आरण्यकपर्व
अध्यायः २३१
मार्कण्डेय उवाच।
यदा स्कन्देन मातृणामेवमेतत्प्रियं कृतम्।
अथनैमब्रवीत्स्वाहा मम पुत्रस्त्वमौरसः ।।
इच्छाम्यहं त्वया दत्तां प्रीतिं परमदुर्लभाम्।
तामब्रवीत्ततः स्कन्दः प्रीतिमिच्छसि कीदृशीम् ।।
स्वाहोवाच।
दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज।
बाल्यात्प्रभृति नित्यं च जातकामा हुताशने ।।
न स मां कामिनीं पुत्र सम्यग्जनाति पावकः।
इच्छामि शाश्वतं वासं वस्तु पुत्र सहाग्निना ।।
स्कन्द उवाच।
हव्यं कव्यंच यत्किंचिद्द्विजा मन्त्रसुसंस्तुतम्।
होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वासमुद्धृतम् ।।
अद्यप्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः।
एवमग्निसत्वया सार्धं सदा वत्स्यति शोभने ।।
मार्कण्डेय उवाच।
एवमुक्ता ततः स्वाहा तुष्टास्कन्देन पूजिता।
पावकेन समायुक्ता भर्त्रा स्कन्दमपूजयत्।।
ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत्।
अभिगच्छ महादेवं पितरं त्रिपुरार्दनम् ।।
रुद्रेणाग्निं समाविश्य स्वाहामाविश्य चोमया।
हितर्थं सर्वलोकानां जातस्त्वमपराजितः ।।
उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना।
अस्मिन्गिरौ निपतितं मिञ्जिकमिञ्जिकं यतः ।।
`मिथुनं वै महाभाग तत्र तद्रुद्रसंभवम्'।
संभूतं लोहितोदे तु शुक्रशेषमवापतत् ।।
सूर्यरश्मिषु चाप्यनयदन्यच्चैवापतद्भुवि।
आसक्तमन्यद्वृक्षेषु तदेवं प्चधाऽपतत् ।।
तत्र ते विविधाकारा गणा ज्ञेया मनीषिभिः।
तव पारिषदा घोरा य एते पिशिताशिनः ।।
एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम्।
अपूजयदमेयात्मा पितरं पितृवत्सलः ।।
मार्कण्डेय उवाच।
अर्कपुष्पैस्तु ते पञ् गणाः पूज्या धनार्थिभिः।
व्यादिप्रशमनार्थं चतेषां पूजां समाचरेत् ।।
मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसंभवम्।
नमस्कार्यं सदैवेह बालानां हितमिच्छता ।।
स्त्रियो मानुषमांसादा वृक्षका नाम नामतः।
वृक्षेषु जातास्ता देव्यो नमस्कार्याः प्रजार्थिभिः ।।
एषामेव पिशाचानामसङ्ख्येयगणाः स्मृताः।
घण्टायाः सपताकायाः शृणु मे संभवं नृप ।।
ऐरावतस्य घण्टे द्वे वैजयन्त्याविति श्रुते।
गुहस्य ते स्वयं दत्ते क्रमेणानाय्य धीमता ।।
एका तत्रविशाखस्य घण्टा स्कन्दस्य चापरा।
पताका कार्तिकेयस् विशाखस्य च लोहिता ।।
यानि क्रीडनकान्यस्य देवैर्दत्तानि वै तदा।
तैरेव रमते देवो महासेनो महाबलः ।।
स संवृतः पिशाचानां गणैर्देवगणैस्तथा।
शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृत्तः ।।
तेन वीरेण शुशुभे स शैलः शुभकाननः।
आदित्येनेवांशुमता मन्दरश्चारुकन्दरः ।।
संतानकवनैः फुल्लैः करवीरवनैरपि।
पारिजातवनैश्चैव जपाशोकवनैस्तथा ।।
कदम्बतरुषण्डैश्च दिव्यैर्मृगगणैरपि।
दिव्यैः पक्षिगणैश्चैव शुशुभे श्वेतपर्वतः ।।
तत्रदेवगणाः सर्वेसर्वे देवर्षयस्तथा।
मेघतूर्यरवाश्चैव क्षुब्धोदधिसमस्वनाः ।।
तत्रदेवाश्च गन्धर्वा नृत्यन्तेऽप्सरसस्तथा।
हृष्टानां तत्रभूतानां श्रूयते निनदो महान् ।।
एवं सेन्द्रं जगत्सर्वं श्वेतपर्वतसंस्थितम्।
प्रहृष्टं प्रेक्षते स्कन्दं न च ग्लायति दर्शनात् ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
मार्कण्डेयसमास्यापर्वणि एकत्रिंशदधिकद्विशततमोऽध्यायः ।। 231 ।।