अनुशासनपर्व
अध्यायः २२५
उमोवाच।
भगवन्भगनेत्रघ्न मानुषाणां विचेष्टितम्।
सर्वमात्मकृतं चेति श्रुतं मे भगवन्मतम्।।
लोके ग्रहकृतं सर्वं मत्वा कर्म शुभाशुभम्।
तदेव ग्रहनक्षत्रं प्रायशः पर्युपासते।
एष मे संशयो देव तं मे त्वं छेत्तुमर्हसि।।
महेश्वर उवाच।
स्थाने संशयितं देवि शृणु तत्वविनिश्चयम्।।
नक्षत्राणि ग्रहाश्चैव शुभाशुभनिवेदकाः।
मानवानां महाभागे न तु कर्मकराः स्वयम्।।
प्रजानां तु हितार्थाय शुभाशुभविधिं प्रति।
अनागतमतिक्रान्तं ज्योतिश्चक्रेण बोध्यते।।
किन्तु तत्र शुभं कर्म सुग्रहैस्तु निवेद्यते।
दुष्कृतस्याशुभैरेव समावायो भवेदिति।।
तस्मात्तु ग्रहवैषम्ये विषमं कुरुते जनः।
ग्रहसाम्ये शुभं कुर्याज्ज्ञात्वाऽऽत्मानं तथा कृतम्।।
केवलं ग्रहनक्षत्रं न करोति शुभाशुभम्।
सर्वमात्मकृतं कर्म लोकवादो ग्रहा इति।।
पृथग्ग्रहाः पृथक्कर्ता कर्ता स्वं भुञ्जते फलम्।
इति ते कथितं सर्वं विशङ्कां जहि शोभने।।
उमोवाच।
भगवन्विविधं कर्म कृत्वा जन्तुः शुभाशुभम्।
किं तयोः पूर्वकतरं भुङ्क्ते जन्मान्तरे पुनः।
एष मे संशयो देव तं मे त्वं छेत्तुमर्हसि।।
महेश्वर उवाच।
स्थाने संशयितं देवि तत्ते वक्ष्यामि तत्वतः।।
अशुभं पूर्वमित्याहुरपरे शुभमित्यपि।
मिथ्या तदुभयं प्रोक्तं केवलं तद्ब्रवीमि ते।।
मानुषे तु पदे कर्म युगपद्भुज्यते सदा।
यथाकृतं यथायोगमुभयं भुज्यते क्रमात्।।
भुञ्जानाश्चापि दृश्यन्ते क्रमशो भुवि मानवाः।
ऋद्धिं हानिं सुखं दुःखं तत्सर्वमुभयं भयम्।।
दुःखान्यनुभवन्त्याढ्या दरिद्राश्च सुखानि च।
यौगपद्याद्धि भुञ्जाना दृश्यन्ते लोकसाक्षिकम्।।
नरके स्वर्गलोके च न तथा संस्थितिः प्रिये।
नित्यं दुःखं हि नरके स्वर्गे नित्यं सुखं तथा।।
शुभाशुभानामाधिक्यं कर्मणां तत्र सेव्यते।
निरन्तरं सुखं दुःखं स्वर्गे च नरके भवेत्।।
तत्रापि सुमहद्भुक्त्वा पूर्वमल्पं पुनः शुभे।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि।।
उमोवाच।
भगवन्प्राणिनो लोके म्रियन्ते केन हेतुना।
जाताजाता न तिष्ठन्ति तन्मे शंसितुमर्हसि।।
महेश्वर उवाच।
तदहं ते प्रवक्ष्यामि शृणु सत्यं समाहिता।
आत्मा कर्मक्षयाद्देहं यथा मुञ्चति तच्छृणु।।
शरीरात्मसमाहारो जन्तुरित्यभिधीयते।
तत्रात्मानं नित्यमाहुरनित्यं क्षेत्रिमुच्यते।।
एवं कालेन सङ्क्रान्तं शरीरं जर्झरीकृतम्।
अकर्मयोग्यं संशीर्णं त्यक्त्वा देही ततो व्रजेत्।।
नित्यस्यानित्यसंत्यागाल्लोके तन्मरणं विदुः।
कालं नातिक्रमेरन्हि सदेवासुरमानवाः।।
यथाऽऽकाशे न तिष्ठेत द्रव्यं किञ्चिदचेतनम्।
तथा धावति कालोऽयं क्षणं किञ्चिन्न तिष्ठति।।
स पुनर्जायतेऽन्यत्र शरीरं नवमाविशन्।
एवंलोकगतिर्नित्यमादिप्रभृति वर्तते।।
उमोवाच।
भगवन्प्राणिनो बाला दृश्यन्ते मरणं गताः।
अतिवृद्धाश्च जीवन्तो दृश्यन्ते चिरजीविनः।।
केवलं कालमरणं न प्रमाणं महेश्वर।
तस्मान्मे संशय ब्रूहि प्राणिनां जीवकारणम्।।
महेश्वर उवाच।
शृणु तत्कारणं देवि निर्णयस्त्वेक एव सः।
जीर्णत्वमात्रं कुरुते कालो देहं न पातयेत्।।
जीर्णे कर्मणि संघातः स्वयमेव विशीर्यते।
पूर्वकर्मप्रमाणेन जीवितं मृत्युरेव वा।।
यावत्पूर्वकृतं कर्म तावज्जीवति मानवः।
तत्र कर्मवशाद्बाला म्रियन्ते कालसंक्षयात्।।
चिरं जीवन्ति वृद्धाश्च तथा कर्मप्रमाणतः।
इति ते कथितं देवि निर्विशङ्का भव प्रिये।।
उमोवाच।
भगवन्केन वृत्तेन भवन्ति चिरजीविनः।
अल्पायुषो नराः केन तन्मे शंसितुमर्हसि।।
महेश्वर उवाच।
शृणु तत्सर्वमखिलं गुह्यं पथ्यतरं नृणाम्।
येन वृत्तेन सम्पन्ना भवन्ति चिरजीविनः।।
अहिंसा सत्यवचनमक्रोधः क्षीन्तिरार्जवम्।
गुरूणां नित्यशुश्रूषा वृद्धानामपि पूजनम्।।
शौचादकार्यसंत्यागात्सदा पथ्यस्य भोजनम्।
एवमादिगुणं वृत्तं नराणां दीर्घजीविनाम्।।
तपसा ब्रह्मचर्येण रसायननिषेवणात्।
उदग्रसत्त्वा बलिनो भवन्ति चिरजीविनः।
स्वर्गे वा मानुषे वाऽपि चिरं तिष्ठन्ति धार्मिकाः
अपरे पापकर्माणः प्रायशोऽनृतवादिनः।
हिंसाप्रिया गुरुद्विष्टा निष्क्रियाः शौचवर्जिताः।।
नास्तिका घोरकर्माणः सततं मांसपानपाः।
पापाचारा गुरुद्विष्टाः कोपनाः कलहप्रियाः।।
एवमेवाशुभाचारास्तिष्ठन्ति नरके चिरम्।
तिर्यग्योनौ तथाऽत्यन्तमल्पास्तिष्ठन्ति मानवाः।
तस्मादल्पायुषो मर्त्यास्तादृशाः सम्भवन्ति ते।।
अगम्यदेशगमनादपथ्यानां च भोजनात्।
आयुःक्षयो भवेन्नॄणामायुःक्षयकरा हि ते।।
भवन्त्यल्पायुषस्तैस्तैरन्यथा चिरजीविनः।
एतत्ते कथितं सर्वं भूयः श्रोतुं किमिच्छसि।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चविँशत्यधिकद्विशततमोऽध्यायः।। 225 ।।