आरण्यकपर्व
अध्यायः ४१
वैशंपायन उवाच।
तस्य संपश्यतस्त्वेव पिनाकी गोवृषध्वजः।
जगामादर्शनं भानुर्लोकस्येवास्तमीयिवान् ।।
ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा।
मया साक्षान्महादेवो दृष्ट इत्येव भारत ।।
धन्योस्म्यनुगृहीतोस्मि यन्मया त्र्यम्बको हरः।
पिनाकी वरदो रूपी दृष्टः स्पृष्टश्ट पाणिना ।।
कृतार्थं चावगच्छामि परमात्मानमात्मना।
शत्रूंश्च विजितान्सर्वान्निर्वृत्तं च प्रयोजनम् ।।
इत्येवं चिन्तयानस्य पार्थस्यामिततेजसः।
ततो वैडूर्यवर्णाभो भासयन्सर्वतो दिशः।
यादोगणवृतः श्रीमानाजगाम जलेश्वरः ।।
नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैर्मरुद्गणैः।
वरुणो यादसांभर्ता वशी तं देशमागमत् ।।
अथ जाम्बूनदवपुर्विमानेन महार्चिषा।
कुबेरः समनुप्राप्तो यक्षैरनुगतः प्रभुः ।।
विद्योतयन्निवाकाशमद्भुतोपमदर्शनः।
धनानामधिपः श्रीमानर्जुनं द्रष्टुमागतः ।।
तथा लोकान्तकः श्रीमान्यमः साक्षात्प्रतापवान्।
मर्त्यमूर्तिधरैः सार्धं पितृभिर्लोकभावनैः ।।
दण्डपाणिरचिन्त्यात्मा सर्वभूतविनाशकृत्।
वैवस्वतो धर्मराजो विमानेनावभासयन् ।।
त्रील्लोकान्गुह्यकांश्चैव गन्धर्वाश्चैव पन्नगान्।
द्वितीय इव मार्ताण्डो युगान्ते समुपस्थिते ।।
भानुमन्ति विचित्राणि शिखराणि महागिरेः।
समास्थायार्जुनं तत्रददृशुस्तपसान्वितम् ।।
ततो मुहूर्ताद्भगवानैरावतशिरोगतः।
आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः ।।
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि।
शुशुभे नागराजस्थः सितमभ्रमिव स्थितः ।।
संस्तूयमानो गन्धर्वैर्ऋषिभिश्च तपोधनैः।
शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः ।।
अथ मेघस्वनो धीमान्व्याजहार शुभां गिरम्।
यमऋ परमधर्मज्ञो दक्षिणां दिशमास्थितः ।।
अर्जुनार्जुन पश्यास्माँल्लोकपालान्समागतान्।
दृष्टिं ते वितरामोऽद्य भवानर्हति दर्शनम् ।।
पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः।
नियोगाद्ब्रह्मणस्तात मर्त्यतां समुपागतः ।।
त्वया च वसुसंभूतो महावीर्यः पितामहः।
भीष्मः परमधर्मात्मा जेतव्यश्च रणेऽनघ ।।
क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम्।
निवातकवचाश्चैव संसाध्याः कुरुनन्दन ।।
पितुर्ममांशो देवस्य सर्वलोकप्रतापिनः।
कर्णश्व सुमहावीर्यस्त्वया वध्यो धनंजय ।।
अंशाश्च क्षितिसंप्राप्ता देवगन्धर्वरक्षसाम्।
त्वया निपातिता युद्धेस्वकर्मफलनिर्जिताम्।
गतिं प्राप्स्यन्ति कौन्तेय यथास्वमरिकर्शन ।।
अक्षया तव कीर्तिश्च लोके स्थासय्ति फल्गुन।
त्वया साक्षान्महादेवस्तोषितो हि महामृधे ।।
लघ्वी वसुमती चापि कर्तव्या विष्णुना सह ।।
गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम्।
अनेनास्त्रेण सुमहत्त्वं हि कर्म करिष्यसि ।।
वैशंपायन उवाच।
प्रतिजग्राह पार्थोपि विधिवत्कुरुनन्दनः।
समन्त्रं सोपरोधं च समोक्षविनिवर्तनम् ।।
ततो जलधरश्यामो वरुणो यादसांपतिः।
पश्चिमां दिशमास्थाय गिरमुच्चारयन्प्रभुः ।।
पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः।
पश्य मां पृथुताम्राक्ष वरुणोस्मि जलेश्वरः ।।
मया समुद्यतान्पाशान्वारुणाननिवारितान्।
प्रतिगृह्णीष्व कौन्तेय सहरहस्यनिवर्तनान् ।।
एभिस्तदा मया वीर संग्रामे तारकामये।
दैतेयानां सहस्राणि संयतानि महात्मनाम् ।।
तस्मादिमान्महासत्व मत्प्रसादसमुत्थितान्।
गृहाण न हि ते मुच्येदन्तकोप्याततायिनः ।।
अनेन त्वं यदाऽस्त्रेण संग्रामे विचरिष्यसि।
तदा निःक्षत्रिया भूमिर्भविष्यति न संशयः ।।
`ततस्तान्वारुणानस्त्रान्दिव्यानस्त्रविदांवरः।
प्रतिजग्राह विधिवद्वरुणाद्वासविस्तदा ।।'
ततः कैलासनिलयो धनाध्यक्षोऽभ्यभापत।
दत्तेष्वस्त्रेषु दिव्येषु वरुणेन यमेन च ।।
प्रीतोऽहमपि ते प्राज्ञ पाण्डवेय महाहल।
त्वया सह समागम्य अजितेन तथैव च ।।
सव्यसाचिन्महाबाहो पूर्वदेव सनातन।
सहास्माभिर्भवाञ्श्रान्तः पुराकल्पेषु नित्यशः ।।
दर्शनं ते त्विदं दिव्यं प्रदिशामि नरर्षभ।
अमानुषान्महाबाहो दुर्जयानपि जेष्यसि ।।
मत्तश्चैव भवानाशु गृह्णात्वस्त्रमनुत्तमम्।
अनेन त्वमनीकानि धार्तराष्ट्रस्य धक्ष्यसि ।।
मत्तोऽपि त्वं गृहाणास्त्रमन्तर्धानं प्रियं भम।
ओजस्तेजोद्युतिकरं प्रस्वापनमरातिनुत् ।।
महात्मना शंकरेण त्रिपुरं निहतं यादा।
तदैतदस्त्रं निर्मुक्तं येन दग्धा महासुराः ।।
त्वदर्थमुद्यतं चेदं मया सत्यपराक्रम।
त्वमर्हो धारणे चास्य मेरुप्रतिमगौरव।
ततोऽर्जुनो महाबाहुर्विधिवत्कुरुनन्दनः।
कौबेरमधिजग्राह दिव्यमस्त्रं महाबलः ।।
ततोऽब्रवीद्देवराजः पार्थमक्लिष्टकारिणम्।
सान्त्वयञ्श्लक्ष्णयावाचादिव्यदुन्दुभिनिःस्वनः ।।
कुन्तीमातर्महाबाहो त्वमीशानः पुरातनः।
परां सिद्धिमनुप्राप्तः साक्षाद्देवगतिं गतः ।।
देवकार्यं तु सुमहत्त्वया कार्यमरिंदम।
आरोढव्यस्त्वया स्वर्गः सज्जीभव महाद्युते ।।
रथो मातलिसंयुक्त आगतस्त्वत्कृते मम।
तत्र तेऽहंप्रदास्यामि सर्वाण्यस्त्राणि कौरव ।।
तान्दृष्ट्वा लोकपालांस्तु समेतान्गिरिमूर्धनि।
जगाम विस्मयं धीमान्कुन्तीपुत्रो धनंजयः ।।
ततोऽर्जुनो महातेजा लोकपालान्समागतान्।
पूजयामास विधिवद्वाग्भिरद्भिः फलैरपि ।।
ततः प्रतिययुर्देवाः प्रतिपूज्य धनंजयम्।
यथागतेन विबुधाः सर्वे कामं मनोजवाः ।।
ततो ऽर्जुनो मुदं लेभे लब्धास्त्रः पुरुषर्पभः।
कृतार्थमथ चात्मानं स मेने पूर्णमानसम् ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
कैरातपर्वणि एकचत्वारिंशोऽध्यायः ।। 40 ।।