आरण्यकपर्व

अध्यायः १२४

Aranyaka Parva (Sanskrit) · Adhyaya 124
अक्षर का आकार

लोमश उवाच।

कस्य चित्त्वथ कालस्य त्रिदशावश्विनौ नृप।
कृताभिषेकां विवृतां सुकन्यां तामपश्यताम् ।।

तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव।
ऊचतुः समभिद्रुत्य नासत्यावश्विनाविदम् ।।

कस्य त्वमसि वामोरु वनेऽस्मिन्किं करोषि च।
इच्छाव भद्रे ज्ञातुं त्वां तत्वमाख्याहि शोभने ।।

ततः सुकन्या संवीता तावुवाच सुरोत्तमौ।
शर्यातितनयां वित्तं भार्यां मां च्यवनस्य च ।।

`नाम्ना चाहं सुकन्येति नृलोकेऽस्मिन्प्रतिष्ठिता।
साऽहंसर्वात्मना नित्यं भर्तारमनुवर्तिनी' ।।

अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तु।
कथं त्वमसि कल्याणि पित्रा दत्ताऽऽगता वने ।।

भ्राजसेऽस्मिन्वने भीरु विद्युत्सौदामनी यथा।
न देवेष्वपि तुल्यां हि त्वया पश्याव भामिनि ।।

अनाभरणसंपन्ना परमाम्बरवर्जिता।
शोभयस्यधिकं भद्रे वनमप्यनलंकृता ।।

सर्वाभरणसंपनना परमाम्वरधारिणी।
शोभेथास्त्वनवद्याङ्गि न त्वेवं मलपङ्किनी ।।

कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम्।
त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम् ।।

असमर्थं परित्राणे पोषणे तु शुचिस्मिते।
सा त्वं च्यवनमुत्सृज्यवरयस्वैकमावयोः ।।

पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः।
एवमुक्ता सुकन्याऽपि सुरौ ताविदमब्रवीत् ।।

रताऽहं च्यवने पत्यौ मैवं मां पर्यशङ्कतम्।
तावब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ ।।

युवानं रूपसंपन्नं करिष्यावः पतिं तव।
ततस्तस्यावयोश्चैव वृणीष्वान्यतमं पतिम्।
एतेन समयेनैनमामन्त्रय पतिं शुभे ।।

सा तयोर्वचनाद्राजन्नुपसंगम्य भार्गवम्।
उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति ।।

तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति।
`सा भर्त्रा समनुज्ञाता क्रियतामित्यथाब्रवीत् ।।

श्रुत्वा तदश्विनौ वाक्यं तस्यास्तत्क्रियतामिति'।
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ।।

ततोऽम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह।
अश्विनावपि तद्राजन्सरः प्राविशतां तदा ।।

ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्त्रयः।
दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः।
तुल्यवेषधराश्चैव मनसः प्रीतिवर्धनाः ।।

तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे।
अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि ।।

`त्वमश्विनोरन्यतरं च्यवनं वा यशस्विनि'।
यत्र वाऽप्यभिकामाऽसि तं वृणीष्व सुशोभने ।।

सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान्।
निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम् ।।

लब्ध्वा तु च्यवनो भार्यांवयोरूपं च वाञ्छितम्।
हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ।।

यथाऽहं रूपसंपन्नो वयसा च समन्वितः।
कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम् ।।

तस्माद्युवां करिष्यामि प्रीत्याऽहं सोमपीथिनौ।
मिषतो देवराजस्य सत्यमेतद्ब्रवीमि वाम् ।।

तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः।
च्यवनश्च सुकन्या च सुराविव विजह्रतुः ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि चतुर्विंशत्यधिकशततमोऽध्यायः ।। 124 ।।