आरण्यकपर्व
अध्यायः २७०
वैशंपायन उवाच।
ततो दिशः संपरिवृत्य पार्था
मृगान्वराहान्महिपांस्च हन्वा।
धनुर्धराः श्रेष्ठतमाः पृथिव्यां
पृथक्चरन्तः सहिता बभूवुः ।।
ततो मृगव्यालजनानुकीर्णं
महावनं तद्विहगोपघुष्टम्।
भ्रातॄंश्च तानभ्यवदद्युधिष्ठिरः
श्रुत्वा गिरो व्याहरतां मृगाणाम् ।।
आदित्यदीप्तां दिशमभ्युपेत्य
मृगा द्विजाः क्रूरमिमे वदन्ति।
आयासमुग्रं प्रतिवेदयन्तो
महाभयं शत्रुभिर्वाऽवमानम् ।।
क्षिप्रं निवर्तध्वमलं मृगैर्नो
मनो हि मे दूयति दह्यते च।
बुद्धिं समाच्छाद्य च मे समन्यु-
रुद्धूयते प्राणपतिः शरीरे ।।
सरः सुपर्णन हृतोरगेन्द्र-
मराजकं राष्ट्रमिवेह शान्तम्।
एवंविधं मे प्रतिभाति काम्यकं
शौण्डैर्यथा पीतसुरश्च कुम्भः ।।
ते सैन्धवैरग्न्यनिलोग्रवेगै-
र्महाजवैर्वाजिभिरुह्यमानाः।
युक्तैर्बृहद्भिः सुरथैर्नृवीरा-
स्तदाश्रमायाभिमुखा बभूवुः ।।
तेषां तु गोमायुरनल्पघोषो
निवर्ततां वाममुपेत्य पार्श्वम्।
प्रव्याहरत्तत्प्रविमृश्य राजा
प्रोवाच भीमं च धनंजयं च ।।
यथा वदत्येप विहीनयोनिः
सालावृकोवाममुपेत्य पार्स्वम्।
सुव्यक्तमस्मानवमत्य पापैः
कृतोऽभिमर्दः कुरुभिः प्रसह्य ।।
एत्याथ ते तद्वनमाविशन्तो
महत्यरण्ये मृगयां चरित्वा।
बालामपश्यन्त तदा रुदन्तीं
धात्रेयिकां प्रेष्यवधूं प्रियायाः ।।
तामिन्द्रसेनस्त्वरितोऽभिसृत्य
रथादवप्लुत्य ततोऽभ्यधावत्।
प्रोवाच चैनां वचनं नरेन्द्र
धात्रेयिकामार्ततरस्तदानीम् ।।
कच्चित्परैर्नापकृतं वनेऽस्मिन् ।।
पर्याकुला साधु समीक्ष्यसूत-
मभ्यापतन्तं द्रुतमिन्द्रसेनम्।
उरो घ्नती कष्टतरं तदानी-
मुच्चैः प्रचुक्रोश हृतेति देवी ।।
इन्द्रसेन उवाच।
अनिन्द्यरूपा तु विशालनेत्रा
शरीरतुल्या कुरुपुङ्गवानाम्।
`केनात्मनाशाय यदापनीता
छिद्रं समासाद्य नरेन्द्रपत्नी' ।।
यद्येव देवीं पृथिवीं प्रविष्टा
दिवं प्रपन्नाऽप्यथवा समुद्रम्।
तस्या गमिष्यन्ति पदे हि पार्था-
स्तथा हि संतप्यति धर्मराजः ।।
को हीदृशानामरिमर्दनानां
क्लेशक्षमाणामपराजितानाम्।
प्राणैः समामिष्टतमां जिहीर्षे-
दनुत्तमं रत्नमिव प्रमूढः ।।
न बुध्यते नाथवतीमिहाद्य
बहिश्चरं हृदयं पाण्डवानाम्।
कस्याद्य कायं प्रतिभिद्य घोरा
महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः ।।
मा त्वं शुचस्तां प्रति भीरु विद्धि
यथाऽद्य कृष्णा पुनरेष्यतीति।
निहत्य सर्वान्द्विषतः समग्रा-
न्पार्थाः समेष्यनत्यथ याज्ञसेन्या ।।
अथाब्रवीच्चारुमुखं प्रसृज्य
धात्रेयिका सारथिमिन्द्रसेनम्।
जयद्रथेनापहृताप्रमथ्य
पञ्चेन्द्रकल्पान्परिभूय कृष्णा ।।
तिष्ठन्ति वर्त्मानि नवान्यमूनि
वृक्षाश्च न म्लान्ति तथैव भग्नाः।
आवर्तयध्वं ह्यनुयात शीघ्रं
न दूरयातैव हि राजपुत्री ।।
सन्नह्यध्वं सर्व एवेन्द्रकल्पा
महान्ति चारूणि च दंशनानि।
गृह्णीत चापानि महाधनानि
शरांश्च शीघ्रं पदवीं व्रजध्वम् ।।
पुरा हि निर्भर्त्सनदण्डमोहिता
प्रमूढचित्ता वदनेन शुष्यता।
ददाति कस्मैचिदनर्हते तनुं
वराज्यपूर्णामिव भस्मनि स्रुचम् ।।
पुरा तुषाग्नाविव हूयते हविः
पुरा श्मशाने स्रगिवापविद्ध्यते।
पुरा च सोमोऽध्वरगोऽवलिह्यते
शुना यथा विप्रजने प्रमोहिते ।।
`पुरा हि पार्थाश्च दृतौ च कापिली
प्रसिच्छते क्षीरधारा यतध्वम्'।
महत्यरण्ये मृगयां चरित्वा
पुरा सृगालो नलिनीं विगाहते ।।
`पुरा हि मन्त्राहुतिपूजितायां
हुताग्निवेद्यां बलिभुङ्गिलीयते।
श्रुतिं च सम्यक्प्रसृतां महाध्वरे
ग्राम्यो जनो यद्वदसौ न नाशयेत्' ।।
मा वः प्रियायाः सुनसं सुलोचनं
चन्द्रप्रभाच्छं वदनं प्रसन्नम्।
स्पृश्याच्छुभं कश्चिदकृत्यकारी
श्वा वै पुरोडाशमिवाध्वरस्थम् ।।
एतानि वर्त्मान्यनुयात शीघ्रं
मा वः कालः क्षिप्रमिहात्यगाद्वै ।।
`शीघ्रं प्रधावध्वमितो नरेन्द्रा
यावन्न दूरं व्रजतीति पापः।
प्रत्याहरध्वं द्विषतां सकाशा-
ल्लक्ष्मीमिव स्वां दयितां नृसिंहाः' ।।
युधिष्ठिर उवाच।
भद्रे प्रतिक्राम नियच्छ वाचं
माऽस्मत्सकाशे परुषाण्यवोचः।
राजानो वा यदि वा राजपुत्रा
बलेन मत्ताः पञ्चतां प्राप्नुवन्ति ।।
वैशंपायन उवाच।
एतावदुक्त्वा प्रययुर्हि शीघ्रं
तान्येव वर्त्मान्यनुवर्तमानाः।
मुहुर्मुहुर्व्यालवदुच्छ्वसन्तो
ज्यां विक्षिपन्तश्च महाधनुर्भ्यः ।।
ततोऽपश्यंस्तस्य सैन्यस्य रेणु-
मुद्धूतं वै वाजिस्वुरप्रणुन्नम्।
पदातीनां मध्यगतं च धौम्यं
विक्रोशन्तं भीम पार्थेत्यभीक्ष्णम् ।।
ते सान्त्व्य धौम्यं परिदीनसत्वाः
सुखं भवानेत्विति राजपुत्राः।
श्येना यथैवामिषसंप्रयुक्ता
जवेन तत्सैन्यमथाभ्यधावन् ।।
तेषां महेन्द्रोपमविक्रमाणां
संरब्धानां धर्षणाद्याज्ञसेन्याः।
क्रोधः प्रजज्वाल जयद्रथं च
दृष्ट्वा प्रियां तस्य रथे स्थितां च ।।
प्रचुक्रुशुश्चाप्यथ सिन्धुराजं
वृकोदरश्चैव धनंजयश्च।
यमौ च राजा च महाधनुर्धरा-
स्ततो दिशः संमुमुहुः परेषाम् ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
द्रौपदीहरणपर्वणि सप्तत्यधिकद्विशततमोऽध्यायः ।। 270 ।।