आदिपर्व

अध्यायः २५२

Adi Parva (Sanskrit) · Adhyaya 252
अक्षर का आकार

वैशंपायन उवाच।

तौ रथाभ्यां रथश्रेष्ठौ दावस्योभयतः स्थितौ।
दिक्षु सर्वासु भूतानां चक्राते कदनं महत्।।

यत्र यत्र च दृश्यन्ते प्राणिनः खाण्डवालयाः।
पलायन्तः प्रवीरौ तौ तत्रतत्राभ्यधावताम्।।

छिद्रं न स्म प्रपश्यन्ति रथयोराशुचारिणोः।
आविद्धावेव दृश्येते रथिनौ तौ रथोत्तमौ।।

खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः।
उत्पेतुर्भैरवान्नादान्विनदन्तः समन्ततः।।

दग्धैकदेशा बहवो निष्टप्ताश्च तथाऽपरे।
स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च तथाऽपरे।।

समालिङ्ग्य सुतानन्ये पितॄन्भ्रातॄनथाऽपरे।
त्यक्तुं न शेकुः स्नेहेन तत्रैव निधनं गताः।।

सन्दष्टदशनाश्चान्ये समुत्पेतुरनेकशः।
ततस्तेऽतीव घूर्णन्तः पुनरग्नौ प्रपेदिरे।।

दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले।
तत्रतत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः।।

जलाशयेषु तप्तेषु क्वाथ्यमानेषु वह्निना।
गतसत्वाः स्म दृश्यन्ते कूर्ममत्स्याः समन्ततः।।

शरीरैरपरे दीप्तैर्देहवन्त इवाग्नयः।
अदृश्यन्त वने तत्र प्राणिनः प्राणिसंक्षये।।

कांश्चिदुत्पततः पार्थः शरैः संछिद्य खण्डशः।
पातयामास विहगान्प्रदीप्ते वसुरेतसि।।

ते शराचितसर्वाङ्गा निनदन्तो महारवान्।
ऊर्ध्वमुत्पत्य वेगेन निपेतुः खाण्डवे पुनः।।

शरैरभ्याहतानां च सङ्घशः स्म वनौकसाम्।
विरावः शुश्रुवे घोरः समुद्रस्येव मथ्यतः।।

वह्नेश्चापि प्रदीप्तस्य खमुत्पेतुर्महार्चिषः।
जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम्।।

तेनार्चिषा सुसन्तप्ता देवाः सर्षिपुरोगमाः।
ततो जग्मुर्महात्मानः सर्व एव दिवौकसः।
शतक्रतुं सहस्राक्षं देवेशमसुरार्दनम्।।

देवा ऊचुः।

किं न्विमे मानवाः सर्वे दह्यन्ते चित्रभानुना।
कच्चिन्न संक्षयः प्राप्तो लोकानाममरेश्वर।।

वैशंपायन उवाच।

तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च।
खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः।।

महता रथबृन्देन नानारूपेण वासवः।
आकाशं समवाकीर्य प्रववर्ष सुरेश्वरः।।

ततोऽक्षमात्रा व्यसृजन्धाराः शतसहस्रशः।
चोदिता देवराजेन जलदाः खाण्डवं प्रति।।

असंप्राप्तास्तु ता धारास्तेजसा जातवेदसः।
ख एव समुशुष्यन्त नकाश्चित्पावकं गताः।।

ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा।
पुनरेव महामेघैरम्भांसि व्यसृजद्बहु।।

अर्चिर्धाराभिसंबद्धं धूमविद्युत्समाकुलम्।
बभूव तद्वनं घोरं स्तनयित्नुसमाकुलम्।।

।। इति श्रीमन्महाभारते आदिपर्वणि
खाण्डवदाहपर्वणि
द्विपञ्चाशदधिकद्विशततमोऽध्यायः।। 252 ।।