आरण्यकपर्व

अध्यायः १७८

Aranyaka Parva (Sanskrit) · Adhyaya 178
अक्षर का आकार

जनमेजय उवाच।

तस्मिन्कृतास्त्रे रथिनां प्रवीरे।
प्रत्यागते भवनाद्वृत्रहन्तुः।
अतः परं किमकुर्वन्त पार्थाः
समेत्य शूरेण धनंजयेन ।।

वैशंपायन उवाच।

वनेषु तेष्वेव तु ते नरेन्द्राः
सहार्जुनेनेन्द्रसमेन वीराः।
तस्मिंश्च शैलप्रवरे सुरम्ये
धनेश्वराक्रीडगता विजह्रुः ।।

वेश्मानि तान्यप्रतिमानि पश्यन्
क्रीडाश्च नानाद्रुमसन्निबद्धाः।
चचार धन्वी बहुधा नरेन्द्रः
सोऽस्त्रेषु यत्तः सततं किरीटी ।।

अवाप्य वासं नरदेवपुत्राः
प्रसादजं वैश्रवणस्य राज्ञः।
न प्राणिनां ते स्पृहयन्ति राज-
ञ्शिवश् कालः स बभूव तेषाम् ।।

समेत्य पार्थेन यथैकरात्र-
मूषुः समास्तत्रतथा चतस्रः।
पूर्वाश्च षट् ता दश पाण्डवानां
शिवा बभूवुर्वसतां वनेषु ।।

ततोऽब्रवीद्वायुसुतस्तरस्वी
जिष्णुश्च राजानमुपोपविश्य।
यमौ च वीरौ सुरराजकल्पा-
वेकान्तमास्थाय हितं प्रियं च ।।

तव प्रतिज्ञां कुरुराज सत्यां
चिकीर्षमाणास्त्वदनुप्रियं च।
ततो न गच्छाम वनान्यपास्य
सुयोधनं सानुचरं निहन्तुम् ।।

एकादशं वर्षमिदं वसामः
सुयोधनेनात्तसुखाः सुखार्हाः।
तं वञ्चयित्वाऽधमबुद्धिशील-
मज्ञातवासं सुखमाप्नुयाम ।।

तवाज्ञया पार्थिव निर्विशङ्का
विहाय मानं विचरामो वनानि।
समीपवासेन विलोभितास्ते
ज्ञास्यन्ति नास्मानपकृष्टदेशान् ।।

संवत्सरं तत्र विहृत्य गूढं
नराधमं तं सुखमुद्धरेम।
निर्यात्य वैरं सफलं सपुष्पं
तस्मै नरेन्द्राधमपूरुषाय ।।

सुयोधनायानुचरैर्वृताय
ततो महीं प्राप्नुहि धर्मराज।
स्वर्गोपमं देशमिमं चरद्भिः
शक्यो विहन्तुं नरदेव शोकः ।।

कीर्तिस्तु ते भारत पुण्यगन्धा
नश्येद्धि लोकेषु चराचरेषु।
तत्प्राप्य राज्यंकुरुपुङ्गवानां
शक्यं महत्प्राप्तुमथ क्रियाश्च ।।

इदं तु शक्यं सततं नरेन्द्र
प्राप्तुं त्वया यल्लभसे कुबेरात्।
कुरुष्व बुद्धिं द्विषतां वधाय
कृतागसां भारत निग्रहे च ।।

तेजस्तवोग्रं न सहेत राजन्
समेत्य साक्षादपि वज्रपाणिः।
न हि व्यथां जातु करिष्यतस्तौ
समेत्य देवैरपि धर्मराज ।।

तवार्थसिद्ध्यर्थमपि प्रवृत्तौ
सुपर्णकेतुश्च शिनेश्च नप्ता।
यथैव कृष्णोऽप्रतिमो बलेन
तथैव राजन्स शिनिप्रवीरः ।।

तवार्थसिद्ध्यर्थमभिप्रपन्नो
यथैव कृष्णः सह यादवैस्तैः।
तथैव चेमौ नरदेववर्य
यमौ च वीरौ कृतिनौ प्रयोगे ।।

त्वदर्थयोगप्रभवप्रधानाः
शमं करिष्याम परान्समेत्य ।।

वैशंपायन उवाच

ततस्तदाज्ञाय मतं महात्मा
तेषां च धर्मस्य सुतो वरिष्ठः।
प्रदक्षिणं स्थानमुपेत्य राजा
पर्याक्रमद्वैश्रवणस्य राज्ञः ।।

संप्रार्थयामास नगेन्द्रवर्यम् ।।]

समाप्तकर्मा सहितः सुहृद्भि-
र्जित्वा सपत्नान्प्रतिलभ्य राज्यम्।
शैलेन्द्र भूयस्तपसे जितात्मा
द्रष्टा तवास्मीति मतिं चकार ।।

वृतश्च सर्वैरनुजैर्द्विजैश्च
तेनैव मार्गेण पुनर्निवृत्तः।
उवाह चैनान्गणशस्तथैव
घटोत्कचः पर्वतनिर्झरेषु ।।

तान्प्रस्थितान्प्रीतमना महर्षिः
पितेव पुत्राननुशिष्य सर्वान्।
स लोमशो दिवमेवोर्जितश्री-
र्जगाम तेषां विजयं तदोक्त्वा ।।

तेनार्ष्टिषेणेन तथानुशिष्टा-
स्तीर्तानि रम्याणि तपोवनानि।
महान्ति चान्यानि सरांसि पार्थाः
कसंपश्यमानाः प्रययुर्नराग्र्याः ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
आजगरपर्वणि
अष्टसप्तत्यधिकशततमोऽध्यायः ।। 178 ।।