आदिपर्व
अध्यायः ८४
अष्टक उवाच।
यदाऽवसो नन्दने कामरूपी
संवत्सराणामयुतं शतानाम्।
किं कारणं कार्तयुगप्रधान
हित्वा च त्वं वसुधामन्वपद्यः।।
ययातिरुवाच।
ज्ञातिः सुहृत्स्वजनो वा यथेह
क्षीणे वित्ते त्यज्यते मानवैर्हि।
तथा तत्र क्षीणपुण्यं मनुष्यं
त्यजन्ति सद्यः सेश्वरा देवसङ्घाः।।
अष्टक उवाच।
तस्मिन्कथं क्षीणपुण्या भवन्ति
संमुह्यते मेऽत्र मनोऽतिमात्रम्।
किं वा विशिष्टाः कस्य धामोपयान्ति
तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे।।
ययातिरुवाच।
इमं भौमं नरकं ते पतन्ति
ललाप्यमाना नरदेव सर्वे।
ते कङ्कगोमायुबलाशनार्थे
क्षीणे पुण्ये बहुधा प्रव्रजन्ति।।
तस्मादेतद्वर्जनीयं नरेन्द्र
दुष्टं लोके गर्हणीयं च कर्म।
आख्यातं ते पार्थिव सर्वमेव
भूयश्चेदानीं वद किं ते वदामि।।
अष्टक उवाच।
यदा तु तान्वितुदन्ते वयांसि
तथा गृध्राः शितिकण्ठाः पतङ्गाः।
कथं भवन्ति कथमाभवन्ति
न भौममन्यं नरकं शृणोमि।।
ययातिरुवाच।
ऊर्ध्वं देहात्कर्मणो जृम्भमाणा-
द्व्यक्तं पृथिव्यामनुसंचरन्ति।
इमं भौमं नरकं ते पतन्ति
नावेक्षन्ते वर्षपूगाननेकान्।।
षष्टिं सहस्राणि पतन्ति व्योम्नि
तथा अशीतिं परिवत्सराणि।
तान्वै तुदन्ति पततः प्रपातं
भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः।।
अष्टक उवाच।
यदेनसस्ते पततस्तुदन्ति
भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः।
कथं भवन्ति कथमाभवन्ति
कथंभूता गर्भभूता भवन्ति।।
ययातिरुवाच।
अस्रं रेतः पुष्पफलानुपृक्त-
मन्वेति तद्वै पुरुषेण सृष्टम्।
स वै तस्या रज आपद्यते वै
स गर्भभूतः समुपैति तत्र।।
वनस्पतीनोषधीश्चाविशन्ति
आपो वायुं पृथिवीं चान्तरिक्षम्।
चतुष्पदं द्विपदं चाति सर्व-
मेवंभूता गर्भभूता भवन्ति।।
अष्टक उवाच।
अन्यद्वपुर्विदधातीह गर्भ-
मुताहोस्वित्स्वेन कायेन याति।
आपद्यमानो नरयोनिमेता-
माचक्ष्व मे संशयात्प्रब्रवीमि।।
शरीरदेहातिसमुच्छ्रयं च
चक्षुःश्रोत्रे लभते केन संज्ञाम्।
एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः
क्षेत्रज्ञं त्वां तात मन्याम सर्वे।।
ययातिरुवाच।
वायुः समुत्कर्षति गर्भयोनि-
मृतौ रेतः पुष्पफलानुपृक्तम्।
स तत्र तन्मात्रकृताधिकारः
क्रमेण संवर्धयतीह गर्भम्।।
स जायमानो विगृहीतमात्रः
संज्ञामधिष्ठाय ततो मनुष्यः।
स श्रोत्राभ्यां वेदयतीह शब्दं
स वै रूपं पश्यति चक्षुषा च।।
घ्राणेन गन्धं जिह्वयाऽथो रसं च
त्वचा स्पर्शं मनसा वेदभावम्।
इत्यष्टकेहोपहितं हि विद्धि
महात्मनः प्राणभृतः शरीरे।।
अष्टक उवाच।
यः संस्थितः पुरुषो दह्यते वा
निखन्यते वापि निकृष्यते वा।
अभावभूतः स विनाशमेत्य
केनात्मानं चेतयते परस्तात्।।
ययातिरुवाच।
हित्वा सोऽसून्सुप्तवन्निष्टनित्वा
पुरोधाय सुकृतं दुष्कृतं वा।
अन्यां योनिं पवनाग्रानुसारी
हित्वा देहं भजते राजसिंह।।
पुण्यां योनिं पुण्यकृतो व्रजन्ति
पापां योनिं पापकृतो व्रजन्ति।
कीटाः पतङ्गाश्च भवन्ति पापा
न मे विवक्षास्ति महानुभाव।।
चतुष्पदा द्विपदाः षट्पदाश्च
तथाभूता गर्भभूता भवन्ति।
आख्यातमेतन्निखिलेन सर्वं
भूयस्तु किं पृच्छसि राजसिंह।।
अष्टक उवाच।
किंस्वित्कृत्वा लभते तात लोका-
न्मर्त्यः श्रेष्ठांस्तपसा विद्यया च।
तन्मे पृष्टः शंस सर्वं यथाव-
च्छुभाँल्लोकान्येन गच्छेत्क्रमेण।।
ययातिरुवाच।
पुंसः सदैवेति वदन्ति सन्तः।।
अधीयानः पण्डितंमन्यमानो
यो विद्यया हन्ति यशः परेषाम्।
तस्यान्तवन्तश्च भवन्ति लोका
न चास्य तद्ब्रह्म फलं ददाति।।
चत्वारि कर्माण्यभयङ्कराणि
भयं प्रयच्छन्त्ययथाकृतानि।
मानाग्निहोत्रमुत मानमौनं
मानेनाधीतमुत मानयज्ञः।।
न मानमान्यो मुदमाददीत
न सन्तापं प्राप्नुयाच्चावमानात्।
सन्तः सतः पूजयन्तीह लोके
नासाधवः साधुबुद्धिं लभन्ते।।
इति दद्यामिति यज इत्यदीय इति व्रतम्।
इत्येतानि भयान्याहुस्तानि वर्ज्यानि सर्वशः।।
ये चाश्रयं वेदयन्ते पुराणं
मनीषिणो मानसमार्गरुद्धम्।
तन्निःश्रेयस्तेन संयोगमेत्य
परां शान्तिं प्रत्युः प्रेत्य चेह।।
।। इति श्रीमन्महाभारते आदिपर्वणि
संभवपर्वणि चतुरशीतितमोऽध्यायः।। 84 ।।