आरण्यकपर्व

अध्यायः १९८

Aranyaka Parva (Sanskrit) · Adhyaya 198
अक्षर का आकार

[*मार्कण्डेय उवाच।

इदमन्यच्छ्रूतां ययातिर्नाहुषो राजा राज्यस्थः पौरजनावृत आसांचक्रे ।। गुर्वर्थी ब्राह्मण उपेत्याब्रवीत् भो राजन्गुर्वर्थं भिक्षेयं समयादिति राजोवाच ।।

ब्रवीतु भगवान्समयमिति ।।

ब्राह्मण उवाच।

विद्वेषणं परमं जीवलोके
कुर्यान्नरः पार्थिव याच्यमानः।
तं त्वां पृच्छामि कथं तु राज-
न्दद्याद्वान्दयितं च मेऽद्य ।।

राजोवाच।

नचानुकीर्तये दद्य दत्त्वा
अयाच्यमर्थं न च संशृणोमि।
प्राप्यमर्थं च संश्रुत्य
तं चापि दत्त्वा सुसुखी भवामि ।।

ददामि ते रोहिणीनां सहस्रं
प्रियो हि मे ब्राह्मणो याचमानः।
न मे मनः कुप्यति याचमाने
दत्तं न शोचामि कदाचिदर्थम् ।।

इत्युक्त्वा ब्राह्मणा राजा गोसहस्रं ददौ।
प्राप्तवांश्च गवां सहस्रं ब्राह्मण इति ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
मार्कण्डेयसमास्यापर्वणि
अष्टनवत्यधिकशततमोऽध्यायः ।। 198 ।।