आदिपर्व

अध्यायः ८२

Adi Parva (Sanskrit) · Adhyaya 82
अक्षर का आकार

इन्द्र उवाच।

सर्वाणि कर्माणि समाप्य राजन्
गृहं परित्यज्य वनं गतोऽसि।
तत्त्वां पृच्छामि नहुषस्य पुत्र
केनासि तुल्यस्तपसा ययाते।।

ययातिरुवाच।

नाहं देवमनुष्येषु गन्धर्वेषु महर्षिषु।
आत्मनस्तपसा तुल्यं कंचित्पश्यामि वासव।।

इन्द्र उवाच।

यदाऽवमंस्थाः सदृशः श्रेयसश्च अल्पीयसश्चाविदितप्रभावः।
तस्माल्लोकास्त्वन्तवन्तस्तवे मे
क्षीणे पुण्ये पतिताऽस्यद्य राजन्।।

ययातिरुवाच।

सुरर्षिगन्धर्वनरावमाना-
त्क्षयं गता मे यदि शक्रलोकाः।
इच्छाम्यहं सुरलोकाद्विहीनः
सतां मध्ये पतितुं देवराज।।

इन्द्र उवाच।

सतां सकाशे पतिताऽसि राजं-
श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः।
एतद्विदित्वा च पुनर्ययाते
त्वं माऽवमंस्थाः सदृशः श्रेयसश्च।।

वैशंपायन उवाच।

ततः प्रहायामरराजजुष्टा-
न्पुण्याँल्लोकान्पतमानं ययातिम्।
संप्रेक्ष्य राजर्षिवरोऽष्टकस्त-
मुवाच सद्धर्मविधानगोप्ता।।

अष्टक उवाच।

कस्त्वं युवा वासवतुल्यरूपः
स्वतेजसा दीप्यमानो यथाऽग्निः।
पतस्युदीर्णाम्बुधरान्धकारा-
त्खात्खेचराणां प्रवरो यथाऽर्कः।।

दृष्ट्वा च त्वां सूर्यपथात्पतन्तं
वैश्वानरार्कद्युतिमप्रमेयम्।
किं नु स्विदेतत्पततीति सर्वे
वितर्कयन्तः परिमोहिताः स्मः।।

दृष्ट्वा च त्वां धिष्ठितं देवमार्गे
शक्रार्कविष्णुप्रतिमप्रभावम्।
अभ्युद्गतास्त्वां वयमद्य सर्वे
तत्त्वं प्रपाते तव जिज्ञासमानाः।।

न चापि त्वां धृष्णुमः प्रष्टुमग्रे
न च त्वमस्मान्पृच्छसि ये वयं स्मः।
तत्त्वां पृच्छामि स्पृहणीयरूप
कस्य त्वं वा किंनिमित्तं त्वमागाः।।

भयं तु ते व्येतु विषादमोहौ
त्यजाशु चैवेन्द्रसमप्रभाव।
त्वां वर्तमानं हि सतां सकाशे
नालं प्रसोढुं बलहाऽपि शक्रः।।

सन्तः प्रतिष्ठा हि सुखच्युतानां
सतां सदैवामरराजकल्प।
ते सङ्गताः स्थावरजङ्गमेशाः
प्रतिष्ठितस्त्वं सदृशेषु सत्सु।।

प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः।
प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः।।

।। इति श्रीमन्महाभारते आदिपर्वणि
संभवपर्वणि द्व्यशीतितमोऽध्यायः।। 82 ।।