आरण्यकपर्व
अध्यायः २६८
वैशंपायन उवाच।
तथाऽऽसीनेषु सर्वेषु तेषु राजसु भारत।
`कोटिकाश्यो जगामाशु सिन्धुराजनिवेशनम् ।।
यदुक्तं कृष्णया सार्धं तत्सर्वं प्रत्यवेदयत्।
कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरकोऽब्रवीत् ।।
यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः।
सीमन्तिनीनां सुख्यायां विनिवृत्तः कथं भवान् ।।
एतां दृष्ट्वा स्त्रियो मेऽन्या यथा शाखामृगस्त्रियः।
प्रतिभान्ति महाबाहो सत्यमेतद्ब्रवीमि ते ।।
दर्शनादेव हि मनस्तया मेऽपहृतं भृशम्।
तां समाचक्ष्व कल्याणीं यदि स्याच्छैब्य मानुषी ।।
कोटिक उवाच।
एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी।
पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम् ।।
सर्वेषां चैव पार्थानां प्रिया बहुमता सती।
तया समेत्य सौवीर सौवीराभिमुखो व्रज ।।
वैशंपायन उवाच।
एवमुक्तः प्रत्युवाच पश्यामि द्रौपदीमिति।
पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः ।।
स प्रविश्याश्रमं पुण्यं सिंहगोष्ठं वृको यथा।
आत्मना सप्तमः कृष्णामिदं वचनमब्रवीत् ।।
कुशलं ते वरारोहे भर्तारस्तेऽप्यनामयाः।
येषां कुशलकामासि तेऽपिकच्चिदनामयाः ।।
द्रौपद्युवाच।
अपि ते कुशलं राजन्राष्ट्रे कोशे बले तथा।
कच्चिदेकः शिबीनाढ्यान्सौवीरान्सह सिन्धुभिः।
अनुतिष्ठसि धर्मेण ये चान्ये विदितास्त्वया ।।
कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः।
अहं च भ्रातरश्चास्य यांश्चान्यान्परिपृच्छसि ।।
पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज।
मृगान्विता मृगीश्चैव प्रातराशं ददानि ते ।।
ऐणेयान्पृषतान्न्यङ्कून्हरिणाञ्शरभाञ्शशान्।
ऋक्षाव्रुरूञ्शम्बरांश्च गवयांश्च मृगान्बहून् ।।
वराहामहिषांश्चैव याश्चान्या मृगजातयः।
प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्टिरः ।।
जयद्रथ उवाच।
कुशलं प्रातराशस्य सर्वं मे दित्सितं त्वया।
एहि मे रथमारोह सुखमाप्नुहि केवलम् ।।
गतश्रीकान्हृतराज्यान्कृपणान्गतचेतसः।
अरण्यवासिनः पार्थान्नानुरोद्धुं त्वमर्हसि ।।
नैव प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते।
युञ्जानमनुयुञ्जीत न शरियः संक्षये वसेत् ।।
श्रिया विहीना राष्ट्राच्च विनष्टाः शाश्वतीः समाः।
अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम् ।।
भार्या मे भव सुश्रोणि त्यजैनान्मुखमाप्नुहि।
अखिलान्सिन्धुसौवीरानाप्नुहि त्वं मया सह ।।
वैशंपायन उवाच।
इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम्।
कृष्णा तस्मादपाक्रामद्देशात्सभ्रुकुटीमुखी ।।
अवमत्यास्य तद्वांक्यमाक्षिप्य च सुमध्यमा।
मैवमित्यब्रवीत्कृष्णा लज्जस्वेति च सैन्धवम् ।।
सा काङ्क्षमाणा भर्तृणामुपयातमनिन्दिता।
विलम्बयामास परं वाक्यैर्वाक्यानि युञ्जती ।।
द्रैपद्युवाच।
नैवं वद महाबाहो न्याय्यं त्वं न च मन्यसे।
पाण्डूनां धार्तराष्ट्राणां स्वसा चैव कनीयसी ।।
दुश्शला नाम तस्यास्त्वं भर्ता राजकुलोद्वह।
मम भ्राता च न्याय्येन त्वया रक्ष्या महारथ ।।
धर्मिष्ठानां कुले जातो न धर्मं त्वमवेक्षसे।
इत्युक्तः सिन्धुराजोथ वाक्यमुत्तरमब्रवीत् ।।
राज्ञां धर्मं न जानीषे स्त्रियो रत्नानि चैव हि।
साधारणानि लोकेऽस्मिन्प्रवदन्ति मनीषिणः ।।
स्वसा च स्वस्रिया चैव भ्रातृभार्या तथैव च।
सुखं गृह्णन्ति राजानस्ताश्च तत्र नृपोद्भवाः' ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
द्रौपदीहरणपर्वणि अष्टषष्ट्यधिकद्विशततमोऽध्यायः ।। 268 ।।