आरण्यकपर्व

अध्यायः १७०

Aranyaka Parva (Sanskrit) · Adhyaya 170
अक्षर का आकार

अर्जुन उवाच।

कृतास्त्रमतिविश्वस्तमथ मां हरिवाहनः।
रसंस्पृश्य मूर्ध्नि पाणिब्यामिदं वचनमब्रवीत् ।।

न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि।
किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः ।।

अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा।
`अजेयस्त्वं हि सङ्ग्रामे सर्वैरपिसुरासुरैः' ।।

अथाब्रवीत्पुनर्देवः संप्रहृष्टतनूरुहः।
अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति ।।

अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः।
ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह ।।

अस्त्राणि समवाप्तानि त्वया दश च पञ्च च।
पञ्चभिर्विधिभिः पार्थ विद्यते न त्वया समः ।।

प्रयोगमुपसंहारमावृत्तिं च धनञ्जय।
प्रायश्चित्तं च वेत्थ त्वं प्रतीघातं च सर्वशः ।।

तव गुर्वर्थकालोऽयं समुत्पन्नः परंतप।
प्रतिजानीष्व तं कर्तुं ततो वेत्स्याम्यहं परम् ।।

ततोऽहमब्रवं राजन्देवराजमिदं वचः।
विषह्यं यन्मया कर्तुं कृतमेव निबोध तत् ।।

ततो मामब्रवीद्राजन्प्रहसन्बलवृत्रहा।
नाविपह्यं तवाद्यास्ति त्रिषु लोकेषु किंचन ।।

निवातकवचा नाम दानवा मम शत्रवः।
समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत ।।

तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः।
तांस्तत्रजहि कौन्तेय गुर्वर्थस्ते भविष्यति ।।

ततो मातलिसंयुक्तं मयूरसमरोमभिः।
हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम् ।।

बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम्।
स्वरूपसदृशं चैव प्रादादङ्गविभूषणम् ।।

अभेद्यं कवचं चेदं स्पर्सरूपवदुत्तमम्।
अजरां ज्यामिमां चापि गाण्डीवे समयोजयत् ।।

ततः प्रायामहं तेन स्यन्दनेन विराजता।
येनाजयद्देवपतिर्बलिं वैरोचनिं पुरा ।।

ततो देवाः सर्व एव तेन घोषेण बोधिताः।
मन्वाना देवराजं मां समाजग्मुर्विशांपते ।।

दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फल्गुन।
तानब्रुवं यथाभूतमिदं कर्ताऽस्मि संयुगे ।।

निवातकवचानां तु प्रस्थितं मां तधैपिणम्।
निबोधत महाभागा शिवं चाशास्त मेऽनघाः ।।

`ततो वाग्भिः प्रशस्ताभिस्त्रिदशाः पृथिवीपते'।
तुष्टुवुर्मां प्रसन्नास्ते यथा देवं पुरंदरम् ।।

रथेनानेन मघवा जितवाञ्शम्बरं युधि।
नमुचिं बलवृत्रौ च प्रह्लादनरकावपि ।।

बहूनि च सहस्राणि प्रयुतान्यर्बुदान्यपि।
रथेनानेन दैत्यानां जितवान्मघवा युधि ।।

न्वमप्यनेन कौन्तेय निबातकवचान्रणे।
विजेता युधि विक्रम्य पुरेव मघवा वशी ।।

अयंच शङ्खप्रवरो येन जेतासि दानवान्।
अनेन विजिता लोका शक्रेणापि महात्मना ।।

प्रदीयमानं देवैस्तं देवदत्तं जलोद्भवम्।
प्रत्यगृह्णां जयायैनं स्तूयमानस्तदाऽमरैः ।।

स शङ्खी कवची वाणी प्रगृहीतशरासनः।
दानवालयमत्युग्रं प्रयातोस्मि युयुत्सया ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
निवातकवचयुद्धपर्वणि
सप्तत्यधिकशततमोऽध्यायः ।। 170 ।।