आरण्यकपर्व

अध्यायः १०३

Aranyaka Parva (Sanskrit) · Adhyaya 103
अक्षर का आकार

युधिष्ठिर उवाच।

किमर्थं सहसा विन्ध्यः प्रवृद्धः क्रोधमूर्च्छितः।
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने ।।

लोमश उवाच।

अद्रिराजं महाघोरं रमेरुं कनकपर्वतम्।
उदयास्तमने भानुः प्रदक्षिणमवर्तत ।।

तं तु दृष्ट्वा तथा विन्ध्य शैलः सूर्यमथाब्रवीत्।
यथा हि मेरुर्भवता नित्यशः परिगम्यते ।।

प्रदक्षिणश्च क्रियते मामेवं करु भास्कर।
एवमुक्तस्ततः सूर्यः शैलेन्द्रं प्रत्यभापत ।।

नाहमात्मेच्छया शैल करोम्येनं प्रदक्षिणम्।
एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत् ।।

एवमुक्तस्ततः क्रोधात्प्रवृद्धः सहसाऽचलः।
सूर्याचन्द्रमसोर्मार्गं रोद्धुमिच्छन्परंतप ।।

ततो देवाः सहिताः सर्व एव।
सेन्द्राः समागम्य महाद्रिराजम्।
निवारयामासुरुपायतस्तं
न च स्म तेषां वचनं चकार ।।

अथाभिजग्मुर्मुनिमाश्रमस्थं
तपस्विनं धर्मभृतां वरिष्ठम्।
अगस्त्यमत्यद्भुतवीर्यदीप्तं
तं चार्थमूचुः सहिताः सुरास्ते ।।

सूर्याचन्दर्मसोर्मार्गं नक्षत्राणां गतिं तथा।
शैलराजो वृणोत्येप विन्ध्यः क्रोधवशानुगः ।।

तं निवारयितुं शक्तो नान्यः कश्चिद्द्विजोत्तम।
ऋते त्वां हि महाभाग तस्मादेनं निवारय ।।

तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात्।
सोभिगम्याब्रवीद्विन्ध्यं सदारः समुपस्थितः ।।

मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम।
दक्षिणामभिगन्तास्मि दिशे कार्येण केनचित् ।।

यावदागमनं मह्यं तावत्त्वं प्रतिपालय।
निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः ।।

एवं स समयं कृत्वाविन्ध्येनामित्रकर्शन।
अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते ।।

विन्ध्योऽपितद्भयाद्राजन्कुञ्चिताङ्गो न वर्धते।
अगस्त्यस्य प्रभावेण यन्मां त्वं परिपृच्छसि ।।

कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः।
अगस्त्याद्वरमासाद्य तन्मे निगदतः शृणु ।।

त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत्।
किमर्थमभियाता स्थ वरं मत्तः कमिच्छथ ।।

एवमुक्तास्ततस्तेन देवता मुनिमब्रुवन्।
`सर्वे प्राञ्जलयो भूत्वा पुरन्दरपुरोगमाः' ।।

एवं त्वयोच्छाम कृतं हि कार्यं
महार्णवं पीयमानं महात्मन्।
ततो वधिष्याम सहानुबन्धा-
न्कालोपसृष्टान्सुरविद्विषस्तान् ।।

त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत्।
करिष्ये भवतां कामं लोकानां च महत्सुखम् ।।

एवमुक्त्वा ततोऽगच्छत्समुद्रं सरितांपतिम्।
ऋषिभिश्च तपःसिद्धै सार्धं देवैश्च सुव्रत ।।

मनुष्योरगगन्धर्वयक्षकिंपुरुषास्तथा।
अनुजग्मुर्महात्मानं द्रष्टुकानास्तदद्भुतम् ।।

ततोऽभ्यगच्छन्सहिताः समुद्रं भीमनिःखनम्।
नृत्यन्तमिव चोर्मीभिर्वल्गन्तमिव वायुना ।।

हसन्तमिव फेनौघैः स्खलन्तं कन्दरेषु च।
तानाग्राहसमाकीर्णं नानाद्विजगणान्वितम् ।।

अगस्त्यसहिता देवाः सगन्धर्वमहारगाः।
ऋषयश्च महाभागाः समासेदुर्महोदधिम् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्तयात्रापर्वणि त्र्यधिकशततमोऽध्यायः ।। 103 ।।