आरण्यकपर्व

अध्यायः ११६

Aranyaka Parva (Sanskrit) · Adhyaya 116
अक्षर का आकार

वैशंपायन उवाच।

स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः।
तापसानां परं चक्रे सत्कारं भ्रातृभिः सह ।।

लोमशस्तस्य तान्सर्वानाचख्यौ तत्र तापसान्।
भृगूनङ्गिरसश्चैव वसिष्ठानथ काश्यपान् ।।

तान्समेत्य सा राजर्षिरभिवाद्य कृताञ्जलिः।
रामस्यानुचरं वीरमपृच्छदकृतव्रणम् ।।

कदा नु रामो भगवांस्तापसो दर्शयिष्यति।
तमहं तपसा युक्तं द्रष्टुमिच्छामि भार्गवम् ।।

अकृतव्रण उवाच।

आयानेवासि विदितो रामस्य विदितात्मनः।
प्रीतिस्त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति ।।

चतुर्दशीमष्टमीं च रामं पश्यन्ति तापसाः।
अस्यां रात्र्यां व्यतीतायां भवित्री श्वश्चतुर्दशी ।।

`ततो द्रक्ष्यसि रामं त्वं कृष्णाजिनजटाधरम्'।

युधिष्ठिर उवाच।

भवाननुगतो रामं जामदग्न्यं महाबलम्।
प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः ।।

स भवान्कथयत्वद्य यथा रामेण निर्जिताः।
आहवे क्षत्रियाः सर्वे कथं केन च हेतुना ।।

अकृतव्रण उवाच।

[हन्त ते कथयिष्यामि महदाख्यानमुत्तमम्।
भृगूणां राजशार्दूल वंशे जातस्य भारत ।।

रामस्य जामदग्न्यस्य चरितं देवसंमितम्।
हैहयाधिपतेश्चैव कार्तवीर्यस् भारत ।।

रामेण चार्जुनो नाम हैहयाधिपतिर्हतिः।
तस्य बाहुशतान्यासंस्त्रीणि सप्त च पाण्डव ।।

दत्तात्रेयप्रसादेन विमानं काञ्चनं तथा।
ऐश्वर्यं सर्वभूतेषु पृथिव्यां पृथिवीपते ।।

अव्घाहतगतिश्चैव रथस्तस्य महात्मनः।
रथेन तेन तु सदावरदानेन वीर्यवान् ।।

ममर्द देवान्यक्षांश्च ऋषींश्चैव समन्ततः।
भूतांश्चैव स सर्वांस्तु पीडयामास सर्वतः ।।

ततो देवाः समेत्याहुर्ऋषयश्च महाव्रताः।
देवदेवं सुरारिघ्नं विष्णुं सत्यपराक्रमम्।
भगवन्भूतरार्थमर्जुनं जहि वै प्रभो ।।

विमानेन च दिव्येन हैहयाधिपतिः प्रभुः।
शचीसहायं क्रीडन्तं धर्षयामास वासवम् ।।

ततस्तु भगवान्देवः शक्रेण सहितस्तदा।
कार्तवीर्यविनाशार्थं मन्त्रयामास भारत ।।

यत्तद्भूतहितं कार्यं सुरेन्द्रेण निवेदितम्।
संप्रतिश्रुत्य तत्सर्वं भगवाँल्लोकपूजितः।
जगाम बदरीं रम्यां स्वमेवाश्रममण्डलम् ।।

एतस्मिन्नेव काले तु पृथिव्यां पृथिवीपतिः।]
कान्यकुब्जे महानासीत्पार्थिवः सुमहाबलः।
गाधीति विश्रुतो लोके वनवासं जगाम ह ।।

वने तु तस्य वसतः कन्या जज्ञेऽप्सरःसमा।
ऋचीको भार्गवस्तां च वरयामास भारत ।।

तमुवाच ततो गाधिर्ब्राह्मणं संशितव्रतम्।
उचितं नः कुले किंचित्पूर्वैर्यत्संप्रवर्तितम् ।।

एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम्।
सहस्रं वाजिनां शुक्लमिति विद्धि द्विजोत्तम ।।

न चापि भगवान्वाच्योदीयतामिति भार्गव।
देया मे दुहिता चैव त्वद्विधाय महात्मने ।।

ऋचीक उवाच।

एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम्।
दास्याम्यश्वसहस्रं ते मम भार्या सुताऽस्तु ते ।।

`गाधिरुवाच।

ददास्यश्वसहस्रं मे तव भार्या सुताऽस्तु मे' ।।

अकृतव्रण उवाच।

स तथेति प्रतिज्ञाय राजन्वरुणमब्रवीत्।
एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम्।
सहस्रं वाजिनामेकं शुल्कार्थं प्रतिदीयताम् ।।

तस्मै प्रादात्सहस्रं वै वाजिनां वरुणस्तदा।
तदश्वतीर्थं विख्यातमुत्थिता यत्र ते हयाः ।।

गङ्गायां कान्यकुब्जे वै ददौ सत्यवतीं तदा।
ततो गाधिः सुतां चास्मै जन्याश्चासन्सुरास्तदा ।।

लब्धं हयसहस्रं तु तां च दृष्ट्वा दिवौकसः।
`विस्मयं परमं जग्मुस्तमेव दिवि संस्तुवन्' ।।

धर्मेण लब्ध्वा तां भार्यामृचीको द्विजसत्तमः।
यथाकामं यथाजोषं तया रेमे सुमध्यया ।।

तं विवाहे कृतेराजन्सभार्यमवलोककः।
आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च ।।

भार्यापती तमासीनं भृगुं सुरगणार्चितम्।
अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस्तदा ।।

ततः स्नुषां स भगवान्प्रहृष्टो भृगुरब्रवीत्।
वरं वृणीष्व सुभगे दाता ह्यस्मि तवेप्सितम् ।।

सा वै प्रसादयाभास तं गुरुं पुत्रकारणात्।
आत्मनश्चैव मातुश्च प्रसादं च चकार सः ।।

भृगुरुवाच।

ऋतौ त्वं चैव माता च स्नाते पुंसवनाय वै।
आलिङ्गेतां पृथग्वृक्षौ साऽस्वत्थं त्वमुदुम्बरम् ।।

चरुद्वयमिदं भद्रे जनन्याश्च तवैव च।
विश्वमावर्तयित्वा तु मया यत्नेन साधितम् ।।

प्राशितव्यं प्रयत्नेन तेत्युक्त्वाऽदर्शनं गतः।
आलिङ्गने चरौ चैव चक्रतुस्ते विपर्ययम् ।।

ततः पुन स भगवान्काले बहुतिथे गते।
दिव्यज्ञानाद्विदित्वा तु भगवानागतः पुनः ।।

अथोवाच महातेजा भृगुः सत्यवतीं श्नुषाम् ।।

उपयुक्तश्चरुर्भद्रे वृक्षे चालिङ्गनं कृतम्।
विपरीतेन ते सुभ्रूर्मात्रा चैवासि वञ्चिता ।।

क्षत्रियो ब्राह्मणाचारो मातुस्तव सुतो महान्।
भविष्यति महावीर्यः साधूनां मार्गमास्थितः ।।

ततः प्रसादयामास श्वशुरं सा पुनःपुनः।
न मे पुत्रो भवेदीदृक्कामं पौत्रो भवेदिति ।।

एवमस्त्विति सा तेन पाण्डव प्रतिनन्दिता।
क्रालं प्रतीक्षती गर्भं धारयामास यत्नतः ।।

जमदग्निं ततः पुत्रं जज्ञे सा काल आगते।
तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम् ।।

स वर्धमानस्तेजस्वी वेदस्याध्ययनेन च।
बहूनृषीन्महातेजाः पाण्डवेयात्यवर्तत ।।

तं तु कृत्स्नो धनुर्वेदः प्रत्यभाद्भरतर्षभ।
चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि षोडशाधिकशततमोऽध्यायः ।। 116 ।।