आरण्यकपर्व
अध्यायः १०७
लोमश उवाच।
*तेतं दृष्ट्वा हयं राजन्संप्रहृष्टतनूरुहाः।
अनादृत् महात्मानं कपिलं कालचोदिताः ।।
संफुद्धाः संप्रधावन्त वाजिग्रहणकाङ्क्षिणः।
ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः ।।
वासुदेवेति यं प्राहुः कपिलं मुनिपुङ्गवम्।
स चक्षुर्विकतं कृत्वा तेजस्तेषु समुत्सृजन् ।।
ददाह सुमहातेजा मन्दबुद्धीन्स सागरान्।
षष्टिं रतानि सहस्राणि युगपन्मुनिसत्तमः ।।
तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः।
सगरान्तिकमागत्य तच्च तस्मै न्यवेदयत् ।।
स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम्।
महूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत् ।।
`स पुत्रनिधनोत्थेन दुःखेन समभिप्लुतः।
आत्मानमात्मनाऽऽश्वास्य हयमेवान्वचिन्तयत्' ।।
अशुमन्तं समाहूय असमञ्जसुतं तदा।
पौत्रं भरतशार्दूल इदं वचनमब्रवीत् ।।
षष्टिस्तात सहस्राणि पुत्राणाममितौजसाम्।
कापिलं तेज आसाद्य मत्कृतेनिधनं गताः ।।
तव चापि पिता तात परित्यक्तो मयाऽनघ।
धर्मं संरक्षमाणेन पौराणां हितमिच्छता ।।
युधिष्ठिर उवाच।
किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम्।
त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन ।।
लोमश उवाच।
असमञ्ज इति ख्यातः सगरस्य सुतो ह्यभूत्।
यं शैव्या जनयामास पौराणां स हि दारकान् ।।
`क्रीडतः सहसाऽऽसाद्य तत्रतत्र महीपते'।
चूडासु क्रोशतो गृह्यनद्यां चिक्षेप दुर्बलान् ।।
ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः।
सगरं चाभ्यभाषन्त सर्वे प्राञ्जलयः स्थिताः ।।
त्वं नस्त्राता महाराज परचक्रादिभिर्भयात्।
असमञ्जभयाद्धोरात्ततो नस्त्रातुनर्हसि ।।
पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः।
मुहूर्तं विमना भूत्वासचिवानिदमब्रवीत् ।।
असमञ्ज पुरादद्य सुतो मे विप्रवास्यताम्।
यदि वो मत्प्रियं कार्यमेतच्छीध्रं विधीयताम् ।।
एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप।
यथोक्तं त्वरिताश्चक्रुर्यथाऽऽज्ञापितवान्नृपः ।।
एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मना।
पौराणां हितकामेन सगरेण विवासितः ।।
अंशुमांस्तु महेष्वासो यदुक्तः सगरेण हि।
तत्ते सर्वंप्रवक्ष्यामि कीर्त्यमानं निबोध मे ।।
सगर उवाच।
पितुश् तेऽहंत्यागेन पुत्राणां निधनेन च।
अलाभेन तथाऽश्वस् परितप्यामि पुत्रक ।।
तस्माद्दुःखाभिसंतप्तं यज्ञविघ्नाच्च मोहितम्।
हयस्यानयनात्पौत्र नरकान्मां समुद्धर ।।
लोमश उवाच।
अंशुमानेवमुक्तस्तु सगरण महात्मना।
जगाम दुःखात्तं देशं यत्रवै दारिता मही ।।
स तु तेनैव मार्गेण समुद्रं प्रविवेश ह।
अपश्यच्च महात्मानं कपिलं तुरगं च तम् ।।
स दृष्ट्वा तेजसो राशिं पुराणमृपिसत्तमम्।
प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत् ।।
ततः प्रीतो महाराज कपिलोंऽशुमतोऽभवत्।
उवाच चैनं धर्मात्मा वरदोस्मीति भारत ।।
स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात्।
द्वितीयमुदकं वव्रे पितॄणां पावनेच्छया ।।
तमुवाच महातेजाः कपिलो मुनिपुङ्गवः।
ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ ।।
त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम्।
त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता ।।
तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः।
`शलभत्वं गता ये ते मम क्रोधहुताशने' ।।
पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति।
पावनार्थं सागराणां तोषयित्वा महेश्वरम् ।।
हयं नयस्व भद्रं ते याज्ञिं नरपुङ्गव।
यज्ञः समाप्यतां तात सगरस्य महात्मनः ।।
अंशुमानेवमुक्तस्तु कपिलेन महात्मना।
आजगाम हयं गृह्य यज्ञवाटं महात्मनः ।।
सोभिवाद्य ततः पादौ सगरस्य महात्मनः।
मूर्ध्नि तनाप्युपाघ्रातस्तस्मै सर्वंनय्वेदयत् ।।
यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा।
तं चास्मै हयमाचष्ट यज्ञवाटमुपागतम् ।।
तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत्।
अंशुमन्तं च संपूज्यसमापयत तं क्रतुम् ।।
समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः।
पुत्रत्वे कल्पयामास समुद्रं वरुणालयम् ।।
प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः।
पौत्रे भारं समवेश्य जगाम त्रिदिवं तदा ।।
अंशुमानपि धर्मात्मा महीं सागरमेखलाम्।
प्रशशास महाराज यथैवास् पितामहः ।।
तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित्।
तस्मिन्राज्यं समाधाय अंशुमानपि संस्थितः ।।
दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत्।
पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत् ।।
गङ्गावतरणए यत्नं सुमहच्चाकरोन्नृपः।
न चावतारयामास चेष्टमानो यथाबलम् ।।
तस् पुत्र समभवच्छ्रीमान्धर्मपराणः।
भगीरथ इति ख्यातः सत्यवागनसूयकः ।।
अभिषिच्य तु तं राज्येदिलीपो वनमाश्रितः ।।
तपः सिद्धिसमायोगात्स राजा भरतर्षभ।
वनाज्जगाम त्रिदिवं कालयोगेन भारत ।।
ते तं दृष्ट्वा हयं राजन्संप्रहृष्टतनूरुहाः।
अनादृत्य महात्मानं कपिलं कालचोदिताः।
संक्रुद्धाः समधावन्त कपिलं हन्तुमुद्यताः ।।
तान्दृष्ट्वा हन्तुमुद्युक्तान्कपिलो रोपमूर्च्छितः।
सगरस्यात्मजान्सर्वान्ददाह क्षणतो नृप ।।
तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः।
सगरान्तिकमागन्य तच्च तस्मै न्यवेदयत् ।।
एतच्छ्रुत्वा वचो राजा घोरं मुनिमुखोद्गतम्।
मुहूर्तं विमना भूत्वास्थाणोर्वाक्यमचिन्तयत् ।।
अशुमन्तं प्रेपयित्वा हयमानाय्य यत्नतः।
यज्ञं समाप्य विधिवन्सगरो भृशदुःखितः।
कृत्वांऽशुमति तद्राज्यं वनमेवान्वपद्यत ।।
अशुमानकरोद्राज्यं प्रजा धर्मेण रञ्जयन्।
दिलीपे राज्यमाधाय वनमेवान्वपद्यत ।।
दिलीपोपि महाराज चिरं राज्यमकारयत् ।।
तस् पुत्रो महीपाल भगीरथ इति श्रुतः।
धर्मज्ञश्च कृतज्ञश्च प्रजानामनुरञ्जकः ।।
पितरि स्वर्गते राजन्दिलीपे पुण्यशालिनि।
भगीरथो महानासीद्राजा परमधार्मिकः ।।
स चिरं तप आतिष्ठछन्महादेवप्रसादतः।
ऊर्ध्ववाहुर्निरालम्बः पादाङ्गुष्ठाश्रितावनिः ।।
वायुभक्षो निराहारो भक्तियुक्तेन चेतसा।
तत आविरभूद्देवः पिनाकी वृपभध्वजः ।।
परंब्रह्म परं धाम परमात्मा सनातनः।
आनादिमध्यनिधनः शङ्करः सर्वपूजितः ।।
भगीरथोपि तं दृष्ट्वा भगवान्तमुमापतिम्।
प्रणिपत्य महादेवमस्तौषीद्धिविधैः स्तवैः ।।
स्तुत्वा च विविधै स्तोत्रैः कृताञ्जलिपुटो नृपः।
अयाचत वरं देवं गङ्गाया धारणं प्रति ।।
भगवंस्तपसा तुष्टोब्रह्मा मे स्वर्गवासिनीम्।
गङ्गां संप्रेषयामीति ददौ वरमनुत्तमम् ।।
तां वै धारयितुं शक्तं नान्यं पश्यामि शूलिनः।
तं तोषय महाराजेत्पेवमुक्त्या दिवं गतः ।।
भवत्प्रसादसिद्ध्यर्थं तपस्तप्तं मया विभो।
भवता धृतया देव गङ्गया पूतया मम।
पितामहाश्च लोकाश्च सर्वे सद्भतिमाप्नुयुः ।।
एवंसंप्रार्थितो देवस्तथा चक्रे महेश्वरः ।।
ब्रह्मणा समनुज्ञता गङ्गाऽपिक्रोधमूर्च्छिता।
विशाम्यहं तु पातालं स्रोतसा गृह्य शङ्करम् ।।
इत्याग्रहान्महाराज शिवे शिवशिरस्युत।
पतित्वा तव वभ्राम वहन्वर्पान्विमोहिता।
तृणेऽवश्यायकणिका यथा तद्वत्स्थिताक्वचित् ।।
तामदृष्ट्वाऽथ भूपालस्तोपयामास शङ्करम्।
पुनश्च व्यसृजद्देवो गङ्गां वै गूहितां नृप ।।
प्रणिपत्य महादेवं पुरा राजा भगीरथः।
पितॄनाप्लावयामास सागरं चाप्यपूरयत् ।।
तेऽपि स्वर्गं गता राजन्सगरस्यात्मजाः क्षणात्।
पितृभ्यश्चोदकं तत्रददौ पूर्णमनोरथः ।।
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि।
एवं स सागरो राजन्पूरितोऽगस्त्यदूपितः ।।
जगाम दुःखात्तं देशं यत्रवै दारिता मही ।।