आदिपर्व
अध्यायः ५७
शौनक उवाच।
ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने।
तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज।।
सौतिरुवाच।
सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च।
न शक्यं परिसंख्यातुं बहुत्वाद्द्विजसत्तम।।
यथास्मृति तु नामानि पन्नगानां निबोध मे।
उच्यमानानि मुख्यानां हुतानां जातवेदसि।।
वासुकेः कुलजातांस्तु प्राधान्येन निबोध मे।
नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान्।।
अवशान्मातृवाग्दण्डपीडितान्कृपणान्हूतान्।
कोटिशो मानसः पूर्णः शलः पालो हलीमकः।।
पिच्छलः कौणपश्चक्रः कालवेगः प्रकालनः।
हिरण्यबाहुः शरणः कक्षकः कालदन्तकः।।
एते वासुकिजा नागाः प्रविष्टा हव्यवाहने।
अन्ये च बहवो विप्र तथा वै कुलसंभवाः।
प्रदीप्ताग्नौ हुताःसर्वे घोररूपा महाबलाः।।
तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान्।
पुच्छाण्डको मण्डलकः पिण्डसेक्ता रभेणकः।।
उच्छिखः शरभो भङ्गो बिल्वतेजा विरोहणः।
शिली शलकरो मूकः सुकुमारः प्रवेपनः।।
मुद्गरः शिशुरोमा च सुरोमा च महाहनुः।
एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम्।।
पारावतः पारियात्रः पाण्डरो हरिणः कृशः।
विहङ्गः शरभो मोदः प्रमोदः संहतापनः।।
ऐरावतकुलादेते प्रविष्टा हव्यवाहनम्।
कौरव्यकुलजान्नागाञ्शृणु मे त्वं द्विजोत्तम।।
एरकः कुण्डलो वेणी वेणीस्कन्धः कुमारकः।
बाहुकः शृङ्गबेरश्च धूर्तकः प्रातरातकौ।।
कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम्।
धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम्।।
कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान्।
शङ्कुकर्णः पिठरकः कुठारमुखसेचकौ।।
पूर्णाङ्गदः पूर्णमुखः प्रहासः शकुनिर्दरिः।
अमाहठः कामठकः सुषेणो मानसोऽव्ययः।।
`अष्टावक्रः कोमलकः श्वसनो मौनवेपगः।'
भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोदपारकः।
ऋषभो वेगवान्नागः पिण्डारकमहाहनू।।
रक्ताङ्गः सर्वसारङ्गः समृद्धपटवासकौ।
वराहको वीरणकः सुचित्रश्चित्रवेगिकः।।
पराशरस्तरुणको मणिः स्कन्धस्तथाऽऽरुणिः।
इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः।।
प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः।
एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः।।
न शक्यं परिसंख्यातुं ये दीप्तं पावकं गताः।
`द्विशीर्षाः पञ्चशीर्षाश्च सप्तशीर्षास्तथाऽपरे।
दशशीर्षाः शतशीर्षास्तथान्ये बहुशीर्षकाः'।।
कालानलविषा घोरा हुताः शतसहस्रशः।
महाकाया महावेगाः शैलशृङ्गसमुच्छ्रयाः।।
योजनायामविस्तारा द्वियोजनसमायताः।
कामरूपाः कामबला दीप्तानलविषोल्बणाः।।
दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपाडिताः।।
।। इति श्रीमन्महाभारते आदिपर्वणि
आस्तीकपर्वणि सप्तपञ्चाशत्तमोऽध्यायः।। 57 ।।