आदिपर्व

अध्यायः ३१

Adi Parva (Sanskrit) · Adhyaya 31
अक्षर का आकार

शौनक उवाच।

कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज।
तपसा वालखिल्यानां संभूतो गरुडः कथम्।।

कश्यपस्य द्विजातेश्च कथं वै पक्षिराट् सुतः।
अधृष्टः सर्वभूतानामवध्यस्चाभवत्कथम्।।

कथं च कामचारी स कामवीर्यश्च खेचरः।
एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते।।

सौतिरुवाच।

विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि।
शृणु मे वदतः सर्वमेतत्संक्षेपतों द्विज।।

यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः।
साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल।।

तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह।
मुनयो वालखिल्याश्च ये चान्ये देवतागणाः।।

शक्रस्तु वीर्यसदृशमिध्यभारं गिरिप्रभम्।
समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः।।

अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरवर्ष्मणः।
पलाशवर्तिकामेकां वहतः संहतान्पथि।।

प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान्।
क्लिश्यमानान्मन्दबलान्गोष्पदे संप्लुतोदके।।

तान्सर्वान्विस्मयाविष्टो वीर्योन्मत्तः पुरन्दरः।
अपहास्याभ्यगाच्छीघ्रं लम्बयित्वाऽवमन्य च।।

तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः।
आरेभिरे महत्कर्म तदा शक्रभयंकरम्।।

जुहुवुस्ते सुतपसो विधिवज्जातवेदसम्।
मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु।।

कामवीर्यः कामगमो देवराजभयप्रदः।
इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः।।

इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः।
तपसो नः फलेनाद्य दारुणः संभवित्विति।।

तद्बुद्ध्वा भृशसंतप्तो देवराजः शतक्रतुः।
जगाम शरणं तत्र कश्यपं संशितव्रतम्।।

तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः।
वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत।।

`कश्यप उवाच।

केन कामेन चारब्धं भवद्भिर्होमकर्म च।
याथातथ्येन मे ब्रूत श्रोतुं कौतूहलं हि मे।।

वालखिल्या ऊचुः।

अवज्ञाताः सुरेन्द्रेण मूढेनाकृतबुद्धिना।
ऐश्वर्यमदमत्तेन सदाचारान्निरस्यता।।

तद्विघातार्थमारम्भो विधिवत्तस्य कश्यप।।

सौतिरुवाच।'

एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः।
तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः।।

अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः।
इन्द्रार्थे च भवन्तोऽपि यत्नवन्तस्तपोधनाः।।

न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः।
भवतां हि न मिथ्याऽयं संकल्पो वै चिकीर्षितः।।

भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान्।
प्रसादः क्रियतामस्य देवराजस्य याचतः।।

सौतिरुवाच।

एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः।
प्रत्यूचुरभिसंपूज्य मुनिश्रेष्ठं प्रजापतिम्।।

वालखिल्या ऊचुः।

इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते।
अपत्यार्थं समारम्भो भवतश्चायमीप्सितः।।

तदिदं सफलं कर्म त्वयैव प्रतिगृह्यताम्।
तथा चैवं विधत्स्वात्र यथा श्रेयोऽनुपश्यसि।।

सौतिरुवाच।

एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा।
विनता नाम कल्याणी पुत्रकामा यशस्विनी।।

तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः।
उपचक्राम भर्तारं तामुवाचाथ कश्यपः।।

आरम्भः सफलो देवि भविता यस्त्वयेप्सितः।
जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ।।

तपसा वालखिल्यानां मम संकल्पतस्तथा।
भविष्यतो महाभागौ पुत्रौ त्रैलोक्यपूजितौ।।

उवाच चैनां भगवान्कश्यपः पुनरेव ह।
धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः।।

एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति।
लोकसंभावितो वीरः कामरूपो विहङ्गमः।।

सौतिरुवाच।

शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः।
त्वत्सहायौ महावीर्यौ भ्रातरौ ते भविष्यतः।।

नैताभ्यां भविता दोषः सकाशात्ते पुरंदर।
व्येतु ते शक्र संतापस्त्वमेवेन्द्रो भविष्यसि।।

न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः।
न चावमान्या दर्पात्ते वाग्वज्रा भृशकोपनाः।।

सौतिरुवाच।

एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम्।
विनता चापि सिद्धार्था बभूव मुदिता तथा।।

जनयामास पुत्रौ द्वावरुणं गरुडं तथा।
विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःसरः।।

पतत्त्रीणां च गरुडमिन्द्रत्वेनाभ्यषिञ्चत।
तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन।।

।। इति श्रीमन्महाभारते आदिपर्वणि
आस्तीकपर्वणि एकत्रिंशोऽध्यायः।। 31 ।।