आदिपर्व
अध्यायः ८०
वैशंपायन उवाच।
एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम्।
राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः।।
उषित्वा च वने वासं ब्राह्मणैः संशितव्रतः।
फलमूलाशनो दान्तस्ततः स्वर्गमितो गतः।।
स गतः स्वर्निवासं तं निवसन्मुदितः सुखी।
कालेन नातिमहता पुनः शक्रेण पातितः।।
`साधुभिः संगतिं लब्ध्वा पुनः स्वर्गमुपेयिवान्।
जनमेजय उवाच।
स्वर्गतश्च पुनर्ब्रह्मन्निवसन्देववेश्मनि।
कालेन नातिमहता कथं शक्रेण पातितः'।।
निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम्।
स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया।।
तत एव पुनश्चापि गतः स्वर्गमिति श्रुतम्।
राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान्।।
प्रतर्दनेन शिविना समेत्य किल संसदि।
कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः।।
सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः।
कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ।।
देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः।
वर्धनः कुरुवंशस्य विभावसुसमद्युतिः।।
तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः।
चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः।।
वैशंपायन उवाच।
हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम्।
दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम्।।
ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम्।
राज्येऽभिषिच्य मुदितः प्रावव्राज वनं तदा।।
अन्त्युषे स विनिक्षिप्य पुत्रान्यदुपुरोगमान्।
फलमूलाशनो राजा वने संन्यवसच्चिरम्।।
शंसितात्मा जितक्रोधस्तर्पयन्पितृदेवताः।
अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः।।
अथितीन्पूजयामास वन्येन हविषा विभुः।
शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः।।
पूर्णं वर्षसहस्रं च एवंवृत्तिरभून्नृपः।
अब्भक्षः शरदस्त्रिंशदासीन्नियतवाङ्मनाः।।
ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः।
तथा पञ्चाग्निमध्ये च तपस्तेपे स वत्सरम्।।
एकपादः स्तितश्चासीत्षण्मासाननिलाशनः।
पुण्यकीर्तिस्ततः स्वर्गे जगामावृत्य रोदसी।।
।। इति श्रीमन्महाभारते आदिपर्वणि
संभवपर्वणि अशीतितमोऽध्यायः।। 80 ।।