आदिपर्व

अध्यायः ५

Adi Parva (Sanskrit) · Adhyaya 5
अक्षर का आकार

शौनक उवाच।

पुराणमखिलं तात पिता तेऽधीतवान्पुरा।
`भारताध्ययनं सर्वं कृष्णद्वैपायनात्तदा।'
कच्चित्त्वमपि तत्सर्वमधीषे रौमहर्षणे।।

पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम्।
कथ्यन्ते ये पुराऽस्माभिः श्रुतपूर्वाः पितुस्तव।।

तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम्।
कथयस्व कथामेतां कल्याः स्मः श्रवणे तव।।

सौतिरुवाच।

यदधीतं पुरा सम्यग्द्विजश्रेष्ठैर्महात्मभिः।
वैशंपायनविप्राग्र्यैस्तैश्चापि कथितं यथा।।

यदधीतं च पित्रा मे सम्यक्कैव ततो मया।
तावच्छृणुष्व यो देवैः सेन्द्रैः सर्षिमरुद्गणैः।।

पूजितः प्रवरो वंशो भार्गवो भृगुनन्दन।
इमं वंशमहं पूर्वं भार्गवं ते महामुने।।

निगदामि यथायुक्तं पुराणाश्रयसंयुतम्।
भृगुर्महर्षिर्भगवान्ब्रह्मणा वै स्वयंभुवा।।

वरुणस्य क्रतौ जातः पावकादिति नः श्रुतम्।
भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः।।

च्यवनस्य च दायादः प्रमतिर्नाम धार्मिकः।
प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत।।

रुरोरपि सुतो जज्ञे शुनको वेदपारगः।
प्रमद्वरायां धर्मात्मा तव पूर्वपितामहः।।

तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः।
धार्मिकः सत्यवादी च नियतो नियताशनः।।

शौनक उवाच।

सूतपुत्र यथा तस्य भार्गवस्य महात्मनः।
च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः।।

सौतिरुवाच।

भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता।
तस्यां समभवद्गर्भो भृगुवीर्यसमुद्भवः।।

तस्मिन्गर्भेऽथ संभूते पुलोमायां भृगूद्वह।
समये समशीलिन्यां धर्मपत्न्यां यशस्विनः।।

अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे।
आश्रमं तस्य रक्षोऽथ पुलोमाऽभ्याजगाम ह।।

तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम्।
हृच्छयेन समाविष्टो विचेताः समपद्यत।।

अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना।
न्यमन्त्रयत वन्येन फलमूलादिना तदा।।

तां तु रक्षस्तदा ब्रह्मन्हृच्छयेनाभिपीडितम्।
दृष्ट्वा हृष्टमभूद्राजञ्जिहीर्षुस्तामनिन्दिताम्।।

जातमित्यब्रवीत्कार्यं जिहीर्षुर्मुदितः शुभाम्।
सा हि पूर्वं वृता तेन पुलोम्ना तु शुचिस्मिता।।

तस्य तत्किल्बिषं नित्यं हृदि वर्तति भार्गव।।

इदमन्तरमित्येवं हर्तुं चक्रे मनस्तदा।
अथाग्निशरणेऽपश्यज्ज्वलन्तं जातवेदसम्।।

तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा।
शंस मे कस्य भार्येयमग्ने पृच्छे ऋतेन वै।।

मुखं त्वमसि देवानां वद पावक पृच्छते।
मया हीयं वृता पूर्वं भार्यार्थे वरवर्णिनी।।

पश्चादिमां पिता प्रादाद्भृगवेऽनृतकारकः।
सेयं यदि वरारोहा भृगोर्भार्या रहोगता।।

तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम्।
स मन्युस्तत्र हृदयं प्रदहन्निव तिष्ठति।।

मत्पूर्वभार्यां यदिमां भृगुराप सुमध्यमाम्।
`असंमतमिदं मेऽद्य हरिष्याम्याश्रमादिमाम्'।।

सौतिरुवाच।

एवं रक्षस्तमामन्त्र्य ज्वलितं जातवेदसम्।
शङ्कमानं भृगोर्भार्यां पुनःपुनरपृच्छत।।

त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा।
साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः।।

मत्पूर्वभार्याऽपहृता भृगुणाऽनृतकारिणा।
सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि।।

श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्याश्रमादिमाम्।
जातवेदः पश्यतस्ते वद सत्यां गिरं मम।।

सौतिरुवाच।

तस्यैतद्वचनं श्रुत्वा सप्तार्चिर्दुःखितोऽभवत्।
`सत्यं वदामि यदि मे शापः स्याद्ब्रह्मवित्तमात्।।

असत्यं चेदहं ब्रूयां पतिष्ये नरकान्ध्रुवम्।'
भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः।।

त्वया वृता पुलोमेयं पूर्वं दानवनन्दन।
किं त्वियं विधिना पूर्वं मन्त्रवन्न वृता त्वया।।

पित्रा तु भृगवे दत्ता पुलोमेयं यशस्विनी।
ददाति न पिता तुभ्यं वरलोभान्महायशाः।।

अथेमां वेददृष्टेन कर्मणा विधिपूर्वकम्।
भार्यामृषिर्भृगुः प्राप मां पुरस्कृत्य दानव।।

सेयमित्यवगच्छामि नानृतं वक्तुमुत्सहे।
नानृतं हि सदा लोके पूज्यते दानवोत्तम।।

।। इति श्रीमन्महाभारते आदिपर्वणि
पौलोमपर्वणि पञ्चमोऽध्यायः।। 5 ।।