आरण्यकपर्व

अध्यायः २३५

Aranyaka Parva (Sanskrit) · Adhyaya 235
अक्षर का आकार

द्रौपद्युवाच।

इमं तु ते मार्गमपेतदोषं
वक्ष्यामि चित्तग्रहणाय भर्तुः।
अस्मिन्यथावत्सखि वर्तमाना
भर्तारमाच्छेत्स्यसि कामिनीभ्यः ।।

नैतादृशं दैवतमस्ति किंचि-
त्सर्वेषुलोकेषु सदेवकेषु।
यथा पतिस्तस्य तु सर्वकामा
लभ्याः प्रसादे कुपितश् हन्यात् ।।

तस्मादपत्यं विविधाश् भोगाः
शय्यासनान्यद्भुतदर्शनानि।
वस्त्राणि माल्यानि तथैव गन्धाः
स्वर्गश्चलोको विपुला च कीर्तिः ।।

सुखं सुखनेह न जातु लभ्यं
दुःखेन साध्वी लभते सुखानि।
सा कृष्णमाराधय सौहृदेन
प्रेम्णा च नित्यं प्रतिकर्मणा च ।।

स्नानासनैश्चारुभिरग्रमाल्यै-
र्दाक्षिण्ययोगैर्विविधैश्च गन्धैः।
अस्याः प्रियोस्मीति यथा विदित्वा
त्वामेव संश्लिष्यति सर्वभावैः ।।

श्रुत्वा स्वरं द्वारगतस् भर्तुः
प्रत्युत्थिता तिष्ठ गृहस्य मध्ये।
दृष्ट्वा प्रविष्टं त्वरिताऽसनेन
पाद्येन चैनं प्रतिपूजयस्व ।।

संप्रेषितायामथ चैव दास्या-
मुत्थाय सर्वं स्वयमेव कार्यम्।
जानातु कृष्णस्तव भावमेतं
सर्वात्मना मां भजतीति सत्ये ।।

त्वत्संनिधौ यत्कथयेत्पतिस्ते
यद्यप्यगुह्यं परिरक्षितव्यम्।
काचित्सपत्नी तव वासुदेवं
प्रत्यादिशेत्तेन भवेद्विरागः ।।

प्रियांश्च रम्यांश्च हितांश् भर्तु-
स्तान्भोजयेथा रविविधैरुपायैः।
द्वेष्यैरुपेक्ष्यैरहितैश् तस्य
भिद्स्वनित्यं कुहकोद्धतैश्च ।।

मदं प्रमादं पुरुषेषु हित्वा
संयच्छ मानं प्रतिगृह् वाचम्।
प्रद्युम्नसाम्बावपि ते कुमारौ
नोपासितव्यौ रहिते कदाचित् ।।

महाकुलीनाभिरपापिकाभिः
स्त्रीभिः सतीभिस्तव सख्यमस्तु।
चण्डाश् शौण्डाश्च महाशनाश्च
चोराश्च दुष्टाश्चपलाश्च वर्ज्याः ।।

एतद्यशस्यं भगवेतनं च
स्वार्थं तदा शत्रुनिबर्हणं च।
महार्हमाल्याभरणाङ्गरागा
भर्तारमाराधय पुण्यगन्धैः ।।

।। इति श्रीमनमहाभारते अरण्यपर्वणि
द्रौपदीसत्यभामासंवादपर्वणि पञ्चत्रिंशततमोऽध्यायः ।। 235 ।।