आरण्यकपर्व

अध्यायः १२६

Aranyaka Parva (Sanskrit) · Adhyaya 126
अक्षर का आकार

लोमश उवाच।

तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः।
आयान्तं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम् ।।

भयात्संस्तम्भितभुजः सृक्विणी लेलिहन्मुहुः।
ततोऽव्रवीद्देवराजश्च्यवनं भयपीडितः ।।

सोमार्हावश्विनावेतावद्य प्रभृति भार्गव।
भविष्यतः सत्यमेतद्वचो विप्र प्रसीद मे ।।

न ते मिथ्या समारम्भो भवत्वेष परो विधिः।
जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि ।।

सोमपावश्विनावेतौ यथा वाद्य कृतौ त्वया।
`तथैव मामपि ब्रह्मञ्श्रेयसा योक्तुमर्हसि' ।।

भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव।
सुकन्यायाः पितुश्चास्य लोके कीर्तिः प्रथेदिति ।।

अतो मयैतद्विहितं तव वीर्यप्रकाशनम्।
तस्मान्प्रसादं कुरु मे भवत्वेवं यथेच्छसि ।।

एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः।
स मन्युर्व्यगमच्छीघ्रं सुमोच च पुरंदरम् ।।

मदं च व्यभजद्राजन्पाने स्त्रीषु च वीर्यवान्।
अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः ।।

तदा मदं विनिक्षिप्य शक्रं संतर्प्य चेन्दुना।
अश्विभ्यां सहितान्देवान्याजयित्वा च तं नृपम् ।।

विख्याप्य वीर्यं लोकेषु सर्वेषु वदतांवरः।
सुकन्यया सहारण्ये विजहारानुकूलया ।।

तस्यैतद्द्विजसंघुष्टं सरो राजन्प्रकाशते।
अत्रत्वं सह सोदर्यैः पितृडन्देवांश्च तर्पय ।।

एतद्दृष्ट्वा महीपाल सिकताक्षं च भारत।
सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम् ।।

पुष्करेषु महाराज सर्वेषु च जलं स्पृश।
स्थाणोर्मन्त्राणि च जपन्सिद्धिं प्राप्स्यसि भारत ।।

संधिर्द्वयोर्नरश्रेष्ठ त्रेताया द्वापरस्य च।
अयं हि दृश्यते पार्थ सर्वपापप्रणाशनः।
अत्रोपस्पृश चैव त्वं सर्वपापप्रणाशने ।।

आर्चीकपर्वतश्चैव निवासौ वै मनीषिणाम्।
सदाफलः सदास्रोतो मरुतां स्तानमुत्तमम् ।।

चैत्याश्चैते बहुविधास्त्रिदशानां युधिष्ठिर।
एतच्चन्द्रमसस्तीर्थमृषयः पर्युपासते।
वैखानसप्रभृतयो वालखिल्यास्तथैव च ।।

शृङ्गाणि त्रीणि पुण्यानि त्रीणि प्रसर्वणानि च।
सर्वाण्यनुपरिक्रम्य यथाकाममुपस्पृश ।।

शान्तनुश्चात्र राजेन्द्र शुनकश्च नराधिपः।
नरनारायणौ चोभौ तपस्तप्त्वा चिरं नृप।
स्थानं सनातनं प्राप्तावीश्वरध्यानतत्परौ ।।

इह नित्याश्रया देवाः पितरश्च महर्षिभिः।
आर्चीकपर्वते तेपुस्तान्यजस्व युधिष्ठिर ।।

इह ते वै चरून्प्राश्नन्नृषयश्च विशांपते।
यमुना चाक्षयस्रोताः कृष्णश्चेह तपोरतः ।।

यमौ च भीमसेनश्च कृष्णा चामित्रकर्शन।
सर्वे चात्र गमिष्यामस्त्वयैव सह पाण्डव ।।

एतत्प्रस्रवणं पुण्यमिन्द्रस्य मनुजेश्वर।
यत्रधाता विधाता च वपरुणश्चोर्ध्वमागताः ।।

इह तेऽप्यवसन्राजञ्शान्ताः परमधर्मिणः।
मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः ।।

एषा सा यमुना राजन्महर्षिगणसेविता।
नानायज्ञचिता राजन्पुण्या पापभयापहा ।।

अत्रराजा महेष्वासो मांधाताऽयजत स्वयम्।
साहदेविश्च कौन्तेय सोमको ददतांवरः ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि षड्विंशत्यधिकशततमोऽध्यायः ।। 126 ।।