आदिपर्व
अध्यायः ३४
सौतिरुवाच।
`इत्येवमुक्तो गरुडः प्रत्युवाच शचीपतिम्'।
गरुड उवाच।
सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर।
बलं तु मम जानीहि महच्चासह्यमेव च।।
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम्।
`अनिमित्तं सुरश्रेष्ठ सद्यः प्राप्नोति गर्हणाम्।।
गुणसंकीर्तनं चापि पृष्टेनान्येन गोपते।
वक्तव्यं न तु वक्तव्यं स्वयमेव शतक्रतो।।'
सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया।
न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः।।
सपर्वतवनामुर्वीं ससागरजलामिमाम्।
वहे पक्षेण वै शक्र त्वामप्यत्रावलम्बिनम्।।
सर्वान्संपिण्डितान्वापि लोकान्सस्थाणुजङ्गमान्।
वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम्।।
सौतिरुवाच।
इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः।
आह शौनक देवेन्द्रः सर्वलोकहितः प्रभुः।।
एवमेव यथात्थ त्वं सर्वं संभाव्यते त्वयि।
संगृह्यतामिदानीं मे सख्यमत्यन्तमुत्तमम्।।
न कार्यं यदि सोमेन मम सोमः प्रदीयताम्।
अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम्।।
गरुड उवाच।
किंचित्कारणमुद्दिश्य सोमोऽयं नीयते मया।
न दास्यामि समापातुं सोमं कस्मैचिदप्यहम्।।
यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम्।
त्वमादाय ततस्तृर्णं हरेथास्त्रिदिवेश्वर।।
शक्र उवाच।
वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज।
यमिच्छसि वरं मत्तस्तं गृहाण खगोत्तम।।
सौतिरुवाच।
इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन्।
भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः।।
गरुड उवाच।
ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम्।
भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः।।
सौतिरुवाच।
तथेत्युक्त्वाऽन्वगच्छत्तं ततो दानवसूदनः।
देवदेवं महात्मानं योगिनामीश्वरं हरिम्।।
स चान्वमोदत्तं चार्थं यथोक्तं गरुडेन वै।
इदं भूयो वचः प्राह भगवांस्त्रिदशेश्वरः।।
हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम्।
आजगाम ततस्तूर्णं सुपर्णी मातुरन्तिकम्।।
`विनयावनतो भूत्वा वचनं चेदमब्रवीत्।
इदमानीतममृतं देवानां भवनान्मया।।
प्रशाधि किमितो मातः करिष्यामि शुभव्रते।
विनतोवाच।
परितुष्टाऽहमेतेन कर्मणा तव पुत्रक।।
अजरश्चाभरश्चैव देवानां सुप्रियो भव।
सौतिरुवाच।'
अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत्।
गरुड उवाच।
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः।।
स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः।
भवद्भिरिदमासीनैर्यदुक्तं तद्वचस्तदा।।
अदासी चैव मातेयमद्यप्रभृति चास्तु मे।
यथोक्तं भवतामेतद्वचो मे प्रतिपादितम्।।
सौतिरुवाच।
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत।
शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः।।
अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा।
स्नाताश्च कुतजप्याश्च प्रहृष्टाः कृतमङ्गलाः।।
`परस्परकृतद्वेषाः सोमप्राशनकर्मणि।
अहं पूर्वमहं पूर्वमित्युक्त्वा ते समाद्रवन्।।'
यत्रैतदमृतं चापि स्थापितं कुशसंस्तरे।
तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत्।।
सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा।
ततो द्विधा कृता जिह्वाः सर्पाणां तेन कर्मणा।।
अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः।
`नागाश्च वञ्चिता भूत्वा विसृज्य विनतां ततः।
विषादमगमंस्तीव्रं गरुडस्य बलात्प्रभो।।'
एवं तदमृतं तेन हृतमाहृतमेव च।
द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना।।
ततः सुपर्णः परमप्रहर्षवा-
न्विहृत्य मात्रा सह तत्र कानने।
भुजंगभक्षः परमार्चितः खगै-
रहीनकीर्तिर्विनतामनन्दयत्।।
इमां कथां यः शृणुयान्नरः सदा
पठेत वा द्विजगणमुख्यसंसदि।
असंशयं त्रिदिवमियात्स पुण्यभा-
ङ्महात्मनः पतगपतेः प्रकीर्तनात्।।
।। इति श्रीमन्महाभारते आदिपर्वणि
आस्तीकपर्वणि चतुस्त्रिंशोऽध्यायः।। 34 ।।