आदिपर्व

अध्यायः ७५

Adi Parva (Sanskrit) · Adhyaya 75
अक्षर का आकार

वैशंपायन उवाच।

अथ दीर्घस्य कालस्य देवयानी नृपोत्तम।
वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी।।

तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा।
तमेव देशं संप्राप्ता यथाकामं चचार सा।।

ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम्।
क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीं।।

खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च।
पुनश्च नाडुषो राजा मृगलिप्सुर्यदृच्छया।।

तमेव देशं संप्राप्तो जलार्थी श्रमकर्शितः।
ददर्श देवयानीं स शर्मिष्ठां ताश्च योषितः।।

पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः।
आसनप्रवरे दिव्ये सर्वरत्नविभूषिते।
उपविष्टां च ददृशे देवयानीं शुचिस्मिताम्।।

रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनम्।
`आसनाच्च ततः किंचिद्विहीनां हेमभीषिताम्।।

असुरेन्द्रसुतां चापि निषण्णां चारुहासिनीम्।
ददर्श पादौ विप्रायाः संवहन्तीमनिन्दिताम्।।

गायन्त्योऽथ प्रनृत्यन्त्यो वादयन्त्योऽथ भारत।
दृष्ट्वा ययातिमतुलं लज्जयाऽवनताः स्थिताः।।'

ययातिरुवाच।

द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते।
गोत्रे च नामनी चैव द्वयोः पृच्छाम्यहं शुभे।

देवयान्युवाच।

आख्यास्याम्यहमादत्स्व वचनं मे नराधिप।
शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम्।।

इयं च मे सखी दासी यत्राहं तत्र गामिनी।
दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः।।

ययातिरुवाच।

कथं तु ते सखी दासी कन्येयं वरवर्णिनी।
असुरेन्द्रसुता सुभ्रूः परं कौतूहलं हि मे।।

`नैव देवी न गन्धर्वी न यक्षी न च किन्नरी।
नैवंरूपा मया नारी दृष्टपूर्वा महीतले।।

श्रीरिवायतपद्माक्षी सर्वलक्षणशोभना।
असुरेन्द्रसुता कन्या सर्वालङ्कारभूषिता।।

दैवेनोपहता सुभ्रूरुताहो तपसापि वा।
अन्यथैषाऽनवद्याङ्गी दासी नेह भविष्यति।।

अस्या रूपेण ते रूपं न किंचित्सदृशं भवेत्।
पुरा दुश्चरितेनेयं तव दासी भवत्यहो।।'

देवयान्युवाच।

सर्व एव नरश्रेष्ठ विधानमनुवर्तते।
विधानविहितं मत्वा मा विचित्राः कथाःकृथाः।।

राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च।
को नाम त्वं कुतश्चासि कस्य पुत्रश्च शस मे।।

ययातिरुवाच।

ब्रहमचर्येण वेदो मे कृत्स्रः श्रुतिपथं गतः।
राजाहं राजपुत्रश्च ययातिरिति विश्रुतः।।

देवयान्युवाच।

केनास्यर्थेन नृपते इमं देशमुपागतः।
जिघृक्षुर्वारिजं किंचिदथवा मृगलिप्सया।।

ययातिरुवाच।

मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः।
बहुधाऽप्यनुयुक्तोऽस्मि तदनुज्ञातुमर्हसि।।

देवयान्युवाच।

द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह।
त्वदधीनाऽस्मि भद्रं ते सखा भर्ता च मे भव।।

`वैशंपायन उवाच।

असुरेन्द्रसुतामीक्ष्य तस्यां सक्तेन चेतसा।
शर्मिष्ठा महिषी मह्यमिति मत्वा वचोऽब्रवीत्'।।

ययातिरुवाच।

विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि।
अविवाह्या हि राजानो देवयानि पितुस्तव।।

`परभार्या स्वसा श्रेष्ठा सगोत्रा पतिता स्नुषा।
अवरा भिक्षुकाऽस्वस्था अगम्याः कीर्तिता बुधैः।।

देवयान्युवाच।

संसृष्टं ब्रह्मणा क्षत्रं क्षत्रेण ब्रह्म संहितम्।
`अन्यत्वमस्ति न तयोरेकान्ततरमास्थिते।'
ऋषिश्चाप्यृषिपुत्रश्च नाहुषाङ्ग वहस्व माम्।।

ययातिरुवाच।

एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने।
पृथग्धर्माः पृथक्शौचास्तेषां तु ब्राह्मणो वरः।।

देवयान्युवाच।

पाणि धर्मो नाहुषाऽयं न पुंभिः सेवितः पुरा।
तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः।।

कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत्।
गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया।।

ययातिरुवाच।

क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्।
दुराधर्षतरो विप्रो ज्ञेयः पुंसा विजानता।।

देवयान्युवाच।

कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्।
दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ।।

ययातिरुवाच।

एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते।
हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः।।

दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम।
अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम्।।

देवयान्युवाच।

दत्तां वहस्व तन्मा त्वं पित्रा राजन्वृतो मया।
आयचतो भयं नास्ति दत्तां च प्रतिगृह्णतः।।

`तिष्ठ राजन्मुहूर्तं च प्रेषयिष्याम्यहं पितुः।
गच्छ त्वं धात्रिके शीघ्रं ब्रह्मकल्पमिहानय।
स्वयंवरे वृतं शीघ्रं निवेदय च नाहुषम्'।।

वैशंपायन उवाच।

त्वरितं देवयान्याथ संदिष्टं पितुरात्मनः।
सर्वं निवेदयामास धात्री तस्मै यथातथम्।।

श्रुत्वैव च स राजानं दर्शयामास भार्गवः।
दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः।
ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः।।

देवयान्युवाच।

राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत्।
नान्यपूर्वगृहीतं मे तेनाहमभया कृता।
नमस्ते देहि मामस्मै लोके नान्यं पतिं वृणे।।

शुक्र उवाच।

अन्यो धर्मः प्रियस्त्वन्यो वृतस्ते नाहुषः पतिः।
कचशापात्त्वया पूर्वं नान्यद्भवितुमर्हति।।

वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया।
स्वयं ग्रहे महान्दोषो ब्राह्मण्या वर्णसंकरात्।
गृहाणेमां मया दत्तां महिषीं नहुषात्मज।।

ययातिरुवाच।

अधर्मो न स्पृशेदेष महान्मामिह भार्गव।
वर्णसंकरजो ब्रह्मन्निति त्वां प्रवृणोम्यहम्।।

शुक्र उवाच।

अधर्मात्त्वां विमुञ्चामि शृणु त्वं वरमीप्सितम्।
अस्मिन्विवाहे मा म्लासीरहं पापं नुदामि ते।।

वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम्।
अनया सह संप्रीतिमतुलां समवाप्नुहि।।

इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी।
संपूज्या सततं राजन्मा चैनां शयने ह्वयेः।।

रहस्येनां समाहूय न वदेर्न च संस्पृशेः।
वहस्व भार्यां भद्रं ते यथा काममवाप्स्यसि।।

वैशंपायन उवाच।

एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम्।
शास्त्रोक्तविधिना राजा विवाहमकरोच्छुभम्।।

लब्ध्वा शुक्रान्महद्वित्तं देवयानीं तदोत्तमाम्।
द्विसहस्रेण कन्यानां तथा शर्मिष्ठया सह।।

संपूजितश्च शुक्रेण दैत्यैश्च नृपसत्तमः।
जगाम स्वपुरं हृष्टोऽनुज्ञातोऽथ महात्मना।।

।। इति श्रीमन्महाभारते आदिपर्वणि
संभवपर्वणि पञ्चसप्ततितमोऽध्यायः।। 75 ।।