आरण्यकपर्व

अध्यायः २९२

Aranyaka Parva (Sanskrit) · Adhyaya 292
अक्षर का आकार

मार्कण्डेय उवाच।

स हत्वा रावयणं क्षुद्रं राक्षसेनद्रं सुरद्विषम्।
बभूव हृष्टः ससुहृद्रामः सौमित्रिणा सह ।।

ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः।
आशीर्भिर्जययुक्ताभिरानर्चुस्तं महाभुजम् ।।

रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः।
गन्धर्वाः पुष्पवर्षैश्च वाग्भिश्च त्रिदशालयाः ।।

पूजयित्वा रणे रामं प्रतिजग्मुर्यथागतम्।
तन्महोत्सवसंकाशमासीदाकाशमच्युत ।।

ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः।
विभीषणाय प्रददौ प्रभुः परपुरंजयः ।।

ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम्।
अविन्ध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ ।।

उवाच च महात्मानं काकुत्स्थं दैन्यमास्थितम्।
प्रतीच्छ देवीं सद्वृत्तां महात्मञ्जानकीमिति ।।

एतच्छ्रुत्वा वचस्तस्मादवतीर्य रथोत्तमात्।
बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः ।।

तां दृष्ट्वा चारुसर्वाङ्गीं यानस्थां शोककर्शिताम्।
मलोपचितसर्वाङ्गीं जटिलां कृष्णवाससम् ।।

उवाच रामो वैदेहीं परामर्शविशङ्कितः।
`लक्षयित्वेङ्गितं सर्वं प्रियं तस्यै निवेद्य सः' ।।

गच्छ वैदेहि मुक्ता त्वं यत्कार्यं तनमया कृतम्।
मामासाद्यपतिं भद्रे न त्वं राक्षसवेश्मनि।
जरां व्रजेथा इतिमे निहतोसौ निशाचरः ।।

कथं ह्यस्मद्विधो जातु जानन्धर्मविनिश्चयम्।
परहस्तगतां नारीं मुहूर्तमपि धारयेत् ।।

सुवृत्तामसुवृत्तां वाऽप्यहं त्वामद्य मैथिलि।
नोत्सहे परिभोगाय श्वावलीढं हविर्यथा ।।

ततः सा सहसा बाला तच्छ्रुत्वा दारुणं वचः।
पपात देवी व्यथिता निकृत्ता कदली यथा ।।

योप्यस्या हर्षसंभूतो मुखरागः पुराऽभवत्।
क्षणेन सपुनर्नष्टो निःश्वासादिव दर्पणे ।।

ततस्ते हरयः सर्वे तच्छ्रुत्वा रामभाषितम्।
गतासुकल्पा निश्चेष्टा बभूवुः सहलक्ष्मणाः ।।

ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः।
पद्मयोनिर्जगत्स्रष्टा दर्शयामास राघवम् ।।

शक्रश्चाग्निश्च वायुश्चयमो वरुण एव च।
यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः ।।

राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान्।
विमानेन महार्हेण हंसयुक्तेन भास्वता ।।

ततोऽन्तरिक्षं तत्सर्वंदेवगन्धर्वसंकुलम्।
शुशुभे तारकाचित्रं शरदीव नभस्तलम् ।।

तत उत्थाय वैदेही तेषां मध्ययशस्विनी।
उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम् ।।

राजपुत्र न ते कोपं करोमि विदिताहि मे।
गतिः स्त्रीणां नराणां च शृणु चदं वचो मम ।।

अन्तश्चरतिभूतानां मातरिश्वा सदागतिः।
स मे विमुञ्चतु प्राणान्यदि पापं चराम्यहम् ।।

अग्निरापस्तथाऽऽकाशं पृथिवी वायुरेव च।
विमुञ्चन्तु मम प्राणान्यदि पापं चराम्यहम् ।।

यथाऽहं त्वदृतेवीर नान्यंस्वप्नेऽप्यचिन्तयम्।
तथा मे देव निर्दिष्टस्त्वमेव हि पतिर्भव ।।

ततोऽन्तरिक्षे वागारीत्सुभगा लोकसाक्षिणी।
पुण्यासंहर्षणी तेषां वानराणां महात्मनाम् ।।

वायुरुवाच।

बोभो राघव सत्यं वै वायुरस्मि सदागतिः।
अपापा मैथिली राजन्संगच्छसहभार्यया ।।

अग्निरुवाच।

अहमन्तःशरीरस्थो भूतानां रघुनन्दन।
सुसूक्ष्ममपि काकुत्स्थ मैथिलीनापराध्यति ।।

वरुण उवाच।

रसावै मत्प्रसूता हि भूतदेहेषु राघव।
अहंवै त्वां प्रब्रवीमि मैथिली प्रतिगृह्यताम् ।।

यम उवाच।

`धर्मोऽहमस्मि काकुत्स्थ साक्षी लोकस्य कर्मणाम्।
शुभाशुभानां सीतेयमपापा प्रतिगृह्यताम्' ।।

ब्र्हमोवाच।

पुत्र नैतदिहाश्चर्यं त्वयि राजर्षिधर्मणि।
साधो सद्वृत्त काकुत्स्थ शृणु चेदं वचो मम ।।

शत्रुरेष त्वया वीर देवगनधर्वभोगिनाम्।
यक्षाणां दानवानां च महर्षीणां च पातितः ।।

अवध्यः सर्वभूतानां मत्प्रसादात्पुराऽभवत्।
कस्माच्चित्कारणात्पापः कंचित्कालमुपेक्षितः ।।

वधार्थमात्मनस्तेन हृता सीता दुरात्मना।
नलकूबरशापेन रक्षा चास्याः कृता मया ।।

यदि ह्यकामामासेवेत्स्तरियमन्यामपि ध्रुवम्।
शतधाऽस्य फलेन्मूर्धा इत्युक्तः सोभवत्पुरा ।।

नात्रशङ्का त्वया कार्या प्रतीच्छेमां महामते।
कृतं त्वया महत्कार्यं देवानाममितप्रभ ।।

दशरथ उवाच।

प्रीतोस्मि वत्स भद्रं ते पिता दशरथोस्मि ते।
अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम ।।

राम उवाच।

अभिवादयेत्वां राजेन्द्र यदि त्वं जनको मम।
गमिष्यामि पुरीं रम्यामयोध्यां शासनात्तव ।।

मार्कण्डेय उवाच।

तमुवाच पिता भूयः प्रहृष्टो भरतर्षभ।
गच्छायोध्यां प्रशाधि त्वंराम रक्तान्तलोचन।
संपूर्णानीहवर्षाणि चतुर्दश महाद्युते ।।

ततो देवान्नमस्कृत्य मुहृद्भिरभिनन्दितः।
महेन्द्रइव पौलोम्या भार्यया स समेयिवान् ।।

ततो वरं ददौ तस्मै ह्यविन्ध्याय परंतपः।
त्रिजटां चार्थमानाभ्यां योजयामास राक्षसीम् ।।

तमुवाच ततो ब्रह्मा देवैः शक्रषुरोगमैः।
कौसल्यामातरिष्टांस्ते वरानद्य ददानि कान् ।।

वव्रेरामः स्थितिं धर्मे शत्रुभिश्चापराजयम्।
राक्षसैर्निहतानां च वानराणां समुद्भवम् ।।

ततस्ते ब्रह्मणा प्रोक्ते तथेतिवचने तदा।
समुत्तस्थुर्महाराज वानरा लब्धचेतसः ।।

सीता चापि महाभागा वरं हनुमते ददौ।
रामकीर्त्या समं पुत्र जीवितं ते भविष्यति ।।

दिव्यास्त्वामुपभोगाश्च मत्प्रसादकृताः सदा।
उपस्थास्यन्ति हनुमन्निति स्म हरिलोचन ।।

ततस्ते प्रेक्षमाणानां तेपामक्लिष्टकर्मणाम्।
अन्तर्धानं ययुर्देवाः सर्वे शक्रपुरोगमाः ।।

दृष्ट्वा रामं तु जानक्या संगतं शक्रसारथिः।
उवाच परमप्रीतसुहृन्मध्य इदं वचः ।।

देवगन्धर्वयक्षाणां मानुषासुरभोगिनाम्।
अपनीतं त्वया दुःखमिदं सत्यपराक्रम ।।

सदेवासुरगनधर्वा यक्षराक्षसपन्नगाः।
कथयिष्यन्ति लोकास्त्वां यावद्भूमिर्धरिष्यति ।।

इत्येवमुक्त्वाऽनुज्ञाप्यरामं शस्त्रभृतांवरम्।
संपूज्यापाक्रमत्तेन रथेनादित्यवर्चसा ।।

ततःसीतां पुरस्कृत्य रामः सौमित्रिणा सह।
सुग्रीवप्रमुखैश्चैव सहितः सर्ववानरैः ।।

विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः।
संततार पुनस्तेन सेतुना मकरालयम् ।।

पुष्पकेण विसानन खेचरेण विराजता।
कामगेन यथामुख्यैरमात्यैः संवृतो वसी ।।

ततस्तीरे समुद्रस्यं यत्रशिश्य स पार्थिवः।
तत्रैवोवास धर्मात्मा सहितः सर्ववानरैः ।।

अथैनान्राघवः काले समानीयाभिपूज्य च।
विसर्जयामास तदा रत्नैः संतोष्य सर्वशः ।।

गतेषु वानरेन्द्रेषु गोपुच्छर्क्षेषु तेषु च।
सुग्रीवसहितो रामः किष्किन्दां पुनरागमत् ।।

विभीषणेनानुगतः सुग्रीवसहितस्तदा।
पुष्पकेण विमानेन वैदेह्या दर्शयन्वनम् ।।

किष्किन्धां तु समासाद्यरामः प्रहरतांवरः।
अङ्गदं कृतकर्माणं यौवराज्येऽभ्यषेचयत् ।।

ततस्तैरेव सहितो रामः सौमित्रिणा सह।
यथागतेन मार्गेण प्रययौ स्वपुरं प्रति ।।

अयोध्यां स समासाद्यपुरीं राष्ट्रपतिस्ततः।
भरताय हनूमन्तं दूतं प्रास्थापयद्द्रुतम् ।।

लक्षयित्वेङ्गितं सर्वंप्रियं तस्मै निवेद्य वै।
वायुपुत्रे पुनः प्राप्ते नन्दिग्राममुपाविशत् ।।

सतत्रमलदिग्धाङ्गं भरतं चीरवाससम्।
`नन्दिग्रामगतंरामः सशत्रुघ्नं सराघवः'।
अग्रतःपादुके कृत्वा ददर्शासीनमासने ।।

समेत्यभरतेनाथ शत्रुघ्नेन च वीर्यवान्।
राघवः सहसौमित्रिर्मुमुदे भरतर्षभ ।।

ततो भरतशत्रुघ्नौ समेतौ गुरुणा तदा।
वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः ।।

तस्मै तद्भरतो राज्यमागतायातिसत्कृतम्।
न्यासं निर्यातयामास युक्तः परमया मुदा ।।

ततस्तं वैष्णवे शूरं नक्षत्रेऽभिजितेऽहनि।
वसिष्ठो वामदेवश्च सहितावभ्यषिञ्चताम् ।।

सोभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम्।
विभीषणं च पौलस्त्यमन्वजानाद्गृहान्प्रति ।।

अभ्यर्च्य विविधै रत्नैः प्रीतियुक्तौ मुदा युतौ।
समाधायेतिकर्तव्यं दुःखेन विससर्ज ह ।।

पुष्पकं च विमानं तत्पूजयित्वा स राघवः।
प्रादाद्वैश्रवणायैव प्रीत्या स रघुनन्दनः ।।

ततो देवर्षिसहितः सरितं गोमतीमनु।
शताश्वमेधानाजह्रे जारूथ्यान्स निरर्गलान् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
रामोपाख्यानपर्वणि द्विनवत्यधिकद्विशततमोऽध्यायः ।। 292 ।।