आरण्यकपर्व
अध्यायः १६२
वैशंपायन उवाच।
श्रुत्वा बहुविधैः शब्दैर्नाद्यमानां गिरेर्गुहाम्।
अजातशत्रुः कौन्तेयो माद्रीपुत्रावुभावपि ।।
धौम्यः कृष्णा च विप्राश्च सर्वे च सुहृदस्तथा।
भीमसेनमपश्यन्तः सर्वे विमनसोऽभवन् ।।
द्रौपदीमार्ष्टिषेणाय संप्रधार्य महारथाः।
सहिताः सायुधाः शूराः शैलमारुरुहुस्तदा ।।
ततः संप्राप्य शैलाग्रं वीक्षमाणा महारथाः।
ददृशुस्ते महेष्वासा भीमसेनमरिंदमम् ।।
स्फुरतश्च महाकायान्गतसत्वांश्च राक्षसान्।
महाबलान्महासत्वान्भीमसेनेव पातितान् ।।
शुशुरतश्च महाकायान्गतसत्वांश्च राक्षसान्।
महाबलान्महासत्वान्भीमसेनेन पातितान् ।।
ततस्ते समतिक्रम्य परिष्वज्य वृकोदरम्।
तत्रोपविविशुः पार्थाः प्राप्ता गतिमनुत्तमाम् ।।
तैश्चतुर्भिर्महेष्वासैर्गिरिशृङ्गमशोभत।
लोकपालैर्महाभागैर्दिवं देववरैरिव ।।
कुबेरसदनं दृष्ट्वा राक्षसांश्च निपातितान्।
भ्राता भ्रातरमासीनमथोवाच युधिष्ठिरः ।।
साहसाद्यदिवा मोहाद्बीम पापमिदं कृतम्।
नैतत्ते सदृशं वीर मुनेरिव मृषा वधाः ।।
राजद्विष्टं न कर्तव्यमिति धर्मविदो विदुः।
त्रिदशानामिदं द्विष्टं भीमसेन त्वया कृतम् ।।
अर्थधर्मावनादृत्य यः पापे कुरुते मनः।
कर्मणां पार्थ पापानां स फलं विन्दते ध्रुवम् ।।
`साहसंवत भद्रं ते देवानामपि चाप्रियम्'।
पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् ।।
वैशंपायन उवाच।
एवमुक्त्वा स धर्मात्मा भ्राता भ्रातरमच्युतम्।
`भीमसेनं महाबाहुमप्रधृष्यपराक्रमम्' ।।
अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः।
विराम महातेजास्तमेवार्थं विचिन्तयन् ।।
ततस्ते हतशिष्टा ये भीमसेनेन राक्षसाः।
सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति ।।
ते जवेन महावेगाः प्राप्य वैश्रवणालयम्।
भीममार्तस्वरं चक्रुर्भीमसेनभयार्दिताः ।।
न्यस्तशस्त्रायुधाः क्लान्ताः शोणिताक्तपरिच्छदाः।
प्रकीर्णमूर्धजा राजन्यक्षाधिपतिमब्रुवन् ।।
गदापरिघनिस्त्रिंसतोमरप्रासयोधिनः।
राक्षसा निहताः सर्वे तव देवपुरःसराः ।।
प्रमृद्यतरसा शैलं मानुषेण धनेश्वर।
एकेन निहताः सङ्ख्ये गताः क्रोधवशा गणाः ।।
प्रवरा राक्षसेन्द्राणां यक्षाणां च नराधिप।
शेरते निहता देव गतसत्वाः परासवः ।।
भग्नः शैलो वयं भग्ना मणिमांस्ते सखा हतः।
मानुषेणं कृतं कर्म विधत्स्व यदनन्तरम् ।।
स तच्छ्रुत्वा तु संक्रुद्धः सर्वयक्षगणाधिपः।
कोपसंरक्तनयनः कथमित्यब्रवीद्वचः ।।
द्वितीयमपराध्यन्तं भीमं श्रुत्वा धनेश्वरः।
चुक्रोध यक्षाधिपतिर्युज्यतामिति चाब्रवीत् ।।
अथाभ्रघनसंकाशं गिरिकूटमिवोच्छ्रितम्।
रथं संयोजयामासुर्गर्न्धैवर्हेममालिभिः ।।
तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः।
तेजोबलगुणोपेता नानारत्नविभूषिताः।
शोभमाना रथे युक्तास्तरिष्यन्त इवाशुगाः ।।
`ततस्ते तु महायक्षाः क्रुद्धं दृष्ट्वा धनेश्वरम्'।
हर्षयामासुरन्योन्यमिङ्गितैर्विजयावहैः ।।
स तमास्थाय भगवान्राजराजो महारथम्।
प्रययौ देवगनधर्वैः स्तूयमानो महाद्युतिः ।।
तं प्रयान्तं महात्मानं सर्वे यक्षा धनाधिपम्।
`अनुजग्मुर्महात्मानं धनदं घोरदर्शनाः' ।।
रक्ताक्षा हेमसंकाशा महाकाया महाबलाः।
सायुधा बद्धनिस्त्रिंशा यक्षा बहुशतायुधाः ।।
ते जवेन महावेगाः प्लवमाना विहायसा।
गन्धमादनमाजग्मुः प्रकर्षन्त इवाम्बरम् ।।
तत्केसरिमहाजालं धनाधिपतिपालितम्।
`रम्यं चैव गिरेः शृङ्गमासेदुर्यत्रपाण्डवाः' ।।
कुबेरं च महात्मानं यक्षरक्षोगणावृतम्।
ददृशुर्हृष्टरोमाणः पाण्डवाः प्रियदर्शनम् ।।
कुबेरस्तु महासत्वान्पाण्डोः पुत्रान्महारथान्।
आत्तकार्मुकनिस्त्रिंशान्दृष्ट्वा प्रीतोऽभवत्तदा ।।
`सर्वे चेमे नरव्याघ्राः पुरन्दरसमौजसः।'
देवकार्यं करिष्यन्ति हृदयेन तुतोष ह ।।
ते पक्षिण इवापेतुर्गिरिशृङ्गं महाजवाः।
तस्थुस्तेषां सकाशे वै धनेश्वरपुरःसराः ।।
ततस्तं हृष्टमनसं पाण्डवान्प्रति भारत।
समीक्ष्ययक्षगन्धर्वा निर्विकारमवस्थिताः ।।
पाण्डवाश्च महात्मानः प्रणम्य धनदं प्रभुम्।
नकुलः सहदेवश् धर्मपुत्रश्च धर्मवित् ।।
अपराद्धमिवात्मानं मन्यमाना महारथाः।
तस्थुः प्राञ्जलयः सर्वे परिवार्य धनेश्वरम् ।।
शय्यासनयुतं श्रीमत्पुष्पकं विश्वकर्मणा।
विहितं चित्रपर्यन्तमातिष्ठत धनाधिपः ।।
तमासीनं महाकायाः शङ्कुकर्णा महाजवाः।
उपोपविविशुर्यक्षा राक्षसाश् सहस्रशः ।।
शतशश्चापि गन्धर्वास्तथैवाप्सरसां गणाः।
परिवार्योपतिष्ठन्ति यथा देवाः शतक्रतुम् ।।
काञ्जनीं शिरसा बिभ्रद्भीमसेनः स्रजं शुभाम्।
बाणखङ्गधनुष्पाणिरुदैक्षत धनाधिपम् ।।
न भीर्भीमस्य न ग्लानिर्विक्षतस्यापि राक्षसैः।
आसीत्तस्यामवस्तायां कुबेरमपि पश्यतः ।।
आददानं शितान्बाणान्योद्धुकाममवस्थितम्।
दृष्ट्वा भीमं धर्मसुतमब्रवीन्नरवाहनः ।।
विदुस्त्वां सर्वभूतानि पार्थ भूतहिते रतम्।
निर्भयश्चापिशैलाग्रे वस त्वं सह बन्धुभिः ।।
न च मन्युस्त्वया कार्यो भीमसेनस्य पाण्डव।
कालेनैते हताः पूर्वं निमित्तमनुजस्तव ।।
व्रीडा चात्रन कर्तव्या साहसं यदिदं कृतम्।
दृष्टश्चापि सुरैः पूर्वंविनाशो यक्षरक्षसाम् ।।
न भीमसेने कोपो मे प्रीतोस्मि भरतर्षभ।
कर्मणा भीमसेनस्य मम तुष्टिरभूत्पुरा ।।
वैशंपायन उवाच।
स एवमुक्त्वा राजानं भीमसेनमभाषत।
नैतन्मनसि मे तात वर्तते कुरुसत्तम ।।
यदिदं साहसं भीम कृष्णार्थे कृतवानसि।
मामनादृत्य देवांश्च विनाशं यक्षरक्षसाम् ।।
स्वबाहुबलमाश्रित्य तेनाहं प्रीतिमांस्त्वयि।
शापादद्य विनिर्मुक्तो घोरादस्माद्वृकोदर ।।
अहं पूर्वमगस्त्येन क्रुद्धेन परमर्षिणा।
शप्तोऽपराधे कस्मिंश्चित्तस्यैषा निष्कृतिर्ध्रुवम् ।।
दृष्टो हि मम संक्लेशः पुरा पाण्डवनन्दन।
न तवात्रापराधोस्ति कथंचिदपि पाण्डव ।।
युधिष्ठिर उवाच।
कथं शप्तोसि भगवन्नगस्त्येन महात्मना।
श्रोतुमिच्छाम्यहं देव यथैतच्छापकारणम् ।।
इदं चाश्चर्यभूतं मे यत्क्रोधात्तस् धीमतः।
तदैव त्वं न निर्दग्धः सबलः सपदानुगः ।।
धनेश्वर उवाच।
देवतानामभून्मन्त्रः कुशावत्यां नरेश्वर ।।
वृतस्तत्राहमगमं महापद्मशतैस्त्रिभिः।
यक्षाणआं घोररूपाणां विविधायुधधारिणाम् ।।
अध्वन्यहमथापश्यमगस्त्यमृपिसत्तमम्।
उग्रं तपस्तप्यभानं यमुनातीरमाश्रितम्।
नानापक्षिगणाकीर्णं पुष्पितद्रुमशोभितम् ।।
तमूर्द्वबाहुं दृष्ट्वैव सूर्यस्याभिमुखे स्थितम्।
तेजोराशिं दीप्यमानं हुताशनमिवैधितम् ।।
राक्षसाधिपतिः श्रीमान्मणिमान्नाम मे सखा।
मौर्क्यादज्ञानभावाच्च दर्पान्मोहाच्च पार्थिव ।।
न्यष्ठीवदाकाशगतो महर्षेस्तस्य मूर्धनि।
ततः क्रुद्धः स भगवानुवाचेदं तपोधनः ।।
मामवज्ञाय दुष्टात्मा यस्मादेष सखा तव।
धर्षणां कृतवानेतां पश्यतस्ते धनेश्वर ।।
त्वं चाप्येभिर्हतैः सैन्यैः क्लेशं प्राप्नुहि दुर्भते।
तमेव मानुषं दृष्ट्वाकिल्विषाद्विप्रमोक्ष्यसे ।।
सैन्यानां तु तवैतेषां पुत्रपौत्रबलान्वितम्।
न शापं प्राप्यते घोरं गच्छ तेऽऽज्ञां करिष्यति ।।
एष शापो मया प्राप्तः प्राक्तस्मादृषिसत्तमात्।
स भीमेन महाराज भ्रात्रा तव विमोक्षितः ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
यक्षयुद्धपर्वणि द्विषष्ट्यधिकशततमोऽध्यायः ।। 162 ।।