आदिपर्व
अध्यायः २६
Adi Parva (Sanskrit) · Adhyaya 26
सौतिरुवाच।
एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः।
नीलजीमूतसंघातैः सर्वमम्बरमावृणोत्।।
मेघानाज्ञापयामास वर्षध्वममृतं शुभम्।
ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः।।
परस्परमिवात्यर्थं गर्जन्तः सततं दिवि।
संवर्तितमिवाकाशं जलदैः सुमहाद्भुतैः।।
सृजद्भिरतुलं तोयमजस्रं सुमहारवैः।
संप्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः।।
मेघस्तनितनिर्घोषौर्विद्युत्पवनकम्पितैः।
तैर्मेघैः सततासारं वर्षद्भिरनिशं तदा।।
नष्टचन्द्रार्ककिरणमम्बरं समपद्यत।
नागानामुत्तमो हर्षस्तथा वर्षति वासवे।।
आपूर्यत मही चापि सलिलेन समन्ततः।
रसातलमनुप्राप्तं शीतलं विमलं जलम्।
तदा भूरभवच्छन्ना जलोर्मिभिरनेकशः।
रामणीयकमागच्छन्मात्रा सह भुजंगमाः।।
।। इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि
षड्विंशोऽध्यायः।। 26 ।।