आदिपर्व
अध्यायः ४३
तक्षक उवाच।
यदि दष्टं मयेह त्वं शक्तः किंचिच्चिकित्सितुम्।
ततो वृक्षं मया दष्टमिमं जीवय काश्यप।।
परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च।
न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम।।
काश्यप उवाच।
दश नागेन्द्र वृक्षं त्वं यद्येतदभिमन्यसे।
अहमेनं त्वया दष्टं जीवयिष्ये भुजंगम।
`पश्य मन्त्रबलं मेऽद्य न्यग्रोधं दश पन्नग।।'
सौतिरुवाच।
एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना।
अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः।।
स वृक्षस्तेन दष्टस्तु पन्नगेन महात्मना।
आशीविषविषोपेतः प्रजज्वाल समन्ततः।।
तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत्।
कुरु यत्नं द्विजश्रेष्ठ जीवयैव वनस्पतिम्।।
सौतिरुवाच।
भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा।
भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत्।।
विद्याबलं पन्नगेन्द्र पश्य मेऽद्य वनस्पतौ।
अहं संजीवयाम्येनं पश्यतस्ते भुजंगम।।
ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः।
भस्मराशीकृतं वृक्षं विद्यया समजीवयत्।।
अङ्कुरं कृतवांस्तत्र ततः पर्णद्वयान्वितम्।
पलाशिनं शाखिनं च तथा विटपिनं पुनः।।
तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना।
उवाच तक्षको ब्रह्मन्नैतदत्यद्भुतं त्वयि।।
द्विजेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा।
कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन।।
यत्तेऽभिलषितं प्राप्तं फलं तस्मान्नृपोत्तमात्।
अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम्।।
विप्रशापाभिभूते च क्षीणायुषि नराधिपे।
घटमानस्य ते विप्र सिद्धिः संशयिता भवेत्।।
ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम्।
निरंशुरिव घर्मांशुरन्तर्धानमितो व्रजेत्।।
काश्यप उवाच।
धनार्थी याम्यहं तत्र तन्मे देहि भुजंगम।
ततोऽहं विनिवर्तिष्ये स्वापतेयं प्रगृह्य वै।।
तक्षक उवाच।
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम्।
अहमेव प्रदास्यामि निवर्तस्व द्विजोत्तम।।
सौतिरुवाच।
तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः।
प्रदध्यौ सुमहातेजाराजानं प्रति बुद्धिमान्।।
दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा।
क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः।।
लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम्।
निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि।।
जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम्।
अथ शुश्राव गच्छन्स तक्षको जगतीपतिम्।।
मन्त्रैर्विषहरैर्दिव्यै रक्ष्यमाणं प्रयत्नतः।
सौतिरुवाच।
स चिन्तयामास तदा मायायोगेन पार्थिवः।।
मया वञ्चयितव्योऽसौ क उपायो भवेदिति।
ततस्तापसरूपेण प्राहिणोत्स भुजंगमान्।।
फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः।
तक्षक उवाच।
गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया।।
फलपत्रोदकं नागाः प्रतिग्राहयितुं नृपम्।
सौतिरुवाच।
ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः।।
उपनिन्युस्तथा राज्ञे दर्भानम्भः फलानि च।
तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान्।।
कृत्वा तेषां च कार्याणि गम्यतामित्युवाच तान्।
गतेषु तेषु नागेषु तापसच्छद्मरूपिषु।।
अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः।
भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः।।
तापसैरुपनीतानि फलानि सहिता मया।
ततो राजा ससचिवः फलान्यादातुमैच्छत।।
विधिना संप्रयुक्तो वै ऋषिवाक्येन तेन तु।
यस्मिन्नेव फले नागस्तमेवाभक्षयत्स्वयम्।।
ततो भक्षयतस्तस्य फलात्कृमिरभूदणुः।
ह्रस्वकः कृष्णनयनस्ताम्रवर्णोऽथ शौनक।।
स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत्।
अस्तमभ्येति सविता विषादद्य न मे भयम्।।
सत्यवागस्तु स मुनिः कृमिर्मां दशतामयम्।
तक्षको नाम भूत्वा वै तथा परिहृतं भवेत्।।
ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः।
एवमुक्त्वा स राजेन्द्रो ग्रीवायां सन्निवेश्यह।।
कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः।
प्रहसन्नेव भोगेन तक्षकेणाभिवेष्टितः।।
तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम्।
वेष्टयित्वा च भोगेन विनद्य च महास्वनम्।
अदशत्पृथिवीपालं तक्षकः पन्नगेश्वरः।।
।। इति श्रीमन्महाभारते आदिपर्वणि
आस्तीकपर्वणि त्रिचत्वारिंशोऽध्यायः।। 43 ।।