अनुशासनपर्व

अध्यायः ४७

Anusasana Parva (Sanskrit) · Adhyaya 47
अक्षर का आकार

उपमन्युरुवाच।

ऋषिरासीत्कृते तात तण्डिरित्येव विश्रुतः।
दशवर्षसहस्राणि तेन देवः समाधिना।।

आराधितोऽभूद्भक्तेन तस्योदर्कं निशामय।
स दृष्टवान्महादेवमस्तौषीच्च स्तवैर्विभुम्।।

[इति तण्डिस्तपोयोगात्परमात्मानमव्ययम्।
चिन्तयित्वा महात्मानमिदमाह सुविस्मितः।।

यं पठन्ति सदा साङ्ख्याश्चिन्तयन्ति च योगिनः।
परं प्रधानं पुरुषमधिष्ठातारमीश्वरम्।

उत्पत्तौ च विनाशे च कारणं यं विदुर्बुधाः।
देवासुरमुनीनां च परं यस्मान्न विद्यते।।

अजं तमहमीशानमनादिनिधनं प्रभुम्।
अत्यन्तसुखिनं देवमनघं शरणं व्रजे।।

एवं ब्रुवन्नेव तदा ददर्श तपसान्निधिम्।
तमव्ययमनौपम्यमचिन्त्यं शाश्वतं ध्रुवम्।।

निष्कलं सकलं ब्रह्म निर्गुणं गुणगोचरम्।
योगिनां परमानन्दमक्षरं मोक्षसंज्ञितम्।।

मनोरिन्द्राग्निमरुतां विश्वस्य ब्रह्मणो गतिम्‌।
अग्राह्यमचलं शुद्धं बुद्धिग्राह्यं मनोमयम्।।

दुर्विज्ञेयमसङ्ख्ये दुष्प्रापमकृतात्मभिः।
योनि विश्वस्य जगतस्तमसः परतः परम्।।

यः प्राणवन्तमात्मानं ज्योतिर्जीवस्थितं मनः।
तं देवं दर्शनाकाङ्क्षी बहून्वर्षगणानृषिः।
तपस्युग्रे स्थितो भूत्वा दृष्ट्वा तुष्टाव चेश्वरम्।।]

तण्डिरुवाच।

पवित्राणां पवित्रस्त्वं गतिर्गतिमतांवर।।

अत्युग्रं तेजसां तेजस्तपसां परमं तपः।
विश्वावसुहिरण्याक्षपुरुहूतनमस्तृत।।

भूरिकल्याणद विभो परं सत्यं नमोस्तु ते।
जातीमरणभीरूणां यतीनां यततां विभो।।

निर्वाणद सहस्रांशो नमस्तेऽस्तु सुखाश्रय।
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः।।

न विदुस्त्वां तु तत्त्वेन कुतो वेत्स्यामहे वयम्।
त्वत्तः प्रवर्तते सर्वं त्वयि सर्वं प्रतिष्ठितम्।।

कालाख्यः पुरुषाख्यश्च ब्रह्माख्यश्च त्वमेव हि।
तनवस्ते स्मृतास्तिस्रः पुराणज्ञैः सुरर्षिभिः।।

अधिपौरुषमध्यात्ममधिभूताधिदैवतम्।
अधिलोकाधिविज्ञानमधियज्ञस्त्वमेव हि।।

त्वां विदित्वाऽऽत्मदेवस्थं दुर्विदं दैवतैरपि।
विद्वांसो यान्ति निर्मुक्ताः परं भावमनामयम्।।

अनिच्छतस्तव विभो जन्ममृत्युरनेकतः।
द्वारं तु स्वर्गमोक्षाणामाक्षेप्ता त्वं ददासि च।।

त्वं वै स्वर्गश्च मोक्षश्च कामः क्रोधस्त्वमेव च।
सत्वं रजस्ममश्चैव अधश्चोर्ध्वं त्वमेव हि।।

ब्रह्मा भवश्च विष्णुश्च स्कन्देन्द्रौ सविता यमः।
वरुणेन्दू मनुर्धाता विधाता त्वं धनेश्वरः।।

भूर्वायुः सलिलाग्निश्च खं वाग्बुद्धिः स्थितिर्मतिः।
कर्म सत्यानृते चोभे त्वमेवास्ति च नास्ति च।।

इन्द्रियाणीन्द्रियार्थाश्च प्रकृतिभ्यः परं ध्रुवम्।
विश्वाविश्वपरो भावश्चिन्त्याचिन्त्यस्त्वमेव हि।।

यच्चैतत्परमं ब्रह्म यच्च तत्परमं पदम्।
या गतिः साङ्ख्ययोगानां स भवान्नात्र संशयः।।

नूनमद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम्।
यां गतिं प्रार्तयन्तीह ज्ञाननिर्मलबुद्धयः।।

अयो मूढाः स्म सुचिरमिमं कालमचेतसा।
यन्न विद्मः परं देवं शाश्वतं यं विदुर्बुधाः।।

सेयमासादिता साक्षात्त्वद्भक्तिर्जन्मभिर्मया।
भक्तानुग्रहकृद्देवो यं ज्ञात्वाऽमृतमश्नुते।।

देवासुरमुनीनां तु यच्च गुह्यं सनातनम्।
गुहायां निहितं ब्रह्मि दुर्विज्ञेयं मुनेरपि।।

स एष भगवान्देवः सर्वकृत्सर्वतोमुखः।
सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता।।

देहकृद्देहभृद्देही देहभुग्देहिनां गतिः।
प्राणकृत्प्राणभृत्प्राणी प्राणदः प्राणिनां गतिः।।

अध्यात्मगतिरिष्टानां ध्यायिनामात्मवेदिनाम्।
अपुनर्भवकामानां या गतिः सोऽयमीश्वरः।।

अयं च सर्वभूतानां शुभाशुभगतिप्रदः।
अयं च जन्ममरणे विदध्यात्सर्वजन्तुषु।
अयं संसिद्धिकामानां या गतिः सोयमीस्वरः।

भूराद्यान्सर्वभुवनानुत्पाद्य सदिवौकसः।
दधाति देवस्तनुभिरष्टाभिर्यो बिभर्ति च।।

अतः प्रवर्तते सर्वमस्मिन्सर्वं प्रतिष्ठितम्।
अस्मिंश्च प्रलयं याति अयमेकः सनातनः।।

अयं स सत्यकामानां सत्यलोकः परं सताम्।
अपवर्गश्च मुक्तानां कैवल्यं चात्मवेदिनाम्।।

अयं ब्रह्मादिभिः सिद्धैर्गुहायां गोपितः प्रुभुः।
देवासुरमनुष्याणामप्रकाशो भवेदिति।।

तं त्वां देवासुरनरास्तत्त्वेन न विदुर्भवम्।
मोहिताः खल्वनेनैव हृदिस्थेनाप्रकाशिना

ये चैनं प्रतिपद्यन्ते भक्तियोगेन भाविताः।
तेषामेवात्मनात्मानं दर्शयत्येष हृच्छयः।।

यं ज्ञात्वा न पुनर्जन्म मरणं चापि विद्यते।
यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते।।

यं लब्ध्वा परमं लाभं नाधिकं मन्यते बुधः।
यां सूक्ष्मां परमां प्राप्तिं गच्छन्नव्ययमक्षयम्।।

यं साङ्ख्या गुणतत्त्वज्ञाः साङ्ख्यशास्त्रविशारदाः।
सूक्ष्मज्ञानतराः सूक्ष्मं ज्ञात्वा मुच्यन्ति बन्धनैः

यं च वेदविदो वेद्यं वेदान्ते च प्रतिष्ठितम्।
प्राणायामपरा नित्यं यं विशन्ति जपन्ति च।।

ओंकाररथमारुह्य ते विशन्ति महेश्वरम्।
अयं स देवयानानामादित्यो द्वारमुच्यते।।

अयं च पितृयानानां चन्द्रमा द्वारमुच्यते।
एष काष्ठा दिशश्चैव संवत्सरयुगादि च।।

दिव्यादिव्यः परो लाभ अयने दक्षिणोत्तरे।
एनं प्रजापतिः पूर्वमाराध्य बहुभिः स्तवैः।।

प्रजार्थं वरयामास नीललोहितसंज्ञितम्।
क्रग्भिर्यमनुशासन्ति तत्त्वे कर्मणि बह्वृचाः।।

यजुर्भिर्यत्त्रिधा वेद्यं जुह्वत्यध्वर्यवोऽध्वरे।
सामभिर्यं च गायन्ति सामगाः शुद्धबुद्धयः।।

ऋतं सत्यं परं ब्रह्म स्तुवन्त्याथर्वणा द्विजाः।
यज्ञस्य परमा योनिः परिश्चायं परः स्मृतः।।

रात्र्यहः श्रोत्रनयनः पक्षमासशिरोभुजः।
ऋतुवीर्यस्तपोधैर्यो ह्यब्दगुह्योरुपादवान्।।

मृत्युर्यमो हुताशश्च कालः संहारवेगवान्।
कालस्य परमा योनिः कालश्चायं सनातनः।।

चन्द्रादित्यौ सनक्षत्रौ ग्रहाश्च सह वायुना।
ध्रुवः सप्तर्षयश्चैव भुवनाः सप्त एव च।।

प्रधानं महदव्यक्तं विशेषान्तं सवैकृतम्।
ब्रह्मादिस्तम्बपर्यन्तं भूतादि सदसच्च यत्।।

अष्टौ प्रकृतयश्चैव प्रकृतिभ्यश्च यः परः।
अस्य देवस्य यद्भागं कृत्स्नं सम्परिवर्तते।।

एतत्परममानन्दं यत्तच्छाश्वतमेव च।
एषा गतिर्विरक्तानामेष भावः परः सताम्।।

एतत्पदमनुद्विग्नमेतद्ब्रह्म सनातनम्।
शास्त्रवेदाङ्गविदुषामेतद्ध्यानं परं पदम्।।

इयं सा परमा काष्ठा इयं सा परमा कला।
इयं सा परमा सिद्धिरियं सा परमा गतिः।।

इयं सा परमा शान्तिरियं सा निर्वृतिः परा।
यं प्राप्य कृतकृत्याः स्म इत्यमन्यन्त योगिनः।।

इयं तुष्टिरियं सिद्धिरियं श्रुतिरियं स्मृतिः।
अध्यात्मगतिरिष्टानां विदुषां प्राप्तिरव्यया।।

यजतां कामयानानां मखैर्विपुलदक्षिणैः।
या गतिर्यज्ञशीलानां सा गतिस्त्वं न संशयः।।

सम्यग्योगजपैः शान्तिर्नियमैर्देहतापनैः।
तप्यतां या गतिर्देव परमा सा गतिर्भवान्।।

कर्मन्यासकृतानां च विरक्तानां ततस्ततः।
या गतिर्ब्रह्मिसदने सा गतिस्त्वं सनातन।।

अपुनर्भवकामानां वैराग्ये वर्ततां च या।
प्रकृतीनां लयानां च सा गतिस्त्वं सनातन।।

ज्ञानविज्ञानयुक्तानां निरुपाख्या निरञ्जना।
कैवल्या या गतिर्देव परमा सा गतिर्भवान्।।

वेदशास्त्रपुराणोक्ताः पञ्च ता गतयः स्मृताः।
त्वत्प्रसादाद्धि लभ्यन्ते न लभ्यन्तेऽन्यथा विभो।।

इति तण्डिस्तपोराशिस्तुष्टावेसानमात्मना।
जगौ च परमं ब्रह्म यत्पुरा लोककृज्जगौ।।

उपमन्युरुवाच।

एवं स्तुतो महादेवस्तण्डिना ब्रह्मवादिना।
उवाच भगवान्देव उमया सहितः प्रभुः।।

ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः।
न विदुस्त्वामिति ततस्तुष्टः प्रोवाच तं शिवः।।

अक्षयश्चाव्ययश्चैव भविता दुःखवर्जितः।
यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः।।

ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव।
मत्प्रसादाद्द्विजश्रेष्ठ भविष्यति न संशयः।।

कं वा कामं ददाम्यद्य ब्रूहि यद्वत्स काङ्क्षसे।
प्राञ्जलिः स उवाचेदं त्वयि भक्तिर्दृढाऽस्तु मे।।

उपमन्युरुवाच।

एतान्दत्त्वा वरान्देवो वन्द्यमानः सुरर्षिभिः।
स्तूयमानश्च विबुधैस्तत्रैवान्तरधीयत।।

अन्तर्हिते भगवति सानुगे यादवेश्वर।
ऋषिराश्रममागम्य ममैतत्प्रोक्तवानिह।।

यानि च प्रथितान्यादौ तण्डिराख्यातवान्मम
मानानि मानवश्रेष्ठ तानि त्वं शृणु सिद्धये।।

दश नामसहस्राणि देवेष्वाह पितामहः।
सर्वस्य शास्त्रेषु तथा दश नामशतानि च।।

गुह्यानीमानि नामानि तण्डिर्भगवतोऽच्युत।
देवप्रसादाद्देवेशः पुरा प्राह महात्मने।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि सप्तचत्वारिंशोऽध्यायः।। 47 ।।