आरण्यकपर्व

अध्यायः ११९

Aranyaka Parva (Sanskrit) · Adhyaya 119
अक्षर का आकार

वैशंपायन उवाच।

गच्छन्स तीर्थानि महानुभावः।
पुण्यानि रम्याणि ददर्श राजा।
सर्वाणि वैप्रैरुपशोभितानि
क्वचित्क्वचिद्भारत सागरम्य ।।

स वृत्तवांस्तेषु कृताभिषेकः
सहानुजः पार्थिवपुत्रपौत्रः।
समुद्रगां पुण्यतमां प्रशस्तां
जगाम पारिक्षित पाण्डुपुत्रः ।।

तत्रापि चाप्लुत्य महानुभाव
संतर्पयामास पितृडन्सुरांश्च।
द्विजातिमुख्येषु धनं विसृज्य
गोदावरीं सागरगामगच्छत् ।।

ततो विपाप्मा द्रविडेषु राज-
न्समुद्रमासाद्य च लोकपुण्यम्।
अगस्त्यतीर्थं च महापवित्रं-
नारीतीर्थान्यथा वीरो ददर्श ।।

तत्रार्जुनस्याग्र्यधनुर्धरस्य
निशम्य तत्कर्म परैरशक्यम्।
संपूज्यमानः परमर्षिसङ्घैः
परां मुदं पाणअडुसुतः स लेभे ।।

स तेषु तीर्थेष्वभिषिक्तगात्रः
कृष्णासहायः सहितोऽनुजैश्च।
संपूजयन्विक्रममर्जुनस्य
रमे महीपालपतिः पृथिव्याम् ।।

ततः सहस्राणि गवां प्रदाय
तीर्थेषु तेष्वम्बुधरोत्तमस्य।
हृष्टः सह भ्रातृभिरर्जुनस्य
संकीर्तयामास गवां प्रदानम् ।।

स तानि तीर्थानि च सागरस्य
पुण्यानि चान्यानि बहूनि राजन्।
क्रमेण गच्छन्परिपूर्णकामः
शूर्पारकं पुण्यतमं ददर्श ।।

तत्रोदधेः कंचिदतीत्य देशं
ख्यातं पृथिव्यां वनमाससाद।
तप्तं सुरैरत्र तपः पुरस्ता-
दिष्टुं कतथा पुण्यपरैर्नरेन्द्रैः ।।

स तत्र तामग्र्यधनुर्धरस्य
वेदीं ददर्शायतपीनबाहुः।
ऋचीकपुत्रस्य तपस्विसङ्घैः
समावृतां पुण्यकृदर्चनीयाम् ।।

ततो वसूनां वसुधाधिपः स
मरुद्गणानां च तथाश्विनोश्च।
वैवस्वतादित्यधनेश्वराणा-
मिन्द्रस्य विष्णोः सवितुर्विभोश्च ।।

भगस्य चन्द्रस्य दिवाकरस्य
पतेरपां साध्यगणस्य चैव।
धातुः पितॄणां च तथा महात्मा
रुद्रस्य राजन्सगणस्य चैव ।।

सरस्वत्याः सिद्धगणस्य चैव
पूष्णश्च ये चाप्यमरास्तथाऽन्ये।
पुण्यानि चाप्यायतनानि तेषां
ददर्श राजा सुमनोहराणि ।।

तेषूपवासान्विबुधानुपोष्य
दुत्त्वा च रत्नानि महान्ति राजा।
तीर्थेषु सर्वेषु परिप्लुताङ्गः
पुनः स शूर्पारकमाजगाम ।।

स तेन तीरेण तु सागरस्य
पुनः प्रयातः सह सोदरीयैः।
द्विजैः पृथिव्यां प्रथितं महद्भि-
स्तीर्थं प्रभासं समुपाजगाम ।।

तत्राभिषिक्तः पृथुलोहिताक्षः
सहानुजैर्देवगणान्पितॄंश्च।
संतर्पयामास तथैव कृष्णा
ते चापि विप्राः सह लोमशेन ।।

कस द्वादशाहं जलवायुभक्षः
कुर्वन्क्षपाहःसु तदाऽभिषेकम्।
समन्ततोऽग्नीनुपदीपयित्वा
तेपे तपो धर्मभृतांवरिष्ठः ।।

तमुग्रमास्थाय तपश्चरन्तं
शुश्राव रामश्च जनार्दनश्च।
तौ सर्ववृष्णिप्रवरौ ससैन्यौ
युधिष्ठिरं जग्मतुराजमीढम् ।।

ते वृष्णयः पाण्डुसुतान्समीक्ष्य
भूमौ शयानान्मलदिग्धगात्रान्।
अनर्हतीं द्रौपदीं चापि दृष्ट्वा
सुदुःखिताश्चुक्रुशुरार्तनादान् ।।

ततः स रामं च जनार्दनं च
कार्ष्णि च साम्बं च शिनेश्च पौत्रम्।
अन्यांश्च वृष्णीनुपगम्य पूजां
चक्रे यथाधर्ममहीनसत्वः ।।

ते चापि सर्वान्प्रतिपूज्य पार्थां-
स्तैः सत्कृताः पाण्डुसुतैस्तथैव।
युधिष्ठिरं संपरिवार्य राज-
न्नुपाविशन्देवगणा यथेन्द्रम् ।।

तेषां स सर्वं चरितं परेषां
वने च वासं परमप्रतीतः।
अस्त्रार्थमिन्द्रस्य गतं च पार्थं
कृष्णे शशंसामरराजसूनुम् ।।

श्रुत्वा तु ते तस्य वचः प्रतीता-
स्तांश्चापि दृष्ट्वा सुकृशनतीव।
नेत्रोद्भवं संमुमुचुर्महार्हा
दुःखार्तिजं वारि महानुभावाः ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि
एकोनविंशत्यधिकशततमोऽध्यायः ।। 119 ।।