आरण्यकपर्व
अध्यायः २८६
मार्कण्डेय उवाच।
ततो निविशमानांस्तान्सैनिकान्रावणानुगाः।
अभिजग्मुर्गणाऽनके पिशाचक्षुद्ररक्षसाम् ।।
पर्वणः पतनो जम्भः खरः क्रोधवशो हरिः।
प्ररुजश्चारुजश्चैव प्रघसश्चैवमादयः ।।
ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम्।
अन्तर्धानवधं तज्ज्ञश्चकार स विभीषणः ।।
ते दृश्यमाना हरिभिर्बलिभिर्दूरपातिभिः।
निहताः सर्वशो राजन्महीं जग्मुर्गतासवः ।।
अमृष्यमाणः सबलो रावणो निर्ययावथ।
राक्षसानां बलैर्घोरैः पिशाचानांच संवृतः ।।
युद्धशास्त्रविधानज्ञ उशना इव चापरः।
व्यूह्यचौशनसं व्यूहं हरीनभ्यवहारयत् ।।
राघवस्तु विनिर्यान्तं व्यूढानीकं दशाननम्।
बार्हस्पत्यं विधं कृत्वा प्रतिव्यूह्य ह्यदृश्यत ।।
समेत्य युयुधे तत्र ततो रामेण रावणः।
युयुधे लक्ष्मणश्चापि तथैवेन्द्रजिता सह ।।
विरूपाक्षेण सुग्रीवस्तारेण च निस्वर्वटः।
पौण्ड्रेण च नलस्तत्र पदुशः पनसेन च ।।
विषह्यं यं हि यो मेने स स तेन समेयिवान्।
युयुधे युद्धवेलायां स्वबाहुबलमाश्रितः ।।
स संप्रहारो ववृधे भीरूणां भयवर्धनः।
रोमसंहर्षणो घोरः पुरा देवासुरे यथा ।।
रावणो राममानर्च्छच्छक्तिशूलासिवृष्टिभिः।
निशितैरायसैस्तीक्ष्णै रावणं चापि राघवः ।।
तथैवेन्द्रजितं यत्तं लक्ष्मणो मर्मभेदिभिः।
इन्द्रजिच्चापि सौमित्रिं बिभेद बहुभिः शरैः ।।
विभीषणः प्रहस्तं च प्रहस्तश्च विभीषणम्।
खगपत्रैः शरैस्तीक्ष्णैरभ्यवर्षद्गतव्यथः ।।
तेषां बलवतामासीन्महास्त्राणां समागमः।
विव्यथुः सकला येन त्रयो लोकाश्चराचराः ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
रामोपाख्यानपर्वणि षडशीत्यधिकद्विशततमोऽध्यायः ।। 286 ।।