
जानन्तः प्रीयमाणा वै देवने भ्रातृभिः सह।
द्यूतेनैवाह्वयिष्यन्ति बलादक्षेषु तद्विदः ।।

आहूतश्च पुनर्द्यूते नास्मि शक्तो निवर्तितुम्।
पणे च मम नात्यर्थं वसु किंचन विद्यते ।।

एतत्सर्वमनुध्यायंश्चिन्तयानो दिवानिशम्।
न मत्तो दुःखिततरः पुमानस्तीह कश्चन' ।।

नास्ति राजा मया कश्चिदल्पभाग्यतरो भुवि।
भवता दृष्टपूर्वो वा श्रुतपूर्वोपि वा क्वचित्।
न मत्तो दुःखिततरः पुमानस्तीति मे मतिः ।।

`एवं ब्रुवन्तं दुःखार्तमुवाच भगवानृषिः।
शोकं व्यपनुदन्राज्ञो धर्मराजस्य धीमतः ।।

बृहदश्व उवाच।

न विषादे मनः त्वया बुद्धिमतांवर।
आगमिष्यति बीभत्सुरमित्रांश्च विजेष्यते' ।।

यद्ब्रवीषि महाराज न मत्तो विद्ते क्वचित्।
अल्पभाग्यतरः कश्चित्पुमानस्तीति पाण्डव ।।

अत्र ते वर्णयिष्यामि यदि शुश्रूषसेऽनघ।
यस्त्वत्तो दुःखिततरो राजाऽऽसीत्पृथिवीपते ।।

वैशंपायन उवाच।

अथैनमब्रवीद्राजा ब्रवीतु भगवानिति।
इमामवस्थां संप्राप्तं श्रोतुमिच्छामि पार्थिवम् ।।

बृहदश्व उवाच।

शृणु राजन्नवहितः सह भ्रातृभिरच्युत।
यस्त्वत्तो दुःखिततरो राजाऽऽसीत्पृथिवोपते ।।

निषधेषु महीपालो वीरसेन इति श्रुतः।
तस्य पुत्रोऽभवन्नाम्ना नलो धर्मार्तकोविदः ।।

स निकृत्याजतो राजा पुष्करेणेति नः श्रुतम्।
वनवासं सुदुःखार्तो भार्यया न्यवसत्सह ।।

न तस्य दासा न रथो न भ्राता न च भान्धवाः।
वने निवसतो राजन्नश्रूयन्त कदाचन ।।

भवान्हि संवृतो वीरैर्भ्रातृभिर्देवसंमितैः।
ब्रह्मकल्पैर्द्विजाग्र्यैश्च तस्मान्नार्हसि शोचितुम् ।।

युधिष्ठिर उवाच।

विस्तरेणाहमिच्छामि नलस्य सुमहात्मनः।
चरितं वदतांश्रेष्ठ तन्ममाख्यातुमर्हसि ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
नलोपाख्यानपर्वणि एकोनपञ्चाशोऽध्यायः ।। 49 ।।