आरण्यकपर्व
अध्यायः २२०
वैशंपायन उवाच।
श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम्।
पुनः पप्रच्छ तमृषिं मार्कण्डेयमिदं तदा ।।
कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा।
नष्टेऽग्नौ हव्यमहवदग्निर्भूत्वा महाद्युतिः ।।
अग्निर्यदा चैक एव बहुत्वं चास्य कर्मसु।
दृश्यते भगवन्सर्वमेतदिच्छामि वेदितुम् ।।
कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत्।
यथा रुद्राच्च संभूतो गङ्गायां कृत्तिकासु च ।।
एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवसत्तम।
कौतूहलसमाविष्टो याथातथ्यं महामुने ।।
मार्कण्डेय उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः ।।
यथा च भगवानग्निः स्वयमेवाङ्गेराऽभवत्।
संतापयंश्च प्रभया नाशयंस्तिमिरावलिम् ।।
पुराङ्गिरा महाबाहो चचार तप उत्तमम्।
आश्रमस्थो महाभागो हव्यवाहं विशेषयन्।
यथाग्निर्भूत्वा तु तदा जगत्सर्वं व्यकाशयत् ।।
तपश्चरंस्तु हुतभुक्संतप्तस्तस्य तेजसा।
भृशं ग्लानश्चतेजस्वी न च किंचित्प्रजज्ञिवान् ।।
अथ संचिन्तयामास भगवान्हव्यवाहनः।
अन्योऽग्निरिव लोकानां ब्रह्मणा संप्रकल्पितः ।।
अग्नित्वं विप्रनष्टं हि तप्यमानस् मे तपः।
कथमग्निः पुनरहं भवेयमिति चिन्त्य सः ।।
अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम्।
सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः ।।
शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः।
विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु ।।
त्वमग्ने प्रथमः सृष्टो ब्र्हमणा तिमिरापर्हः।
स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमो नुद ।।
अग्निरुवाच।
नष्टकीर्तिरहं लोके भवाञ्जातो हुताशनः।
भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः ।।
निक्षिपम्यहमग्नित्वं त्वमग्निः प्रथमो भव।
भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च ।।
अङ्गिरा उवाच।
कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः।
मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा ।।
मार्कण्डेय उवाच।
तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाऽकरोत्।
राजन्वृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः ।।
ज्ञात्वा प्रथमजं तं तु वह्नेरङ्गिरसं सुतम्।
उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत ।।
स तु पृष्टस्तदा देवैस्तत कारणमब्रवीत्।
प्रत्यगृह्णन्त देवाश्च तद्वचोऽङ्गिरसस्तदा ।।
तत्रनानाविधानग्नीन्प्रवक्ष्यामि महाप्रभान्।
कर्मभिर्वहुभिः ख्याताननानार्थान्ब्राह्मणेष्विह ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
मार्कण्डेयसमास्यापर्वणि विंशत्यधिकद्विशततमोऽध्यायः ।। 220।।