आदिपर्व

अध्यायः ३६

Adi Parva (Sanskrit) · Adhyaya 36
अक्षर का आकार

शौन उवाच।

आख्याता भुजगास्तात वीर्यवन्तो दुरासदाः।
शापं तं तेऽभिविज्ञाय कृतवन्तः किमुत्तरम्।।

सौतिरुवाच।

तेषां तु भगवाञ्छेषः कद्रूं त्यक्त्वा महायशाः।
उग्रं तपः समातस्थे वायुभक्षो यतव्रतः।।

गन्धमादनमासाद्य बदर्यां च तपोरतः।
गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे।।

तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च।
एकान्तशीलो नियतः सततं विजितेन्द्रियः।।

तप्यमानं तपो घोरं तं ददर्श पितामहः।
संशुष्कमांसत्वक्स्नायुं जटाचीरधरं मुनिम्।।

तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः।
किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु।।

त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ।
ब्रूहि कामं च मे शेष यस्ते हृदि व्यवस्थितः।।

शेष उवाच।

सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः।
सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम्।।

अभ्यसूयन्ति सततं परस्परममित्रवत्।
ततोऽहं तप आतिष्ठे नैतन्पश्येयमित्युत।।

न मर्षयन्ति ससुतां सततं विनतां च ते।
अस्माकं चापरो भ्राता वैनतेयोऽन्तरिक्षगः।।

तं च द्विषन्ति सततं स चापि बलवत्तरः।
वरप्रदानात्स पितुः कश्यपस्य महात्मनः।।

सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम्।
कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह सङ्गमः।।

तमेवं वादिनं शेषं पितामह उवाच ह।
जानामि शेष सर्वेषां भ्रातॄणां ते विचेष्टितम्।।

मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम्।
कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम।।

भ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि।
वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम्।।

दास्यामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि।
दिष्ट्या बुद्धिश्च ते धर्मे निविष्टा पन्नगोत्तम।
भूयो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा।।

शेष उवाच।

एष एव वरो देव काङ्क्षितो मे पितामह।
धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर।।

ब्रह्मोवाच।

प्रीतोऽस्म्यनेन ते शेष दमेन च शमेन च।
त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम्।।

इमां महीं शैलवनोपपन्नां
ससागरग्रामविहारपत्तनाम्
त्वं शेष सम्यक् चलितां यथाव-
त्संगृह्य तिष्ठस्व यथाऽचला स्यात्।।

शेष उवाच।

यथाऽऽह देवो वरदः प्रजापति-
र्महीपतिर्भूतपतिर्जगत्पतिः।
तथा महीं धारयिताऽस्मि निश्चलां
प्रयच्छतां मे विवरं प्रजापते।।

ब्रह्मोवाच।

अधो महीं गच्छ भुजङ्गमोत्तम
स्वयं तवैषा विवरं प्रदास्यति।
इमां धरां धारयता त्वया हि मे
महत्प्रियं शेष कृतं भविष्यति।।

सौतिरुवाच।

तथैव कृत्वा विवरं प्रविश्य स
प्रभुर्भुवो भुजगवराग्रजः स्थितः।
बिभर्ति देवीं शिरसा महीमिमां
समुद्रनेमिं परिगृह्य सर्वतः।।

ब्रह्मोवाच।

शेषोऽसि नागोत्तम धर्मदेवो
महीमिमां धारयसे यदेकः।
अनन्तभोगैः परिगृह्य सर्वां
यथाहमेवं बलभिद्यथा वा।।

सौतिरुवाच।

अधो भूमौ वसत्येवं नागोऽनन्तः प्रतापवान्।
धास्यन्वसुधामेकः शासनाद्ब्रह्मणो विभोः।।

सुपर्णं च सहायं वै भगवानमरोत्तमः।
प्रादादनन्ताय तदा वैनतेयं पितामहः।।

`अनन्तेऽभिप्रयाते तु वासुकिः स महाबलः।
अभ्यषिच्यत नागैस्तु दैवतैरिव वासवः।।'

।। इति श्रीमन्महाभारते आदिपर्वणि
आस्तीकपर्वणि षट्त्रिंशोऽध्यायः।। 36 ।।