आरण्यकपर्व
अध्यायः २७२
वैशंपायन उवाच।
संतिष्ठध्वं प्रहरत तूर्णं विपरिधावत।
इति स्म सैन्धवो राजा चोदयामास तान्नृपन् ।।
ततो घोरतमः शब्दोरणे समभवत्तदा।
भीमार्जुनयमान्दृष्ट्वा सैन्यानां सयुधिष्ठिरान् ।।
शिबिसिंधुत्रिगर्तानां विषादश्चाप्यजायत।
तान्दृष्ट्वापुरुषव्याघ्रान्व्याघ्रानिव बलोत्कटान् ।।
हेमबिन्दुं महोत्सेधां सर्वशैक्यायसीं गदाम्।
प्रगृह्याभ्यद्रवद्भीमः सैन्धवं कालचोदितम् ।।
तदन्तरमथावृत्य कोटिकाश्योऽभ्यहारयत्।
महता रथवंशेन परिवार्य वृकोधरम् ।।
शक्तितोमरनाराचैर्वीरबाहुप्रचोदितैः।
कीर्यमाणोपि बहुभिर्न स्म भीमोऽभ्यकम्पत ।।
गजं तु सगजारोहं पदातींश्च चतुर्दश।
जघान गदया भीमः सैन्धवध्वजंनीमुखे ।।
पार्थः पञ्चशताञ्शूरान्पार्वतीयान्महारथान्।
परीप्समानः सौवीरं जघान ध्वजिनीमुखे ।।
राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम्।
निमेषमात्रेण शतं जघान समरे तदा ।।
ददृशे नकुलस्तत्ररथात्प्रस्कन्द्य खङ्गधृत्।
शिरांसि पादरक्षाणां बीजवत्प्रवपन्मुहुः ।।
सहदेवस्तु संयाय रथेन गजयोधिनः।
पातयामास नाराचैर्द्रुमेभ्य इव बर्हिणः ।।
ततस्त्रिगर्तः सधनुरवतीर्य महारथात्।
गदया चतुरो वाहान्राज्ञस्तस् तदाऽवधीत् ।।
तमथाभ्यागतं राजा पदातिं कुन्तिनन्दनः।
अर्धचन्द्रेण बाणएन विव्याधोरसि धर्मराट् ।।
स भिन्नहृदयो वीरो वक्राच्छोणितमुद्वमन्।
पपाताभिमुखं प्राप्तश्चिन्नमूल इव द्रुमः ।।
इन्द्रसेनद्वितीयस्तु रथात्प्रस्कन्द्य धर्मराट्।
हताश्वः सहदेवस्य प्रतिपेदे महारथम् ।।
नकुलं त्वभिसंवार्य क्षेमंकरमहामुखौ।
उभावुभतस्तीक्ष्णैः शरवर्षैरवर्षताम् ।।
तौ शरैरभिवर्षन्तौ जीमूताविव वार्षिकौ।
एकैकेन विपाठेन जघ्ने माद्रवतीसुतः ।।
त्रिगर्तराजः सुरथस्तस्याथ गजूर्गतः।
रथमाक्षेपयामास गजेन गजयानवित् ।।
नकुलस्त्वपभीस्तस्माद्रथाच्चर्मासिपाणिमान्।
उद्धाम्य स्तानमास्थाय तस्थौ गिरिवाचलः ।।
सुरथस्तं गजवरं वधाय नकुलस्य तु।
प्रेषयामास सक्रोधमत्युच्छ्रितकरं ततः ।।
नकुलस्तस्य नागस्य समीपपरिवर्तिनः।
सविषाणं भुजं मूले खङ्गेन निरकृन्तत ।।
स विनद्यमहानादं गजः किङ्किणिभूषणः।
पतन्नवाक्शिरा भूमौ हस्त्यारोहमपोथयत् ।।
स तत्कर्म महत्कृत्वा शूरो माद्रवतीसुतः।
भीमसेनरथं प्राप्य शर्म लेभे महारथः ।।
भीमस्त्वापततो राज्ञः कोटिकाश्यस् संगरे।
सूतस्य नुदतो वाहान्क्षुरेणापाहरच्छिरः ।।
न बुबोध हतं सूतं स राजा बाहुशालिना।
तस्याश्वा व्यद्रवन्सङ्ख्ये हतमसूतास्ततस्ततः ।।
विरथं हतसूतं तं भीमः प्रहरतांवरः।
जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः ।।
द्वादशानां तु सर्वेषां सौवीराणां धनंजयः।
चकर्त निशितैर्भल्लैर्धनूंषि च शिरांसि च ।।
शिबीनिक्ष्वाकुमुख्यांश्च त्रिगर्तान्सैन्धवानपि।
जघानातिरथः सङ्ख्ये बाणगोचरमागतान् ।।
सूदिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना।
सपताकाश्च मातङ्गाः सध्वजाश्च महारथाः ।।
प्रच्छाद्य पृथिवीं तस्थुः सर्वमायोधनं प्रति।
शरीराण्यशिरस्कानि विदेहानि शिरांसि च ।।
श्वगृध्रकङ्ककाकोलभासगोमायुवायसाः।
अतृप्यंस्तत्रवीराणां हतानां मासशोणितैः ।।
`एवं तीक्ष्णशरज्वालैर्गाण्डीवानिलचोदितैः।
सेनेन्धनं ददाहाशु सरोषः पार्थपावकः ।।
चक्राणां पतितानां च युगानां च महीपते।
तूणीराणआं पताकानां ध्वजानां च रथैः सह ।।
ईषाणामनुकर्षाणां त्रिवेणूनां तथैव च।
अक्षाणामथ योक्राणां प्रतोदानां च राशयः ।।
शिरसां पतितानां च कुण्डलोष्णीषधारिणाम्।
भुजानां मकुटानां च हाराणामङ्गदैः सह ।।
छत्राणां व्यजनानां च चर्मणआं वर्मणां तथा।
छिन्नानां कार्मुकाणां च पट्टसानां तथैव च ।।
शक्तीनामथ खङ्गानां दण्डानां सह तेमरैः।
राशयश्चात्रदृश्यन्ते तत्रतत्र विशांपते ।।
पतितैश्चैव मातङ्गैः सयोधैः पर्वतोपमैः।
हयैर्द्विधाकृतैः सार्धं सादिभिः सायुधैस्तथा ।।
विप्रविद्धै रथैश्चैव निहतैश्चपदातिभिः।
अगम्यरूपा पृथिवी मांसशोणितकर्दमा' ।।
हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः।
विमुच्य कृष्णां संत्रस्तः पलायनपरोऽभवत् ।।
स तस्मिन्संकुले सैन्ये द्रौपदीमवतार्य ताम्।
प्राणप्रेप्सुरुपाधावद्वनं तत्र नराधमः ।।
द्रौपदीं धर्मराजस्तु दृष्ट्वा धौम्यपुरस्कृताम्।
माद्रीपुत्रेण वीरेण रथमारोपयत्तदा ।।
ततस्तद्विद्रुतं सैन्यमपयाते जयद्रथे।
आदिश्यादिश्य नाराचैराजघान वृकोदरः ।।
सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम्।
वारयामास निघ्नन्तं भीमं सैन्धवसैनिकान् ।।
अर्जुन उवाच।
यस्यापचारात्प्राप्तोऽयमस्मान्क्लेशो दुरासदः।
तमस्मिन्समरोद्देशे न पश्यामि जयद्रथम् ।।
`मूढं नैकृतिकं दुष्टं द्रौपद्याः क्लेशकारिणम्'।
तमेवान्विष भद्रं ते किं ते योधैर्निपातितैः।
अनामिषमिदं कर्म कथं वा मन्यते भवान् ।।
वैशंपायन उवाच।
इत्युक्तो भीमसेनस्तु गुडाकेशेन धीमता।
युधिष्ठिरमभिप्रेत्य वाग्मी वचनमब्रवीत् ।।
हतप्रवीरा रिपवो भूयिष्ठं विद्रुता दिशः।
गृहीत्वा द्रौपदीं राजन्निवर्ततु भवानितः ।।
यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना।
प्राप्याश्रमपदं राजन्द्रौपदीं परिसान्त्वय ।।
न हि मे मोक्ष्यतेजीवन्मूढः सैन्धवको नृपः।
पातालतलसंस्थोपि यदि शक्रोस्य सारथिः ।।
युधिष्ठिर उवाच।
न हन्तव्यो महाबाहो दुरात्माऽपिस सैन्धवः।
दुःशलामभिसंस्मृत्य गान्धारीं च यशस्विनीम् ।।
वैशंपायन उवाच।
तच्छ्रुत्वा द्रौपदी भीममुवाच व्याकुलेन्द्रिया।
कुपिता ह्रीमती प्राज्ञा पती भीमार्जुनावुभौ ।।
कर्तव्यं चेत्प्रियं मह्यं वध्यः स पुरुषाधमः।
सैन्धवापशदः पापो दुर्मतिः कुलपांसनः ।।
भार्याभिहर्ता वैरी यो यश्च राज्यहरो रिपुः।
याचमानोऽपिसंग्रामे न मोक्तव्यः कथंचन ।।
इत्युक्तौ तौ नरव्याघ्रौ ययतुर्यत्र सैन्धवः।
राजा निववृतेकृष्णामादाय सपुरोहितः ।।
स प्रविश्याश्रमपदमपविद्धवृसीकटम्।
मार्कण्डेयादिभिर्विप्रैरनुकीर्णं ददर्श ह ।।
द्रौपदीमनुशोचद्भिर्ब्राह्मणैस्तैः समाहितैः।
समेयाय महाप्राज्ञः सभार्य भ्रातृमध्यगः ।।
ते स्म तं मुदिता दृष्ट्वा पुनरप्यागतं नृपम्।
जित्वा तान्सिनधुसौवीरान्द्रौपदीं चाहृतां पुनः ।।
स तैः परिवृतो राजातत्रैवोपविवेश ह।
प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी ।।
भीमसेनार्जुनौ चापि श्रुत्वा क्रोशगतं रिपुम्।
स्वयमश्वांस्तुदन्तौ तौ जवेनैवाभ्यधावताम् ।।
इदमत्यद्भुतं चात्र चकारातिरथोऽर्जुनः।
क्रोशमात्रगतानश्वान्सैन्धवस्य जघान यत् ।।
स हि दिव्यास्त्रसंपन्नः कृच्छ्रकालेऽप्यसंभ्रमः।
अकरोद्दुष्करं कर्म शरैरस्त्रानुमन्त्रितैः ।।
ततोऽभ्यधावतां वीरावुभौ भीमधनंजयौ।
हताश्वं सैन्धवं भीतमेकं व्याकुलचेतसम् ।।
सैन्धवस्तु हतान्दृष्ट्वा तथाऽश्वान्स्वान्सुदुःखितः।
`रथात्प्रस्कन्द्य पद्भ्यां वै पलायनपरोऽभवत्' ।।
दृष्ट्वा रविक्रमकर्माणि कुर्वाणं च धनंजयम्।
पलायनकृतोत्साहः प्राद्रवद्येन वै वनम् ।।
सैन्धवं त्वमिसंप्रेक्ष्यपराक्रान्तं पलायने।
अनुयाय महाबाहुः फल्गुनो वाक्यमब्रवीत् ।।
अनन वीर्येण कथं स्त्रियं प्रार्थयसे बलात्।
राजपुत्र निवर्तस्व न ते युक्तं पलायनम् ।।
कथं ह्यनुचरान्हित्वा शत्रुमध्ये पलायसे।
इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत ।।
तिष्ठतिष्ठेति तं भीमः सहसाऽभ्यद्रवद्बली।
मा वधीरिति पार्थस्तं दयावान्प्रत्यभाषत ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
द्रौपदीहरणपर्वणि द्विसप्तत्यधिकद्विशततमोऽध्यायः ।। 272 ।।