आरण्यकपर्व
अध्यायः ११३
ऋश्यशृङ्ग उवाच।
इहागतो जटिलो ब्रह्मचारी
न वै ह्रस्वो नातिदीर्घो मनस्वी।
सुवर्णवर्णः कमलायताक्षः
सुतः सुराणामवि शोभमानः ।।
समृद्धरूपः सवितेव दीप्तः
सुश्लक्ष्णवाक्कृष्णतारश्चकोरात्।
नीलाः प्रसन्नाश्च जटाः सुगन्धा
हिरण्यरज्जुग्रथिताः सुदीर्घाः ।।
आधारभूतः पुनरस्य कण्ठे
विभ्राजते विद्युदिवान्तरिक्षे।
द्वौ चास् पिण्डावधरेण कण्ठा-
दजातरोमौ सुमनोहरौ च ।।
विलग्नमध्यश्च स नाभिदेशे
कटिश्च तस्यातिकृतप्रमाणा।
तथाऽस् चीरान्तरतः प्रभाति
हिरण्मयी मेखला मे यथेयम् ।।
अन्यच्च तस्याद्भुतदर्शनीयं
विकूजितं पादयोः संप्रभाति।
पाण्योश्च तद्वत्स्वनवन्निबद्धौ
कलापकावक्षमाला यथेयम् ।।
विचेष्टमानस्य च तस्य तानि
कूजन्ति हंसाः सरसीव मत्ताः।
चीराणि तस्याद्भुतदर्शनानि
नेमानि तद्वन्मम रूपवन्ति ।।
वक्रं च तस्याद्भुतदर्सनीयं
प्रव्याहृतं ह्लादयतीव चेतः।
पिंस्कोकिलस्येव च तस्य वाणि
तां शृण्वतो मे व्यथितोऽन्तरात्मा ।।
यथा वनं माधवमासिमध्ये
समीरीतं श्वसनेनेव भाति।
तथा स भात्युत्तमपुण्यगन्धी
निषेव्यमाणः पवनेन तात ।।
सुसंवताश्चापि जटा विभक्ता
द्वैधीकृता भातिललाटदेशे।
कर्णौ च चित्रैरिव चक्रवाकैः
समावृतौ तस्य सुरूपवद्भिः ।।
तथा फलं वृत्तमथो विचित्रं
समाहतं पाणिना दक्षिणेन।
तद्भूमिमासाद्य पुनःपुनश्च
समुत्पतत्यद्भुतरूपमुच्चैः ।।
तच्चाभिहत्वा परिवर्ततेऽसौ
वातेरितो वृक्ष इवावघूर्णम्।
तं प्रेक्षतः पुत्रमिवामराणां
प्रीतिः परा तात रतिश्च जाता ।।
स मे समाश्लिष्य पुनः शरीरं
जटासु गृह्याभ्यवनाम्य वक्रम्।
वक्रेण वक्रं प्रणिधाय शब्दं
चकार तन्मेऽजनयत्प्रहर्षम् ।।
न चापि पाद्यं बहुमन्यतेऽसौ
फलानि चेमानि मया हृतानि।
एवंव्रतोस्मीति च मामवोच-
त्फलानि चान्यानि नवान्यदान्मे ।।
मयोपयुक्तानि फलानि यानि
नेमानि तुल्यानि रसेन तेषाम्।
न चापि तेषां त्वगियं यथैषां
साराणि नैषामिव सन्ति तेषाम् ।।
तोयानि चैवातिरसानि मह्यं
प्रादात्म वै पातुमुदाररूपः।
पीत्वैव यान्यभ्यधिकः प्रहर्षो
ममाभवद्भूश्चलितेव चासीत् ।।
इमानि चित्राणि च गन्धवन्ति
माल्यानि तस्योद्ग्रथितानि पट्टैः।
यानि प्रकीर्येह गतः स्वमेव
स आश्रमं तपसा द्योतमानः ।।
गतेन तेनास्मिकृतो विचेता
गात्रं च मे संपरिदह्यतीव।
इच्छामि तस्यान्तिकमाशु गन्तुं
तं चेह नित्यं परिवर्तमानम् ।।
गच्छामि तस्यान्तिकमेव तात
का नाम सा ब्रह्मचर्या च तस्य।
इच्छाम्यहं चरितुं तेन सार्धं
यथा तपः स चरत्यार्यधर्मा ।।
चर्तुं तथेच्छा हृदये ममास्ति
दुनोति चित्तं यदि तं न पश्ये ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि
त्रयोदशाधिकशततमोऽध्यायः ।। 113 ।।