आदिपर्व

अध्यायः ८९

Adi Parva (Sanskrit) · Adhyaya 89
अक्षर का आकार

जनमेजय उवाच।

भगवन्विस्तरेणेह भरतस्य महात्मनः।
जन्म कर्म च सुश्रूषोस्तन्मे शंसितुमर्हसि।।

वैशंपायन उवाच।

पौरवाणां वंशकरो दुष्यन्तो नाम वीर्यवान्।
पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम।।

चतुर्भागं भुवः कृत्स्नं यो भुङ्क्ते मनुजेश्वरः।
समुद्रावरणांश्चापि देशान्स समितिंजयः।।

आम्लेच्छावधिकान्सर्वान्स भुङ्क्ते रिपुमर्दनः।
रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान्।।

न वर्णसङ्करकरो न कृष्याकरकृज्जनः।
न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति।।

धर्मे रतिं सेवमाना धर्मार्थावभिपेदिरे।
तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे।।

नासीच्चोरभयं तात न क्षुधाभयमण्वपि।
नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे।।

स्वधर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः।
तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः।।

कालवर्षी च पर्जन्यः सस्यानि रसवन्ति च।
सर्वरत्नसमृद्धा च मही पशुमती तथा।।

स्वकर्मनिरता विप्रा नानृतं तेषु विद्यते।
स चाद्भुतमहावीर्यो वज्रसंहननो युवा।।

उद्यम्य मन्दरं दोर्भ्यां वहेत्सवनकाननम्।
चतुष्पथगदायुद्धे सर्वप्रहरणेषु च।।

नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठतः।
बले विष्णुसमश्चासीत्तेजसा भास्करोपमः।।

अक्षोभ्यत्वेऽर्णवसमः सहिष्णुत्वे धरासमः।
संमतः स महीपालः प्रसन्नपुरराष्ट्रवान्।।

भूयो धर्मपरैर्भावैर्मुदितं जनमादिशत्।।

।। इति श्रीमन्महाभारते आदिपर्वणि
संभवपर्वणि एकोननवतितमोऽध्यायः।। 89 ।।