आरण्यकपर्व
अध्यायः ३९
वैशंपायन उवाच।
गतेषु तेषु सर्वेषु तपस्विषु महात्मसु।
पिनाकपाणिर्भगवान्सर्वपापहरो हरः ।।
कैरातं वेषमास्थाय काञ्चनद्रुमसन्निभम्।
विभ्राजमानो वपुषा गिरिर्मेरुरिवापरः ।।
श्रीगद्धनुरुपादाय शरांश्चाशीविषोपमान्।
निष्पपात महार्चिष्मान्दहन्कक्षमिवानलः ।।
देव्या सहोमया श्रीमान्समानव्रतवेषया।
नानावेषधरैर्हृष्टैर्भूतैरनुगतस्तदा ।।
किरातवेषसंछन्नः स्त्रीभिश्चापि सहस्रशः।
अशोभत तदा राजन्स देशोऽतीव भारत ।।
क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा।
नादः प्रस्रवणानां च पक्षिणां चाप्युपारमत् ।।
स सन्निकर्षमागम्य पार्थस्याक्लिष्टकर्मणः।
मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम् ।।
वाराहं रूपमास्थाय तर्जयन्तमिवार्जुनम्।
हन्तुं परमदुष्टात्मा तमुवाचाथ फल्गुनः ।।
गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान्।
सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन् ।।
यन्मां प्रार्थयसे हन्तुमनागसमिहागतम्।
तस्मात्त्वां पूर्वमेवाहं नेष्यामि यमसादनम् ।।
दृष्ट्वा तं प्रहरिष्यन्तं फल्गुनं दृढधन्विनम्।
किरातरूपी सहसा वारयामास शंकरः ।।
मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः।
अनादृत्यैव तद्वाक्यं प्रजहाराथ फल्गुनः ।।
किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः।
प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम् ।।
तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः।
मूकस्य गात्रे विस्तीर्णे शैलपृष्ठनिभे तदा ।।
यथाऽशनैर्विनिष्पेषो वज्रस्येव च पर्वते।
तथा तयोः सन्निपातः शरयोरभवत्तदा ।।
स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव।
ममार राक्षसं रूपं भूयः कृत्वा सुदारुणम् ।।
स ददर्श ततो जिष्णुः पुरुषं काञ्चनप्रभम्।
किरातवेषसंछन्नं स्त्रीसहायममित्रहा ।।
तमब्रवीत्प्रीतमना कौन्तेयः प्रहसन्निव।
को भवानटते शून्ये वने रस्त्रीगणसंवृतः ।।
न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ।
किमर्थं च त्वया विद्धो मृगोऽयं मत्परिग्रहः ।।
मयाऽभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः।
कामात्परिभवाद्वाऽपि न मे जीवन्विमोक्ष्यसे ।।
न ह्येष मृगयाधर्मो यस्त्वयाऽद्य कृतो मयि।
तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रयम् ।।
इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव।
उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनं ।।
न मत्कृते त्वया वीरः भीः कार्या वनमन्तिकात्।
इयं भूमिः सदाऽस्माकमुचिता वसतां वने ।।
त्वया तु दुष्करः कस्मादिह वासः प्ररोचितः।
वयं तु बहुसत्त्वेऽस्मिन्निवसामस्तपोधन ।।
भवांस्तु कृष्णवत्मार्भः सुकुमारः सुखोचितः।
कथं शून्यमिमं देशमेकाकी विचरिष्यति ।।
अर्जुन उवाच।
गाण्डीवमाश्रयं कृत्वा नाराजांश्चाग्निसन्निभान्।
निवसामि महारण्ये द्वितीय इव पावकः ।।
एष चापि मया जन्तुर्मृगरूपं समाश्रितः।
राक्षसो निहतो घोरो हन्तुं मामिह चागतः ।।
किरात उवाच।
मयैष धन्वनिर्मुक्तैस्ताडितः पूर्वमेव हि।
बाणैरभिहतः शेते नीतश्च यमसादनम् ।।
ममैवायं लक्ष्यभूतः पूर्वमेव परिग्रहः।
ममैव च प्रहारेण जीविताद्व्यपरिपितः ।।
दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः।
अभिषक्तोस्मि मन्दात्मन्न मे जीवन्विमोक्ष्यसे ।।
स्थिरो भव विमोक्ष्यामि सायकानशनीनिव।
घटस्व परया शक्त्या मुञ्च त्वमपि सायकान् ।।
तस्य तद्वचनं श्रुत्वा किरातस्यार्जुनस्तदा।
रोषमाहारयामास ताडयामास चेषुभिः ।।
ततो हृष्टेन मनसा प्रतिजग्राह सायकान्।
भूयोभूय इति प्राह मन्दमन्देत्युवाच ह ।।
प्रहरस्व शरानेतान्नाराचान्मर्मभेदिनः।
इत्युक्तो बाणवर्षं स मुमोच सहसाऽर्जुनः ।।
ततस्तौ तत्रसंरब्धौ गर्जमानौ मुहुर्मुहुः।
शरैराशीविषाकारैस्ततक्षाते परस्परम् ।।
ततोऽर्जुनः शरवर्षं किराते समवासृजत्।
तत्प्रसन्नेन मनसा प्रतिजग्राह शंकरः ।।
मुहूर्तं शरवर्षं तु प्रतिगृह्य पिनाकधृक्।
अक्षतेन शरीरेण तस्थौ गिरिवाचलः ।।
स दृष्ट्वा बाणवर्षं तु मघीभूतं धनंजयः।
परमं विस्मयं चक्रे साधुसाध्विति चाब्रवीत् ।।
अहोऽयं सुकुमाराङ्गो हिमवच्छिखराश्रयः।
गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः ।।
कोऽयं देवो भवेत्साक्षाद्रुद्रो यक्षः सुरोऽसुरः।
विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः ।।
न हि मद्वाणजालानामुत्सृष्टानां सहस्रशः।
शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम् ।।
देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः।
अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम् ।।
ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः।
व्यसृजच्छतधा राजन्मयूखानिव भास्करः ।।
तान्प्रसन्नेन मनसा भगवाँल्लोकभावनः।
शूलपाणिः प्रत्यगृह्णाच्छिलावर्षमिवाचलः ।।
क्षणेन क्षीणबाणोऽथ संवृत्तः फल्गुनस्तदा।
वित्रासं च जगामाथ तं दृष्ट्वा शरसंक्षयम् ।।
चिन्तयामास जिष्णुस्तु भगवन्तं हुताशनम्।
पुरस्तादक्षयौ दत्तौ तूणौ येनास्य खाण्डवे ।।
किं नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः।
अयं च पुरुषः कोपि बाणान्ग्रसति सर्वशः ।।
अहमेनं धनुष्कोट्या रशूलाग्रेणेव कुञ्जरम्।
नयामि दण्डधारस्य यमस्य सदनं प्रति ।।
प्रगृह्याथ धनुष्कोट्या ज्यापाशेनावकृष्य च।
मुष्टिभिश्चापि हतवान्वज्रकल्पैर्महाद्युतिः ।।
संप्रायुध्यद्धनुष्कोट्या कौन्तेयः परवीरहा।
तदप्यस्य धनुर्दिव्यं जग्राह गिरिगोचरः ।।
ततोऽर्जुनो ग्रस्तधनुः खङ्गपाणिरतिष्ठत।
युद्धस्यान्तमभीप्सन्वै वेगेनाभिजगाम तम् ।।
तस्य मूर्ध्नि शितं खङ्गमसक्तं पर्वतेष्वपि।
मुमोय भुजवीर्येण विक्रम्य कुरुनन्दनः ।।
तकस्य मूर्धानमासाद्य पफालासिवरो हि सः।
ततो वृक्षैः शिलाभिश्च योधयामास फल्गुनः ।।
तदा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः।
किरातरूपी भगवांस्ततः पार्थो महाबलः ।।
मुष्टिभिर्वज्रसंस्पर्शैर्धूममुत्पादयन्मुखे।
प्रजहार दुराधर्षे किरातसमरूपिणि ।।
ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः।
किरातरूपी भगवानर्दयामास फल्गुनम् ।।
ततश्चटचटाशब्दः सुधोरः समजायत।
पाण्डवस्य च मुष्टीनां किरातस् च युध्यतः ।।
सुमुहूर्तं तयोर्युद्धमभवल्लोमहर्षणम्।
भुजप्रहारसंयुक्तं वृत्रवासवयोरिव ।।
महाराज ततो जिष्णुः किरातमुरसा बली।
पाण्डवं च विचेष्टन्तं किरातोप्यहनद्बलात् ।।
तयोर्भुजविनिष्पेषात्संधर्षेणोरसोस्तथा।
समजायत गात्रेषु पावकोऽङ्गारधूमवान् ।।
तत एनं महादेवः पीड्य गात्रैः सुपीडितम्।
तेजसा व्क्रमद्रोषाच्चेतस्तस्य विमोहयन् ।।
ततोऽभिपीडितैर्गात्रैः पिण्डीकृत इवाबभौ।
फल्गुनो गात्रसंरुद्धो देवदेवेन भारत ।।
निरुच्छ्वासोऽभवच्चैव सन्निरुद्धो महामनाः।
ततः पपात संमूढस्ततः प्रीतोऽभवद्भवः ।।
स मुहूर्तं तथा भूत्वा सचेताः पुनरुत्थितः।
रुधिरेणाप्लुताङ्गस्तु पाण्डवो भृशदुःखितः ।।
शरण्यं शरणं गत्वा भगवन्तं पिनाकिनम्।
मृन्मयं स्ण्डिलं कृत्वामाल्येनापूजयद्भवम् ।।
तच्च माल्यं तदा पार्थः किरातशिरसि स्थितम्।
अपश्यत्पाण्डवश्रेष्ठो हर्षेण प्रकृतिं गतः ।।
पपात पादयोस्तस्य ततः प्रीतोऽभवद्भवः।
[उवाच चैनं वचसा मेघगम्भीरगीर्हसः।
जातविस्मयमालोक्य ततः क्षीणाङ्गसंहतिम् ।।
भव उवाच।
भोभो फल्गुन तुष्टोस्मि कर्मणाऽप्रतिमेन ते।
शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः ।।
समं तेजश्च वीर्यं च ममाद्य तव चानघ।
प्रीतस्तेऽहं महाबाहो पश्य मां भरतर्षभ ।।
ददामि ते विशालाक्ष चक्षुः पूर्वं मुनिर्भवान्।
विजेष्यसि रणे शत्रूनपि सर्वान्दिवौकसः ।।
[प्रीत्या च तेऽहं दास्यामि यदस्त्रमनिवारितम्।
त्वं हि शक्तो मदीयं तदस्त्रं धारयितुं क्षणात् ।।]
वैशंपायन उवाच।
ततो देवं महादेवं गिरिशं शूनपाणिनम्।
ददर्श फल्गुनस्तत्र सह देव्या महाद्युतिम् ।।
स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च।
प्रसादयामास हरं पार्थः परपुरंजयः ।।
अर्जुन उवाच।
कपर्दिन्सर्वभूतेश भगनेत्रनिपातन।
[देवदेव महादेव नीलग्रीव जटाधर ।।
कारणानां च परमं जाने त्वां त्र्यम्बकं विभुम्।
देवानां च गतिं देवं त्वत्प्रसूतमिदं जगत् ।।
अजेयस्त्वं त्रिभिर्लोकैः सदेवासुरमानुषैः।
शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे ।।
दक्षियज्ञविनाशाय हरिरूपाय ते नमः।
ललाटाक्षाय शर्वाय मीढुषे शूलपाणये ।।
पिनाकगोप्त्रे सूर्याय मङ्गल्याय च वेधसे।
प्रसादये त्वां भगवन्सर्वभूतमहेश्वर ।।
गणेशं जगतः शम्भुं लोककारणकारणम्।
प्रधानपुरुषातीतं परं सूक्ष्मतरं हरम् ।।
व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शंकर।
भगवन्दर्शनाकाङ्क्षी प्राप्तोस्मीमं महागिरिम् ।।
दयितं तव देवेश तापसालयमुत्तमम्।
प्रसादये त्वां भगवन्सर्वलोकनमस्कृतम् ।।
कृतो मयाऽयमज्ञानाद्विमर्दो यस्त्वया सह।
शरणं प्रतिपन्नाय तत्क्षमस्वाद्य शंकर ।।
वैशंपायन उवाच।
तमुवाच महातेजाः प्रहसन्वृषभध्वजः।
प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फल्गुनम् ।।
परिष्वज्य च बाहुभ्यां प्रीतात्मा भगवान्हरः।
पुनः पार्थं सान्त्वपूर्वमुवाच वृषभध्वजः ।।
`गङ्गाङ्गितजटः शर्वः पार्थस्यामिततेजसः।
प्रगृह्य रुचिरं बाहुं वृत्तं ताम्रतलाङ्गुलिम् ।।'
।। इति श्रीमन्महाभारते अरण्यपर्वणि
कैरातपर्वणि एकोनचत्वारिंशोऽध्यायः ।। 39 ।।