आरण्यकपर्व
अध्यायः ४७
जनमेजय उवाच।
यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने।
प्रव्राज्यपाण्डवान्वीरान्सर्वमेतन्निर्रथकम् ।।
कथं च राजपुत्रं तमुपेक्षेताल्पचेतसम्।
दुर्योधनं पाण्डुपुत्रान्कोपयानं महारथान् ।।
किमासीत्पाण्डुपुत्राणां वने भोजनमुच्यताम्।
वन्यं वाऽप्यवा कृष्टमेतदाख्यातु नो भवान् ।।
वैंशंपायन उवाच।
वानेयं च मृगांश्चैव शुद्धैर्बाणैर्निपातितान्।
ब्राह्मणानां निवेद्याग्रमभुञ्जता महारथाः ।।
तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने।
अन्वयुर्ब्राह्मणा राजन्साग्नयोऽनग्नयस्तथा ।।
ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम्।
दश मोक्षविदां तद्वद्यान्बिभर्ति युधिष्ठिरः ।।
रुरून्कृष्णमृगांश्चैव मेध्यांश्चान्यान्मनोरमान्।
बाणैरुन्मथ्य विविधैर्ब्राह्मणेभ्यो न्यवेदयत् ।।
न तत्र कश्चिद्दुर्वर्णो व्याधितो वाऽपि दृश्यते।
कृशो वा दुर्बलो वाऽपि दीनो भीतोपि वा पुनाः ।।
पुत्रानिव प्रियान्भ्रातॄन्ज्ञातीनिव सहोदरान्।
पुरोष कौरवश्रेष्ठो धर्मेराजो युधिष्ठिरः।
पतीश्च द्रौपदी सर्वाञ्द्विजातीश्च यशस्विनी।
मातेव भोजयित्वाऽग्रे शिष्टमाहारयत्तदा ।।
प्राचीं राजा दक्षिणां भीमसेनो
यमौ प्रतीचीमथवाऽप्युदीचीम्।
धनुर्धरा मांसहेतोर्मृगाणां
क्षयं चक्रुर्नित्यमेवोपगम्य ।।
तथा तेषां कवसतां काम्यके वै
विहीनानामर्जुनेनोत्सुकानाम्।
पञ्चैव वर्षाणि तथा व्यतीयु-
रथीयतां जपतां जुह्वतां च ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
इन्द्रलोकाभिगमनपर्वणि सप्तचत्वारिंशोऽध्यायः ।। 47 ।।