आरण्यकपर्व
अध्यायः २६६
कोटिक उवाच।
का त्वं कदम्बस्य विनम्य शाखां
किमाश्रमे तिष्ठसि शोभमाना।
देदीप्यमानाऽग्निशिखेव नक्तं
व्याधूयमाना पवनेन सूभ्रूः ।।
अतीव रूपेण समन्विता त्वं
न चाप्यरण्येषु बिभेषि किंनु।
देवी नु यक्षी यदिदानवी वा
वराप्सरा दैत्यवराङ्गना वा ।।
वपुष्मती वोरगराजकन्या
वनेचरी वा क्षणदाचरस्त्री।
त्वं देवराज्ञो वरुणस्य पत्नी
यमस्य सोमस्य धनेश्वरस्य ।।
धातुर्विधातुः सवितुर्विभोर्वा
शक्रस्य वा त्वं सदनात्प्रपन्ना।
न ह्येव नः पृच्छसि ये वयं स्म
न चापि जानीम तवेह नाथम् ।।
वयं हि मानं तव वर्धयन्तः
पृच्छाम भद्रेप्रभवं प्रभुं च।
आचक्ष्व बन्धूंश्च पतिं कुलं च
जातिं च यच्चेगह करोषि कार्यम् ।।
अहं तु राज्ञः सुरथस्य पुत्रो
यं कोटिकाश्येति विदुर्मनुष्याः।
`वश्येन्द्रियः सत्यरतिर्वरोरु
वृद्धोपसेवी गुरुपूजकश्च' ।।
असौ तु यस्तिष्ठतिकाञ्चनाङ्गे
तथे हुतोऽग्निश्चयने यथैव।
तरिगर्तराजः कमलायताक्षः
क्षेमंकरो नाम स एष वीरः ।।
अस्मात्परस्त्वेष महाधनुष्मा-
न्पुत्रः कुलिन्दाधिपतेर्वरिष्ठः।
निरीक्षते त्वां विपुलायताक्षः
सुपुष्पितः पर्वतवासनित्यः ।।
असौ तु यः पुष्करिणीसमीपे
श्यामो युवा तिष्ठति दर्शनीयः।
इक्ष्वाकुराजः सुबलस्य पुत्रः
स एव हन्ता द्विषतां सुगात्रि ।।
यस्यानुयात्रं ध्वजिनः प्रयान्ति
सौवीरका द्वादशराजपुत्राः।
शोणाश्वयुक्तेषु रथेषु सर्वे
मस्वेषु दीप्ता इव इव्यवाहाः ।।
अङ्गारकः कुञ्जरो गुप्तकश्च
श्रुंजयः संजयसुप्रवृद्धौ।
प्रभंकरोऽथ भ्रमरो रविश्च
शूरः प्रतापःकुहनश्च नाम ।।
यं षट्सहस्रा रथिनोऽनुयान्ति
नागा हयाश्चैव पदातिनश्च।
जयद्रथो नाम यदि श्रुतस्ते
सौवीरराजः सुभगे स एषः ।।
तस्यापरे भ्रातरोऽदीनसत्वा
बलाहकानीकविदारणाद्याः।
सौवीरवीराः प्रवरा युवानो
राजानमेते बलिनोऽनुयान्ति ।।
एतैः सहायैरुपयाति राजा
मरुद्गणैरिन्द्र इवाभिगुप्तः।
अजानतां ख्यापय नः सुकेशि
कस्यासि भार्या दुहिता च कस्य ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
द्रौपदीहरणपर्वणि षट्षष्ट्यधिकद्विशतमोऽध्यायः ।। 266 ।।