अनुशासनपर्व
अध्यायः १६
`भीष्म उवाच।
द्वारकायां यथा प्राह पुराऽयं मुनिसत्तमः।
वेदविप्रमयत्वं तु वासुदेवस्य तच्छृणु।।
यूपं विष्णुं वासुदेवं विजान-
न्सर्वान्विप्रान्बोधते तत्वदर्शि।
विष्णुं क्रान्तं वासुदेवं विजान-
न्विप्रो विप्रत्वं गच्छते तत्वदर्शी।।
विष्णुर्यज्ञस्त्विज्यते चापि विष्णुः
कृष्णो विष्णुर्यश्च कृत्स्नः प्रभुश्च।
कृष्णो वेदाङ्गं वेदवादाश्च कृष्ण
एवं जानन्ब्राह्मणो ब्रह्म एति।।
स्थानं सर्वं वैष्णवं यज्ञमार्गे
चातुर्होत्रं वैष्णवं तत्र कृष्णः।
सर्वैर्भावैरिज्यते सर्वकामैः
पुण्याँल्लोकान्ब्राह्मणाः प्राप्नुवन्ति।।
सोमं सद्भावाद्ये च जातं पिबन्ति
दीप्तिं कर्म ये विदानाश्चरन्ति।
एकान्तमिष्टं चिन्तयन्तो दिविस्था-
स्ते वै स्थानं प्राप्नुवन्ति व्रतज्ञाः।।
ओमित्येतद्ध्यायमानो न गच्छे-
द्दुर्गं पन्थानं पापकर्मापि विप्रः।
सर्वं कृष्णं वासुदेवं हि विग्राः
कृत्वा ध्यानं दुर्गतिं न प्रयान्ति।।
आज्यं यज्ञः स्रुक्स्रुवौ यज्ञदाता
इच्छा पत्नी पत्निशाला हवींषि।
इध्याः पुरोडाशं सर्वदा होतृकर्ता
कृत्स्नं विष्णुं संविजानंस्तमेति।।
योगेयोगे कर्मणां चाभिहारे
युक्ते वैताने कर्मणि ब्राह्मणस्य।
पुष्ट्यर्थेषु प्राप्नुयात्कर्मसिद्धिं
शान्त्यर्थेषु प्राप्नुयात्सर्वशान्तिम्ट'।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षोडशोऽध्यायः।। 16 ।।